Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 186

BORI CE: 01-186-001

दूत उवाच
जन्यार्थमन्नं द्रुपदेन राज्ञा; विवाहहेतोरुपसंस्कृतं च
तदाप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम्

MN DUTT: 01-194-001

दूत उवाच जन्यार्थमन्नं दुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च
तदाप्नुवध्वं कृतसर्वकार्याः कृष्णां च तत्रैव चिरं न कार्यम्

M. N. Dutt: The Messenger said : A good feast for the bridegroom's party has been prepared by the king Drupada in view of his daughter's nuptials. Come there after finishing your daily rites. The marriage of Krishna will take place there. Do not make any delay.

BORI CE: 01-186-002

इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः
एतान्समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत्

MN DUTT: 01-194-002

इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः
एतान् समारुह्य समेत सर्वे पाञ्चालराजस्य निवेशनं तत्

M. N. Dutt: These cars, adorned with golden lotus and drawn by excellent horses, are worthy of being ridden by kings. Riding on them, come to the palace of the Panchala king.

BORI CE: 01-186-003

वैशंपायन उवाच
ततः प्रयाताः कुरुपुंगवास्ते; पुरोहितं तं प्रथमं प्रयाप्य
आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते

MN DUTT: 01-194-003

वैशंपायन उवाच ततः प्रयाताः कुरुपुङ्गवास्ते पुरोहितं तं परियाप्य सर्वे
आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैकयाने

M. N. Dutt: Vaishampayana said : Having sent away the priest and having placed Kunti and Krishna on one of these cars, those best of the Kurus ascended those excellent cars and proceeded towards the palace.

BORI CE: 01-186-004

श्रुत्वा तु वाक्यानि पुरोहितस्य; यान्युक्तवान्भारत धर्मराजः
जिज्ञासयैवाथ कुरूत्तमानां; द्रव्याण्यनेकान्युपसंजहार

MN DUTT: 01-194-004

श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान् भारत धर्मराजः
जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसंजहार
फलानि माल्यानि च संस्कृतानि वर्माणि चर्माणि तथाऽऽसनानि
जानि चान्यानि कृषीनिमित्तम्

M. N. Dutt: O descendant of Bharata, O king, having heard from the priest the words of the Dharmaraja (Yudhishthira), he (Drupada), kept ready a large collection of things, such as fruits, sanctified garlands, armours, shields, carpets, kine, ropes, seeds and various other articles and implements of agriculture so that he might ascertain to which order these heroes belonged.

BORI CE: 01-186-005

फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि
गाश्चैव राजन्नथ चैव रज्जू;र्द्रव्याणि चान्यानि कृषीनिमित्तम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-186-006

अन्येषु शिल्पेषु च यान्यपि स्युः; सर्वाणि कॢप्तान्यखिलेन तत्र
क्रीडानिमित्तानि च यानि तानि; सर्वाणि तत्रोपजहार राजा

MN DUTT: 01-194-005

अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृत्यान्यखिलेन तत्र
क्रीडानिमित्तान्यपि यानि तत्र सर्वाणि तत्रोपजहार राजा

M. N. Dutt: The king also collected every article appertaining to other arts and various implements and apparatus of every kind of sports.

BORI CE: 01-186-007

रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तोऽश्वरथाश्च चित्राः
धनूंषि चाग्र्याणि शराश्च मुख्याः; शक्त्यृष्टयः काञ्चनभूषिताश्च

BORI CE: 01-186-008

प्रासा भुशुण्ड्यश्च परश्वधाश्च; सांग्रामिकं चैव तथैव सर्वम्
शय्यासनान्युत्तमसंस्कृतानि; तथैव चासन्विविधानि तत्र

MN DUTT: 01-194-006

वर्माणि चर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः
धनूंषि चाडयाणि शराच चित्राः शक्त्य॒ष्टयः काञ्चनभूषणाश्च
प्रासा भुशुण्ड यश्च परश्वधाश्च सांग्रामिकं चैव तथैव सर्वम्
शय्यस्नान्युत्तमवस्तुवन्ति तथैव वासो विविधं च तत्र

M. N. Dutt: (He kept there also) shining armours, shields, excellent swords and scimitars, beautiful chariots and horses, first class bows and well adorned arrows, various other kinds of weapons ornamented with gold, darts and rockets, battle axes and other implements of war, beds and carpets, various other fine things and cloths of various kinds.

