Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 198

BORI CE: 01-198-001

धृतराष्ट्र उवाच
भीष्मः शांतनवो विद्वान्द्रोणश्च भगवानृषिः
हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम्

MN DUTT: 01-206-001

धृतराष्ट्र उवाच भीष्मः शांतनवो विद्वान् द्रोणश्च भगवानृषिः
हितं च परमं वाक्यं त्वं च सत्यं ब्रवीषि माम्

M. N. Dutt: The learned Bhishma, the son of Shantanu and the illustrious Rishi Drona and you yourself, have said the truth and what is good for me.

BORI CE: 01-198-002

यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः
तथैव धर्मतः सर्वे मम पुत्रा न संशयः

MN DUTT: 01-206-002

यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः
तथैव धर्मतः सर्वे मम पुत्रा न संशयः

M. N. Dutt: There is no doubt that as those great carwarriors, the heroic sons of Kunti, are the sons of Pandu, so they are my sons also according to ordinance.

BORI CE: 01-198-003

यथैव मम पुत्राणामिदं राज्यं विधीयते
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः

MN DUTT: 01-206-003

यथैव मम पुत्राणामिदं राज्यं विधीयते
तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः

M. N. Dutt: As my sons are entitled to this kingdom, so certainly are the sons of Pandu entitled to it.

BORI CE: 01-198-004

क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान्
तया च देवरूपिण्या कृष्णया सह भारत

MN DUTT: 01-206-004

क्षत्तरानय गच्छैतान् सह मात्रा सुसत्कृतान्
तया च देवरूपिण्या कृष्णया सह भारत

M. N. Dutt: O Kshatta, go and in due affectionate way, bring them (the Pandavas) here along with their mother. O descendant of Bharata, bring also with them Krishna (Draupadi) of celestials beauty.

BORI CE: 01-198-005

दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा
दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः

MN DUTT: 01-206-005

दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा
दिष्ट्या दुपदकन्यां च लब्धवन्तो महारथाः

M. N. Dutt: From our good fortune the sons of Pritha are alive; from our good fortune Pritha is alive. From our good fortune those great car-warriors have obtained the daughter of Drupada.

BORI CE: 01-198-006

दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः
दिष्ट्या मम परं दुःखमपनीतं महाद्युते

MN DUTT: 01-206-006

दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः
दिष्ट्या मम परं दुःखमपनीतं महाद्युते

M. N. Dutt: From our good fortune our strength is increased; and from our good fortune Purochana is dead. O greatly effulgent one, from our good fortune my great grief is also removed.

BORI CE: 01-198-007

वैशंपायन उवाच
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात्
सकाशं यज्ञसेनस्य पाण्डवानां च भारत

MN DUTT: 01-206-007

वैशम्पायन उवाच ततो जगाम विदुरो धृतराष्ट्रस्य शासनात्
सकाशं यज्ञसेनम्य पाण्डवानां च भारत
समुपादाय रत्नानि वसूनि विविधानि च
द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव ह

M. N. Dutt: Vaishampayana said : O descendant of Bharata, thereupon Vidura at the command of Dhritarashtra went to Yajnasena and the Pandavas. He carried with him numerous jewels and various kinds of wealth for Draupadi, for the Pandavas and for Yainasena.

BORI CE: 01-198-008

तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः
द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान्

MN DUTT: 01-206-008

तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः
दुपदं न्यायतो राजन् संयुक्तमुपतस्थिवान्

M. N. Dutt: O king, having arrived there, that virtuous man, learned in all the Shastras, properly addressed Drupada and waited upon him.

BORI CE: 01-198-009

स चापि प्रतिजग्राह धर्मेण विदुरं ततः
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम्

MN DUTT: 01-206-009

स चापि प्रतिजग्राह धर्मेण विदुरं ततः
चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम्

M. N. Dutt: He (Drupada) too received Vidura in proper form and they both enquire after each other's welfare.

BORI CE: 01-198-010

ददर्श पाण्डवांस्तत्र वासुदेवं च भारत
स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः

MN DUTT: 01-206-010

ददर्श पाण्डवांस्तत्र वासुदेवं च भारत
स्नेहात् परिष्वज्य स तान् पप्रच्छानामयं ततः

M. N. Dutt: O descendant of Bharata, he saw there the Pandavas and Vasudeva (Krishna). He embraced them from affection and inquired after their welfare.

