Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 01 – Chapter 199

BORI CE: 01-199-001

द्रुपद उवाच
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम्
ममापि परमो हर्षः संबन्धेऽस्मिन्कृते विभो

MN DUTT: 01-207-001

दुपद उवाच एवमेतन्महाप्राज्ञ यथाऽऽत्थ विदुराद्य माम्
ममापि परमो हर्षः सम्बन्धेऽस्मिन् कृते प्रभो

M. N. Dutt: Drupada said: O Vidura, O greatly learned man, it is as you say. O lord, I too have been exceedingly happy by this alliance.

BORI CE: 01-199-002

गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम्
न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा

BORI CE: 01-199-003

यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः
भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ

BORI CE: 01-199-004

रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ

MN DUTT: 01-207-002

गमनं चाप युक्तं स्याद् दृढमेषां महात्मनाम्
न तु तावन्मया युक्तमेतद् वक्तुं स्वयं गिरा
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः
भीमसेनार्जुनो चैव यमौ च पुरुषर्षभौ
रामकृष्णौ च धर्मज्ञो तदा गच्छन्तु पाण्डवाः
एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ

M. N. Dutt: It is highly proper for these illustrious princess to return to their ancestral kingdom. But it is not proper for me to say this myself. If the hero, Yudhishthira, the son of Kunti, if Bhima and Arjuna, if these best of men the twins (Nakula and Sahadeva) and if Rama and Krishna, both learned in the precepts of religion, wish it, then let the Pandavas go there. These two best of men (Rama and Krishna) are ever engaged in doing what is agreeable and beneficial to them (the Pandavas).

BORI CE: 01-199-005

युधिष्ठिर उवाच
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः
यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम्

MN DUTT: 01-207-003

युधिष्ठिर उवाच परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः
यथा वक्ष्यसि नः प्रीत्या तत् करिष्यामहे वयम्

M. N. Dutt: Yudhishthira said: O king, I with all my brothers, am now dependent on you. We shall all gladly do what you will command us to do.

BORI CE: 01-199-006

वैशंपायन उवाच
ततोऽब्रवीद्वासुदेवो गमनं मम रोचते
यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित्

MN DUTT: 01-207-004

वैशम्पायन उवाच ततोऽब्रवीद् वासुदेवो गमनं रोचते मम
यथा वा मन्यते राजा दुपदः सर्वधर्मवित्

M. N. Dutt: Vaishampayana said : Thereupon Vasudeva said, “I am of opinion that they should go. But we must all abide by the opinion of the king Drupada who is learned in all the precepts of virtue."

BORI CE: 01-199-007

द्रुपद उवाच
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः
प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम

BORI CE: 01-199-008

यथैव हि महाभागाः कौन्तेया मम सांप्रतम्
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः

MN DUTT: 01-207-005

दुपद उवाच यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः
प्राप्तकालं महाबाहुः सा बुद्धिनिश्चिता मम
यथैव हि महाभागाः कौन्तेया मम समाप्रतम्
तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः

M. N. Dutt: Drupada said : Having considered all the circumstances, I certainly agree with the foremost of men, the heroic and mighty armed Dasharaha (Krishna). There is no doubt the illustrious sons of Kunti, the Pandavas, are now to me as they are to Vasudeva.

BORI CE: 01-199-009

न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः
यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः

MN DUTT: 01-207-006

न तद् ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः
यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः

M. N. Dutt: The son of Kunti, Yudhishthira, himself does not seek the welfare of the Pandavas so much as this foremost of men Keshava (Krishna) does.

BORI CE: 01-199-010

वैशंपायन उवाच
ततस्ते समनुज्ञाता द्रुपदेन महात्मना
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः

BORI CE: 01-199-011

आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम्
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम्

MN DUTT: 01-207-007

वैशाम्पायन उवाच ततस्ते समनुज्ञाता दुपदेन महात्मना
पाण्डवाश्चैव कृष्णश्च विदुरश्च महीपते
आदाय द्रौपदी कृष्णां कुन्तीं चैव यशस्विनीम्
सविहारं सुर जग्मुर्नगरं नागसाह्वयम्

M. N. Dutt: Vaishampayana said : O king, having been commanded by the illustrious Drupada, the Pandavas, Krishna and Vidura. Taking with them the daughter of Drupada, Krishna and the illustrious Kunti, journeyed in pleasure towards the city of Hastinapur.

BORI CE: 01-199-012

श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्

MN DUTT: 01-207-008

श्रुत्वा चाप्यागतान् वीरान् धृतराष्ट्रो जनेश्वरः
प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्

M. N. Dutt: The king, Dhritarashtra, learning that those heroes (the Pandavas) had arrived, sent out the Kurus to receive them.

