Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 008

BORI CE: 07-008-001

धृतराष्ट्र उवाच
किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि

MN DUTT: 05-009-001

धृतराष्ट्र उवाच किं कुर्वाणं रणे द्रोणं जनुः पाण्डवसुंजयाः
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि

M. N. Dutt: What was Drona doing when the Pandavas and the Srinjayas slew him in battle,-he who was so skillful in the use of weapons amongst all wielders of arms?

BORI CE: 07-008-002

रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः
प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान्

MN DUTT: 05-009-002

रथभङ्ग बभूवास्य धनुर्वाशीर्यतास्यतः
प्रमत्तो वाभवद् द्रोणस्ततो मृत्युमुपेयिवान्

M. N. Dutt: Did his chariot give way? Did his bow snap in two in the act of smiting? Did Drona go mad and for the reason met with his death?

BORI CE: 07-008-003

कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम्
किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः

BORI CE: 07-008-004

क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम्
दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम्

BORI CE: 07-008-005

पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम्
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम्

MN DUTT: 05-009-003

कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम्
किरन्तमिषुसंघातान् रुक्मपुङ्खाननेकशः
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम्
दूरेषुपातिनं दान्तमस्त्रयुद्धेषु पारगम्
पाञ्चालपुत्रो न्यवधीद दिव्यास्त्रधरमच्युतम्
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम्

M. N. Dutt: O son, how was it that the son of Prishata, the prince of the Panchalas, slew that invincible hero, who scattered thick shower of arrows decked with golden wings, who was : (wonderfully) light-handed; that foremost of the regenerate who proficient in everything, thoroughly familiar with all modes of warfare and capable of shooting his shafts to was over a long distance; who was self-controlled, skilful in the use of weapons and blessed with the possession of celestial weapons, that mighty warrior who performed many dreadful feats and who was ever heedful in fight?

BORI CE: 07-008-006

व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना

MN DUTT: 05-009-004

व्यक्तं हि दैवं वलवत् पौरुषादिति मे मतिः
यद् द्रोणो निहतः शूरू पार्षतेन महात्मना

M. N. Dutt: Since that heroic Drona was slain by Parshata of illustrious soul, it is evident, I think, that Destiny is more powerful than exertion.

BORI CE: 07-008-007

अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम्
तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम्

MN DUTT: 05-009-005

अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत् प्रतिष्ठितम्
तमिष्वस्त्रधराचार्ये द्रोणं शंससि मे हतम्

M. N. Dutt: In that mighty warrior, the knowledge of all the four kinds of wcapons was present. Do you say to me that Drona, that preceptor of all wielders of arrows and weapons is slain?

BORI CE: 07-008-008

श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम्
जातरूपपरिष्कारं नाद्य शोकमपानुदे

MN DUTT: 05-009-006

श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारितम्
जातरूपशिरस्त्राणं नाद्य शोकमपानुदे

M. N. Dutt: Hearing the death that hero of golden car covered with tiger-skins, whose effulgence was like that of gold, I cannot today discard my grief.

BORI CE: 07-008-009

न नूनं परदुःखेन कश्चिन्म्रियति संजय
यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये

MN DUTT: 05-009-007

न नूनं परदुःखेन म्रियते कोऽपि संजय
यत्र द्रोणमहं श्रुत्वा हतं जीवामि मन्दधीः

M. N. Dutt: Surely, O Sanjaya, no man ever dies through sorrow caused by another's calamity; since, I, unfortunate as I am, am still alive having heard of Drona's death.

Corresponding verse not found in BORI CE

MN DUTT: 05-009-008

दैवमेव परं मन्ये नन्वनर्थं हि पौरुषम्
अश्मसारमयं नूनं हृदयं सुदृढं मम

M. N. Dutt: I do consider Destiny to be, by far, the superior; and exertion is of no avail. Surely my heart is so hard as if it were made of adamant.