BORI CE: 01-198-011

तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम्
वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः

BORI CE: 01-198-012

पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान्
प्रददौ चापि रत्नानि विविधानि वसूनि च

BORI CE: 01-198-013

पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः

MN DUTT: 01-206-011

तैश्चाप्यमितबुद्धिः स पूजितो हि यथाक्रमम्
वचनाद् धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः
पप्रच्छानामयं राजंस्ततस्तान् पाण्डुनन्दनान्
प्रददौ चापि रत्नानि विविधानि वसूनि च
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशाम्पते
द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः

M. N. Dutt: They too worshiped in due order Vidura of immeasurable intelligence. According the command of Dhritarashtra, he (Vidura) spoke to the sons of Pandu again and again words of affection. O king, he then gave to the Pandavas, Kunti, Draupadi, Drupada and Drupada's sons, the gems and various kinds of wealth, sent through him by the Kurus.

BORI CE: 01-198-014

प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः
द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च

MN DUTT: 01-206-012

प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः
द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च

M. N. Dutt: The immeasurably intelligent Vidura then, in the presence of the Pandavas and Keshava (Krishna), thus modestly addressed Drupada in words of affection.

BORI CE: 01-198-015

राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः

BORI CE: 01-198-016

अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः
प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप

MN DUTT: 01-206-013

विदुर उवाच राजञ्छृणु सहामात्यः सपुत्रश्च वचो मम
धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः
अब्रवीत् कुशलं राजन् प्रीयमाणः पुनः पुनः
प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप

M. N. Dutt: Vidura said: O king, listen to my words with your sons and ministers. Dhritarashtra with his ministers, sons and friends. Has again and again joyously inquired after your welfare. O king, he has been pleased by the alliance with you.

BORI CE: 01-198-017

तथा भीष्मः शांतनवः कौरवैः सह सर्वशः
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति

MN DUTT: 01-206-014

तथा भीष्मः शांतनवः कौरवैः सह सर्वशः
कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति

M. N. Dutt: The son of Shantanu, the greatly wise Bhishma with all the Kurus has enquired after your welfare in every respect.

BORI CE: 01-198-018

भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति

MN DUTT: 01-206-015

भारद्वाजो महाप्राज्ञो द्रोणः प्रियसखस्तव
समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति

M. N. Dutt: The son of Bharadvaja, the greatly, wise Drona, your beloved friend, embracing you mentally, has enquired after your welfare.

BORI CE: 01-198-019

धृतराष्ट्रश्च पाञ्चाल्य त्वया संबन्धमीयिवान्
कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः

MN DUTT: 01-206-016

धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान्
कृतार्थं मन्यतेऽत्मानं तथा सर्वेऽपि कौरवाः

M. N. Dutt: Panchala king, Dhritarashtra and all the Kurus regard themselves very blessed by this alliance with you.

BORI CE: 01-198-020

न तथा राज्यसंप्राप्तिस्तेषां प्रीतिकरी मता
यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह

MN DUTT: 01-206-017

न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता
यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह

M. N. Dutt: Yajnasena, this alliance with you has made them more happy than if they had acquired a new kingdom.

BORI CE: 01-198-021

एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान्
द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम्

MN DUTT: 01-206-018

एतद् विदित्वा तुभवान् प्रस्थापयतु पाण्डवान्
द्रष्टुं हि पाण्डुपुत्रांश्च त्वरन्ति कुरवो भृशम्

M. N. Dutt: Knowing all this, O Sir, permit the Pandavas to go there. The Kurus exceedingly eager to see the sons of Pandu.

BORI CE: 01-198-022

विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः
उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा

MN DUTT: 01-206-019

विप्रोषिता दीर्घकालमेते चापि नरर्षभाः
उत्सुका नगरं द्रष्टुं भविष्यन्ति तथा पृथा

M. N. Dutt: These best of men (the Pandavas) are long absent (from Hastinapur). They and Pritha (Kunti) must be very eager to see their own city.

BORI CE: 01-198-023

कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः
द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः

MN DUTT: 01-206-020

कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः
द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयाश्च नः

M. N. Dutt: All the Kuru Ladies, all the citizens and our subjects are eagerly waiting to see the Panchala princess Krishna.

BORI CE: 01-198-024

स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम्
गमनं सहदाराणामेतदागमनं मम

MN DUTT: 01-206-021

स भवान् पाण्डुपुत्राणामाज्ञापयतु मा चिरम्
गमनं सहदाराणामेतदत्र मतं मम

M. N. Dutt: Therefore, O Sir, my opinion is that you should permit the Pandavas to go there with their wife without any further delay. are

BORI CE: 01-198-025

विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान्
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया

MN DUTT: 01-206-022

निसृष्टेषु त्वया राजन् पाण्डवेषु महात्मसु
ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान्
आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया

M. N. Dutt: O king, when the illustrious Pandavas will get your permission, I shall then send information to Dhritarashtra by quick messengers. Then, O king, the Pandavas will set out with Kunti and Krishna (Draupadi.)

Home | About | Back to Book 01 Contents | ← Chapter 197 | Chapter 199 →