BORI CE: 01-199-013

विकर्णं च महेष्वासं चित्रसेनं च भारत
द्रोणं च परमेष्वासं गौतमं कृपमेव च

MN DUTT: 01-207-009

विकर्णं च महेष्वासं चित्रसेनं च भारत
द्रोणं च परमेष्वासं गौतमं कृपमेव च

M. N. Dutt: O descendant of Bharata, Vikarna, the great bowmen Chitrasena, the foremost of bowmen Drona and the son of Gautama Kripa (went out to receive them).

BORI CE: 01-199-014

तैस्ते परिवृता वीराः शोभमाना महारथाः
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा

BORI CE: 01-199-015

कौतूहलेन नगरं दीर्यमाणमिवाभवत्
यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः

BORI CE: 01-199-016

तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः
उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः

MN DUTT: 01-207-010

तैस्ते परिवृता वीराः शोभमाना महाबलाः
नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा
कौतूहलेन नगरं दीप्यमानमिवाभवत्
तत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः
तत उच्चावचा वाचः पौरैः प्रियचिकीर्षुभिः
उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः

M. N. Dutt: Surrounded by those (illustrious men), those mighty heroes (the Pandavas), their splendour (many times) increased, slowly entered the city of Hastinapur. The city became radiant with the curious sight-seers of the city. Those foremost of men, the dispelled of grief and sorrow. The Pandavas, dear to the hearts of the people, heard as they proceeded, various exclamations which the citizens, ever desirous of obeying the wishes of those princes, loudly uttered.

BORI CE: 01-199-017

अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित्
यो नः स्वानिव दायादान्धर्मेण परिरक्षति

MN DUTT: 01-207-011

अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित्
यो नः स्वानिव दायादान् धर्मेण परिरक्षति

M. N. Dutt: They exclaimed, “Here return that best of men (Yudhishthira), learned in the precepts of virtue. He always protects us as if we are his nearest relatives.

BORI CE: 01-199-018

अद्य पाण्डुर्महाराजो वनादिव वनप्रियः
आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः

MN DUTT: 01-207-012

अद्य पाण्डुर्महाराजो वनादिव जनप्रियः
आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः

M. N. Dutt: It seems as if the great king Pandu, ever beloved of his subjects, returns to-day from the forest to do what is agreeable to us.

BORI CE: 01-199-019

किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम्
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः

MN DUTT: 01-207-013

किं नु नाद्य कृतं तात सर्वेषां नः परं प्रियम्
यन्नः कुन्तीसुता वीरा नगरं पुनरागताः

M. N. Dutt: What good is not done to us today when the heroic sons of Kunti returns to our city?

BORI CE: 01-199-020

यदि दत्तं यदि हुतं विद्यते यदि नस्तपः
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्

BORI CE: 01-199-021

ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्

MN DUTT: 01-207-014

यदि दत्तं यदि हुतं विद्यते यदि नस्तपः
तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्
ततस्ते धृतराष्र्ण्य भीष्मस्य च महात्मनः
अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्

M. N. Dutt: If we have ever given away in charity, if we have ever poured libations of ghee on the (sacrificial) fire, if we have any ascetic merit, let the Pandavas live in our city for one hundred years." They (the Pandavas) worshipped the feet of Dhritarashtra, as also those of Bhishma and also the feet of every body else that deserved the honour.

BORI CE: 01-199-022

कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते
समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात्

MN DUTT: 01-207-015

कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण च
न्यविशन्ताथ वेश्मानि धृतराष्ट्रस्य शासनात्

M. N. Dutt: They inquired after the welfare of all the citizens. They then entered the palace assigned to them at the command of Dhritarashtra.

BORI CE: 01-199-023

विश्रान्तास्ते महात्मानः कंचित्कालं महाबलाः
आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च

MN DUTT: 01-207-016

विश्रान्तास्ते महात्मान: कंचित् कालं महाबलाः
आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च

M. N. Dutt: When those illustrious and greatly strong heroes had taken rest for some time, they were summoned by the king Dhritarashtra and the son of Shantanu (Bhishma.)

BORI CE: 01-199-024

धृतराष्ट्र उवाच
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम
पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश

MN DUTT: 01-207-017

धृतराष्ट्र उवाच भ्रातृभिः सह कौन्तेय निबोध गदतो मम
पुनर्वो विग्रहो मा भूत् खाण्डवप्रस्थमाविश

M. N. Dutt: Dhritarashtra said: O sun of Kunti, (Yudhishthira), listen with your brothers to what I say. Go to Khandavaprastha, so that no difference may arise again.