BORI CE: 07-008-010

अश्मसारमयं नूनं हृदयं सुदृढं मम
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते

BORI CE: 07-008-011

ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः

BORI CE: 07-008-012

शोषणं सागरस्येव मेरोरिव विसर्पणम्
पतनं भास्करस्येव न मृष्ये द्रोणपातनम्

BORI CE: 07-008-013

दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता
योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परंतपः

BORI CE: 07-008-014

मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम्

BORI CE: 07-008-015

ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः
रथे वातजवा युक्ताः सर्वशब्दातिगा रणे

BORI CE: 07-008-016

बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः
दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः

BORI CE: 07-008-017

करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम्
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः

BORI CE: 07-008-018

आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः
हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः

BORI CE: 07-008-019

ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम्

BORI CE: 07-008-020

जातरूपपरिष्कारमास्थाय रथमुत्तमम्
भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि

BORI CE: 07-008-021

विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः
स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि

BORI CE: 07-008-022

दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम्
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः

BORI CE: 07-008-023

ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः
दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम्

BORI CE: 07-008-024

उताहो सर्वसैन्येन धर्मराजः सहानुजः
पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत्

BORI CE: 07-008-025

नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः
ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत्

MN DUTT: 05-009-008

दैवमेव परं मन्ये नन्वनर्थं हि पौरुषम्
अश्मसारमयं नूनं हृदयं सुदृढं मम

MN DUTT: 05-009-009

यच्छुत्वा निहतं द्रोणं शतधा न विदीर्यते
ब्राह्ये दैवे तथेष्वस्त्रे यमुपासन् गुणार्थिनः
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हृतः
शोषणं सागरस्येव मेरोरिव विसर्पणम्
पतनं भास्करस्येव न मृष्ये द्रोणपातनम्
दुष्टानां प्रतिषेद्धाऽऽसीद् धार्मिकाणां च रक्षिता

MN DUTT: 05-009-010

योऽहासीत् कृपणस्यार्थे प्राणानपि परंतपः
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम्
तेच शोणा बृहन्तोऽश्वाश्छन्ना जालैहिरण्मयैः

MN DUTT: 05-009-011

रथे बातजवा युक्ताः सर्वशास्त्रातिगा रणे
बलिनो हैषिणो दान्ताः सैन्धवाः साधुवाहिनः

MN DUTT: 05-009-012

दृढाः संग्राममध्येषु कच्चिदासन्नविह्वलाः
करिणां बृंहतां युद्धे शङ्खदुन्दुभिनि:स्वनैः

MN DUTT: 05-009-013

ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथा

MN DUTT: 05-009-014

हयाः पराजिताः शीघ्रा भारद्वाजरथोद्वहाः
ते स्म रुक्मरथे युक्ता नरवीरसमास्थिताः

MN DUTT: 05-009-015

कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम्
जातरूपपरिष्कारमास्थाय रथमुत्तमम्

MN DUTT: 05-009-016

भारद्वाजः किमकरोद् युधि सत्यपराक्रमः
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्धराः

MN DUTT: 05-009-017

स सत्यसंघो बलवान् द्रोणः किमकरोद् युधि
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम्
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः
ननु रुक्मरथं दृष्ट्वा प्राद्रवन्ति स्म पाण्डवाः

MN DUTT: 05-009-018

दिव्यमस्त्रं विकुर्वाणं रणे तस्मिन् महाबलम्
उताहो सर्वसैन्येन धर्मराज सहानुजः
पाञ्चाल्यप्रग्रहो द्रोणं सर्वत: समावारयत्
नूनमावास्यत् पार्थो रथिनोऽन्यानजिह्मगैः

MN DUTT: 05-009-019

ततो द्रोणं समारोहत् पार्षतः पापकर्मकृत्
न ह्यहं परिपश्यामि वधे कंचन शुष्मिण:

M. N. Dutt: I do consider Destiny to be, by far, the superior; and exertion is of no avail. Surely my heart is so hard as if it were made of adamant. Since it does not break into hundred pieces, although I have heard of the slaughter of Drona. How could he had bean struck by death, on whom the Brahmanas and the princes danced attendance being desirous of receiving lessons in the Vedas and in divination and in the use of bows. I cannot even conceive the fall of Drona which is like the drying up of the ocean, the removal of the Meru mountain and the dropping of the lustrous orb from the heavens. He was the repressor of the wicked and the protector of the pious. That afflicter of enemies, who has sacrificed his life for the pitiable Duryodhana, on whose prowess rested the hope of victory of my wicked sons, who was equal to Brihaspati and Ushanas in intelligence, how could he have been slain? His stout chestnut-coloured steed, decked with golden trappings. Fleet as the wind, yoked to his car, beyond the reach of all weapons in battle, endued with great strength, emitting neights (in joy), welltrained, of the Sindhu breed, excellently dragging the chariot. Of great sturdiness, were exhausted in the very midst of the fight? Unmoved in battle by the sight of the elephants as those huge monsters roared out with the sound of conchs and kettledrums. By the twangs of bow-strings and showers of arrows and other weapons, foretelling victory over enemies (by their appearance), of inexhaustible breath and indefatigable. mere Those fleet horses harnessed to the car of the son of Bharadvaja, were they overpowered? Even such steeds were yoked by that foremost of human heroes to his golden car. Why could he not cross the ocean of the Pandava army, mounted on his own best of cars effulgent like gold? What feats did that son of Bharadvaja achieve in battle, who made all the heroes, cry and on whose knowledge of weapons all the bowmen in the world depend? What feats did Drona perform in battle, Drona who was endued with great strength and was ever devoted to truth? What car-warriors felled in battle Drona of fierce deeds, that foremost of bowmen, that foremost commanders who was like Shakra himself in heaven? Did the Pandavas fly on all directions sceing him of the golden car? Him endued with great might who invoked in that batile many celestial weapons? Did the very virtuous king Yudhishthira, with his younger brothers and is army having the prince of the Panchalas for its reins, encompass Drona on all sides? Surely Partha checked the career of other car-warriors with his straight going arrows. of

BORI CE: 07-008-026

न ह्यन्यं परिपश्यामि वधे कंचन शुष्मिणः
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 05-009-020

M. N. Dutt: Then, of course, the son of Prishata, that perpetrator of evil deeds, assaulted Drona. Indeed I do not see any one capable of bringing about the death of Drona.

BORI CE: 07-008-027

तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः
केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः

BORI CE: 07-008-028

व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम

BORI CE: 07-008-029

योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान्
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान्

BORI CE: 07-008-030

अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया
अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम्

BORI CE: 07-008-031

यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः
स सत्यसंधः सुकृती श्रीकामैर्निहतः कथम्

BORI CE: 07-008-032

दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः

BORI CE: 07-008-033

क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः
न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति

BORI CE: 07-008-034

यं द्वौ न जहतः शब्दौ जीवमानं कदाचन
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम्

MN DUTT: 05-009-021

धृष्टद्युम्नाटते रौद्रात् पाल्यमानात् किरीटिना
तैर्वृतः सर्वतः शूरः पाञ्चाल्यापसदस्ततः
केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम
योऽधीत्य चतुरो वेदान् साङ्गानाख्यानपञ्चमान्

MN DUTT: 05-009-022

ब्राह्मणानां प्रतिष्ठाऽऽसीत् स्रोतसामिव सागरः
क्षत्रं च ब्रह्म चैवेह योऽभ्यतिष्ठत् परंतपः
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान्
अमर्षिणा मर्षितवान् क्लिश्यमानान् सदा मया

MN DUTT: 05-009-023

अनर्हमाणान् कौन्तेयान् कर्मणस्तस्य तत् फलम्
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः
स सत्यसंधः सुकृती श्रीकामैनिहतः कथम्
दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः

MN DUTT: 05-009-024

स कथं निहतः पाथैः क्षुद्रमत्स्यैर्य था तिमिः
क्षिप्रहस्तश्च बलवान् दृढधन्वाऽरिमर्दनः

MN DUTT: 05-009-025

न यस्य विजयाकाक्षी विषयं प्राप्य जीवति
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन

MN DUTT: 05-009-026

ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुष्मताम्
अदीनं पुरुषव्याघ्र द्वीमन्तमपराजितम्