BORI CE: 01-186-009

कुन्ती तु कृष्णां परिगृह्य साध्वी;मन्तःपुरं द्रुपदस्याविवेष
स्त्रियश्च तां कौरवराजपत्नीं; प्रत्यर्चयां चक्रुरदीनसत्त्वाः

MN DUTT: 01-194-007

मन्तःपुरं दुपदस्याविवेश
स्त्रियश्च तां कौरवराजपत्नी प्रत्यर्चयामासुरदीनसत्त्वाः

M. N. Dutt: Taking with her the virtuous Krishna, Kunti entered the inner apartment of Drupada's palace. The lAdies (of the king Drupada's household) worshiped the wife of the Kuru king with joyous hearts.

BORI CE: 01-186-010

तान्सिंहविक्रान्तगतीनवेक्ष्य; महर्षभाक्षानजिनोत्तरीयान्
गूढोत्तरांसान्भुजगेन्द्रभोग;प्रलम्बबाहून्पुरुषप्रवीरान्

BORI CE: 01-186-011

राजा च राज्ञः सचिवाश्च सर्वे; पुत्राश्च राज्ञः सुहृदस्तथैव
प्रेष्याश्च सर्वे निखिलेन राज;न्हर्षं समापेतुरतीव तत्र

MN DUTT: 01-194-008

तान् सिंहविक्रान्तगतीन् निरीक्ष्य महर्षभाक्षानजिनोत्तरीयान्
प्रलम्बबाहून् पुरुषप्रवीरान्
राजा च राज्ञः सचिवाश्च सर्वं पुत्राश्च राज्ञः सुहृदस्तथैव च
प्रेष्याश्च सर्वे निखिलेन राजन् हर्षं समापेतुरतीव तत्र

M. N. Dutt: O king, seeing those foremost of men, each possessing the sportive gait of the lion, each with deer skin for his upper garment, with eyes like mighty bulls, with broad shoulders and long hanging arms which looked like the bodies of mighty snakes, the king, the king's ministers, the king's sons, the king's relatives and attendants, all because exceedingly glad.

BORI CE: 01-186-012

ते तत्र वीराः परमासनेषु; सपादपीठेष्वविशङ्कमानाः
यथानुपूर्व्या विविशुर्नराग्र्या;स्तदा महार्हेषु न विस्मयन्तः

MN DUTT: 01-194-009

ते तत्र वीराः परमासनेषु सपादपीद्देप्वविशरूमानाः
यथानुपूर्वं विविशुनराग्र्या: तथा महार्हेषु न विस्मयन्तः

M. N. Dutt: Those heroes without any hesitation and awkwardness sat with perfect fearlessness on costly seats furnished with footstools; and they sat one after the other according to the order of their age.

BORI CE: 01-186-013

उच्चावचं पार्थिवभोजनीयं; पात्रीषु जाम्बूनदराजतीषु
दासाश्च दास्यश्च सुमृष्टवेषाः; भोजापकाश्चाप्युपजह्रुरन्नम्

MN DUTT: 01-194-010

उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु
दासाश्च दास्यश्च सुमृष्टवेषाः सम्भोजकाश्चाप्युपजहरन्नम्

M. N. Dutt: After those heroes were seated, well dressed male and female servants and skillful cooks brought excellent and costly viands, on plates made of gold and silver, food worthy of kings alone.

BORI CE: 01-186-014

ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं प्रतीताः
उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्याविविशुर्नृवीराः

MN DUTT: 01-194-011

ते तत्र भुक्त्वा पुरुषवीरा यथाऽऽत्मकामं सुभृशं प्रतीताः
उत्क्रम्य सर्वाणि वसूनि राजन् सांग्रामिकं ते विविशुनूवीराः

M. N. Dutt: Then those foremost of men dined on those dishes and became well pleased. After the dinner was over, those heroes among men, passing over, all other things, began to examine with interest the various implements of war (displayed there).

BORI CE: 01-186-015

तल्लक्षयित्वा द्रुपदस्य पुत्रो; राजा च सर्वैः सह मन्त्रिमुख्यैः
समर्चयामासुरुपेत्य हृष्टाः; कुन्तीसुतान्पार्थिवपुत्रपौत्रान्

MN DUTT: 01-194-012

तल्लक्षयित्वा दुपदस्य पुत्रो राजा च सर्वैः सह मन्त्रिमुख्यैः
समर्थयामासुरुपेत्य हृष्टाः कुन्तीसुतान् पार्थिव राजपुत्रान्

M. N. Dutt: Seeing this, Drupada's sons and the king (Drupada) himself with all the chief councillors knew the sons of Kunti to be all of royal blood and they therefore became exceedingly happy.

Home | About | Back to Book 01 Contents | ← Chapter 185 | Chapter 187 →