BORI CE: 01-199-025

न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम्
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा
अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविश

MN DUTT: 01-207-018

न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम्
संरक्ष्यमाणान् पार्थेन त्रिदशानिव वज्रिणा
अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश

M. N. Dutt: If you live there, none will be able to injure you. Taking half of the kingdom, live at Khandavaprastha protected by Partha (Arjuna), as the celestials are by the wielder of the thunder (Indra).

BORI CE: 01-199-026

वैशंपायन उवाच
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च
प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः
अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविशन्

MN DUTT: 01-207-019

वैशम्पायन उवाच प्रतिगृह्य तु तद् वाक्यं नृपं सर्वे प्रणम्य च
प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः
अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन्
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः
मण्डयां चक्रिरे तद् वै परं स्वर्गवदच्युताः

M. N. Dutt: Vaishampayana said : Agreeing to what the king said, those best of men worshipped the kings and started for that fearful forest. Receiving half of the kingdom, the Pandavas entered the Khandavaprastha, Krishna being at the head of the procession. Thereafter, the infallible Pandavas accompanied by Krishna, and by going to that place made it as glorious as heaven.

BORI CE: 01-199-027

ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः
मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 01-199-028

ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः
नगरं मापयामासुर्द्वैपायनपुरोगमाः

MN DUTT: 01-207-020

ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः
नगरं मापयामासुद्वैपायनपुरोगमाः

M. N. Dutt: Those great car-warriors, selecting with the assistance of Dvaipayana a sacred and auspicious place, performed the propitiatory ceremonies and measured out a piece of land to found a city.

BORI CE: 01-199-029

सागरप्रतिरूपाभिः परिखाभिरलंकृतम्
प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता

BORI CE: 01-199-030

पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा

MN DUTT: 01-207-021

सागरप्रतिरूपाभिः परिखाभिरलंकृतम्
प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता
पाण्डुराभ्रप्रकाशेन हिमरश्मिनिभेन च
शुशुभे तत् पुरश्रेष्ठं नागैर्भोगवती यथा

M. N. Dutt: It was surrounded by a most as wide as the sea and by wall rising high up to the sky. It was as white as the white clouds or the rays of the moon. Those foremost of cities looked resplendent like the city of Bhogavati of the Nagas.

BORI CE: 01-199-031

द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः

BORI CE: 01-199-032

विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः
शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम्

BORI CE: 01-199-033

तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम्
आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम्

BORI CE: 01-199-034

सुविभक्तमहारथ्यं देवताबाधवर्जितम्
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः

BORI CE: 01-199-035

तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत
मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम्

BORI CE: 01-199-036

तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम्
शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम्

BORI CE: 01-199-037

तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा

BORI CE: 01-199-038

वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः
सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा

BORI CE: 01-199-039

उद्यानानि च रम्याणि नगरस्य समन्ततः
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा

BORI CE: 01-199-040

पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा
शालतालकदम्बैश्च बकुलैश्च सकेतकैः

BORI CE: 01-199-041

मनोहरैः पुष्पितैश्च फलभारावनामितैः
प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः

BORI CE: 01-199-042

जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः
करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः

BORI CE: 01-199-043

नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम्
मत्तबर्हिणसंघुष्टं कोकिलैश्च सदामदैः

BORI CE: 01-199-044

गृहैरादर्शविमलैर्विविधैश्च लतागृहैः
मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा

BORI CE: 01-199-045

सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः

BORI CE: 01-199-046

रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः
तडागानि च रम्याणि बृहन्ति च महान्ति च

MN DUTT: 01-207-022

द्विपक्षगरुडप्रख्यारैः सौधैश्च शोभितम्
गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः
विविधैरपि निर्विः शस्त्रोपेतैः सुसंवृतैः
शक्तिभिश्चावृतं तद्धि द्विजिलैरिव पन्नगैः
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम्
तीक्ष्णारूशशतघ्नीभिर्यन्त्रजालैश्च शोभितम्

MN DUTT: 01-207-023

आयसैश्च महाचक्रैः शुशुभे तत् पुरोत्तमम्
सुविभक्तमहारथ्यं देवतावाधवर्जितम्
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः
तत् त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत

MN DUTT: 01-207-024

मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम्
तत्र रम्ये शिवे देशे कौरव्यस्य निवेशनम्

MN DUTT: 01-207-025

शुशुभे धनसम्पूर्ण धनाध्यक्षक्षयोपमम्
तत्रागच्छन् द्विजा राजन् सर्ववेदविदां वराः
निवासं रोचयन्ति स्म सर्वभाषाविस्तथा
वणिजश्चाययुस्तत्र नानादिग्भ्यो धनार्थिनः