M. N. Dutt: Save the fierce warrior Dhrishtadyumna supported by Arjuna himself. I think that when these heroes namely the Kekayas, the Chedis, the Karushas, the Matsyas and the other rulers of earth, encompassing the preceptor hemmed him in on all sides, like ants pressing upon a serpent and that when he was occupied in the achievement of some difficult feat, then the vilest among the Panchalas must have slain him. He who, having studied the four Vedas along with their auxiliaries and the Histories constituting the fifth Veda. Became the refuge of the Brahmanas as the ocean is that of the rivers, that afflicter of eneinies who led the life both of a Brahmana and a Kshatriya, how could that Brahinana, venerable in years meet his death through weapons. Intolerant in spirit, he was ever humiliated and had to undergo troubles for my sake. Through the son of Kunti he reaped the fruits of his own actions however undeserving he might have been of them. How could that one, on whose feats of valour depends the world of bowmen, who was cver devoted to truth and of pious deeds, who was foremost like the Shakra in heaven, who was endued with great vigours and strength, how could that one be slain by persons hankering after prosperity? How could that one of great lightness of hand, endued with might, a firm wielder of bow and the grinder of his foes, how could that one he slain by the sons of Pritha like a timi slain by the smaller fishes? He, meeting whom no person desirous of victory, ever returned with life, he whom when alive the following two sound never left, namely. The sound of the recital of Vedic verses, by those desirous of acquiring Vedic knowledge and the twang of the bowstrings, caused by those wishing to acquire skill in bowmanship; he who was never depressed, who was the foremost among men and was ever attended with prosperity and was invincible.

BORI CE: 07-008-035

नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम्
कथं संजय दुर्धर्षमनाधृष्ययशोबलम्

MN DUTT: 05-009-027

नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम्
कथं संजय दुर्धर्षमनाधृष्ययशोबलम्
पश्यतां पुरुषेन्द्राणां समरे पार्षतोऽवधीत्
के पुरुतादयुध्यन्त रक्षन्तो द्रोणमन्तिकात्

M. N. Dutt: He who was equal to the elephant and the lion in prowess, even he has been slain! I cannot even tolerate the thought of Drona's death. How, O Sanjaya, the son of Prishata, slew in battle that most invincible hero whose might was never checked and whose fame was never soiled even before the very eyes of the foremost of men? Who were those persons who fought in Drona's front and protected him from near?

Corresponding verse not found in BORI CE

MN DUTT: 05-009-028

के नु पश्चादवर्तन्त गच्छन्तो दुर्गमां गतिम्
केऽरक्षन् दक्षिणं चक्रं सव्यं के च महात्मनः

M. N. Dutt: Who were they who brought up his rear and obtained that end which is so difficult to being attained? Who were they that covered the right। and the left wings of that high-souled one?

BORI CE: 07-008-036

केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे

BORI CE: 07-008-037

के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन्
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम्

BORI CE: 07-008-038

एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय
पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम्

BORI CE: 07-008-039

मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम्
भूयस्तु लब्धसंज्ञस्त्वा परिप्रक्ष्यामि संजय

MN DUTT: 05-009-028

के नु पश्चादवर्तन्त गच्छन्तो दुर्गमां गतिम्
केऽरक्षन् दक्षिणं चक्रं सव्यं के च महात्मनः

MN DUTT: 05-009-029

युध्यमानस्य संयुगे
केच तस्मिंस्तनूंस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्

MN DUTT: 05-009-030

द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम्
कञ्चिन्नैनं भयान्मन्दाः क्षत्रिया व्यजहन् रणे
रक्षितारस्ततः शूनये कच्चित् तैर्न हतः परैः
न स पृष्ठमरेस्त्रासाद् रणे शौर्यात् प्रदर्शयेत्
परामप्यापदं प्राप्य स कथं निहतः परैः
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय
पराक्रमेद यथाशक्त्या तच्च तस्मिन् प्रतिष्ठितम्
मुह्यते मे मनस्तात कथा तावन्निवार्यताम्
भूयस्तु लब्धसंज्ञस्त्वां परिपृच्छामि संजय

M. N. Dutt: Who were they who brought up his rear and obtained that end which is so difficult to being attained? Who were they that covered the right। and the left wings of that high-souled one? Who went before him when that hero fought in the battle? Who were they that courted death stood face to face to them regardless of their body? Who were those heroes that attained the highest state of existence, in the battle with Drona? Did those vile Kshatriyas entrusted with the protection of Drona, out of apprehension, abandon him in (the thick of) the fight? Was he slain by the foe while there helpless? Out of fear Drona would never turn his back on the field of battle, though the danger might be very great. How could he have been slain by the enemy? O Sanjaya, although in a very critical situation, an illustrious person should do this, namely, display his prowess to the best of his might; all this was in Drona. O son, my mind is loosing consciousness; refrain for a while from this discourse. O Sanjaya, regaining my consciousness, I shall again question you.

Home | About | Back to Book 07 Contents | ← Chapter 7 | Chapter 9 →