MN DUTT: 01-207-026

सर्वशिल्पविदस्तत्र वासायाभ्यागमंस्तदा
उद्यानानि च रम्याणि नगरस्य समन्ततः
आप्रैराम्रातकैनीपैरशोकैश्चम्पकैस्तथा
पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा
शालतालतमालैश्च बकुलैश्च सकेतकैः
मनोहरैः सुपुष्पैश्च फलभारावनामितैः

MN DUTT: 01-207-027

प्राचीनामलकैलॊधेरकोलैश्च सुपुष्पितैः
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः
करवीरैः पारिजातैरन्यैश्च विविधैर्दुमैः
नित्यपुष्पफलोपेते नाद्विजगणायुतैः

MN DUTT: 01-207-028

मत्तवहिणसंघुष्टकोकिलैश्च सदामदैः
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः
मनोहरैचित्रगृहैस्तथाजगतिपर्वतैः
वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः
हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः
तडागानि च रम्याणि बृहन्ति सुबहूनि च

M. N. Dutt: It was adorned with mansions having windows like the out-stretched wings of Garuda. It was protected with gates looking like the clouds and they were as high as the Mandara mountain; the weapons of the enemy could not make any impression on them. They were almost covered with darts and other missiles like the double tongued snakes. The turrets were filled with armed men and the walls were lined with warriors. It was wellstocked with various weapons of attack; there were thousands of sharp hooks and Shataghanis (a sort of weapon) and numerous other machines; there were also many iron wheels planted on them. With these were adorned that best of cities. The streets were all wide and excellently laid out. Adorned with innumerable white mansions, the city looked like Amaravati (the celestials city); it looked like a mass clouds charged with lightings. It came to be called Indraprastha. In a delightful and auspicious place stood the palace of those descendants of Kuru (the Pandavas). It was full of every kind of wealth like the palace of the celestials) treasurer (Kubera) himself. O king, there came with the desire of living (in that city) numerous Brahmanas learned in all the Vedas and conversant with every language. There came also from every direction numerous merchants with the desire of earning wealth. There also came with the desire of living (in that city) numerous men well-skilled in all arts. Around the city were laid out many charming gardens with Amras, Amratakas, Kadambas, Ashokas, Champakas, Punnagas, Nagas, Lakuchas, Panasas, Salas, Talas, Tamalas, Bakulas and Ketakas. They were all beautiful and blossoming; they bent down with the weight of their fruits. The Amlokas, Lodhras, blossoming Ankolas, Jambus, Patalas, Kubjakas, Atimuktakas, Karaviras, Parijatas and various other tress were there. All adorned with flowers and fruits and thronged with birds of various kinds. These verdant groves were resounded with the notes of the maddened peacocks and Kokilas. There were various pleasure houses bright as mirrors and innumerable bowers of creepers, charming artificial hillocks, many lakes full to the brim with crystal water and delightful tanks fragrant with lotuses and lilies and adorned with swans, ducks and Chakravakas. There many tanks overgrown with fine aquatic plants and various large and beautiful pounds. were

BORI CE: 01-199-047

तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत्
पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत

MN DUTT: 01-207-029

तेषां पुण्यजनोपेतं राष्ट्रमाविशतां महत्
पाण्डवानां महाराज शश्वत् प्रीतिरवर्धत्

M. N. Dutt: O great king, the joy of the Pandavas increased from day to day in consequence of their residence in that large kingdom which was inhabited by pious men.

BORI CE: 01-199-048

तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः

MN DUTT: 01-207-030

तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः

M. N. Dutt: Thus inconsequence of the virtuous conduct of Bhishma and the king (Dhritarashtra) the Pandavas became the dwellers of Khandavaprastha.

BORI CE: 01-199-049

पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम्
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा

MN DUTT: 01-207-031

पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम्
शुशुभे तत् पुरश्रेष्ठं नागैर्भोगवती यथा

M. N. Dutt: Adorned with those excellent and great bow-men, each like an Indra himself, that best of cities looked like Bhogavati with the Nagas.

BORI CE: 01-199-050

तान्निवेश्य ततो वीरो रामेण सह केशवः
ययौ द्वारवतीं राजन्पाण्डवानुमते तदा

MN DUTT: 01-207-032

तां निवेश्य ततो वीरो रामेण सह केशवः
ययौ द्वारवती राजन् पाण्डवानुमते तदा

M. N. Dutt: O king, having settled the Pandavas there, the heroic Krishna, on obtaining their leave, came back with Rama to Dvaravati.

Home | About | Back to Book 01 Contents | ← Chapter 198 | Chapter 200 →