Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 210

BORI CE: 03-210-001

मार्कण्डेय उवाच
काश्यपो ह्यथ वासिष्ठः प्राणश्च प्राणपुत्रकः
अग्निराङ्गिरसश्चैव च्यवनस्त्रिषुवर्चकः

BORI CE: 03-210-002

अचरन्त तपस्तीव्रं पुत्रार्थे बहुवार्षिकम्
पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम्

BORI CE: 03-210-003

महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ
जज्ञे तेजोमयोऽर्चिष्मान्पञ्चवर्णः प्रभावनः

MN DUTT: 02-220-001

मार्कण्डेय उवाच काश्यपो ाथ वासिष्ठः प्राणश्च प्राणपुत्रकः
अग्निराङ्गिरसश्चैव च्यवनस्त्रिषु वर्चकः
अचरन्त तपस्तीव्र पुत्रार्थे बहुवार्षिकम्
पुत्रं लभेम धर्मिष्ठं यशसा ब्रह्मणा समम्
महाव्यातिभिातः पञ्चभिस्तैस्तदा त्वथ
जज्ञे तेजो महार्चिष्मान् पञ्चवर्णः प्रभावनः

M. N. Dutt: Markandeya said : He performed severe asceticism lasting for many hundred years with the desire of getting a virtuous son equal to a Brahmana, in reputation when invocation was made with Vyahriti hymns and with the aid of the five sacred fires, namely Kashyapa, Vasishtha, Pranaka, the son of Prana, the son of Angira, Chyavana and Trivarcha, there was a bright fire full of the animating principle and of five different colours.

BORI CE: 03-210-004

समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत

MN DUTT: 02-220-002

समिद्धोऽग्निः शिरस्तस्य बाहू सूर्यनिभौ तथा
त्वड्नेत्रे च सुवर्णाभे कृष्णे जङ्ग्रे च भारत

M. N. Dutt: Its head was brilliant as the flaming fire, its arms were as bright as the sun; its skin and eyes were gold coloured and its feet, O descendant of Bharata, were black.

BORI CE: 03-210-005

पञ्चवर्णः स तपसा कृतस्तैः पञ्चभिर्जनैः
पाञ्चजन्यः श्रुतो वेदे पञ्चवंशकरस्तु सः

MN DUTT: 02-220-003

पञ्चवर्णः स तपसा कृतस्तै पञ्चभिर्जनैः
पाञ्चजन्यः श्रुतो देवः पञ्चवंशकरस्तु सः

M. N. Dutt: Its five colours were given to it by these five men, by reason of their great penance. This celestials being is therefore described as appertaining to five men and he is the progenitor of the five tribes.

BORI CE: 03-210-006

दश वर्षसहस्राणि तपस्तप्त्वा महातपाः
जनयत्पावकं घोरं पितॄणां स प्रजाः सृजन्

MN DUTT: 02-220-004

दशवर्षसहस्राणि तपस्तप्त्वा महातपाः
जनयत् पावकं घोरं पितॄणां स प्रजाः सृजन्

M. N. Dutt: Having performed asceticism for ten thousand years, that being of great merit, produced the terrible fire appertaining to the Pitris in order to begin the work of creation and from his head and mouth respectively. was son

BORI CE: 03-210-007

बृहद्रथंतरं मूर्ध्नो वक्त्राच्च तरसाहरौ
शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत्

MN DUTT: 02-220-005

बृहद् स्थन्तरं मूों वक्त्राद् वा तरसाहरौ
शिवं नाभ्यां बलादिन्द्रं वाय्वग्नी प्राणतोऽसृजत्

M. N. Dutt: He created Brihat and Rathantara, who quickly steal life away. He created Shiva from his naval, Indra from his prowess and wind and fire from his soul.

BORI CE: 03-210-008

बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह
एतान्सृष्ट्वा ततः पञ्च पितॄणामसृजत्सुतान्

MN DUTT: 02-220-006

बाहुभ्यामनुदात्तौ च विश्वे भूतानि चैव ह
एतान् सष्ट्वा ततः पञ्च पितृणामसृजत् सुतान्

M. N. Dutt: And from his two arms and hymns Udatta and Anudatta. He also created the mind and the five senses and other creatures. Having created these he produced the five sons of the Pitris,

BORI CE: 03-210-009

बृहदूर्जस्य प्रणिधिः काश्यपस्य बृहत्तरः
भानुरङ्गिरसो वीरः पुत्रो वर्चस्य सौभरः

MN DUTT: 02-220-007

बृहद्रथस्य प्रणिधिः काश्यपस्य महत्तरः
भानुरङ्गिरसो धीरः पुत्रो वर्चस्य सौभरः

M. N. Dutt: Of these Pranidhi was the son of Brihadratha, Mahattara the son of Kashyapa, Bhanu was the grand son of Chyavana and Saubhara, the son of Varcha.

BORI CE: 03-210-010

प्राणस्य चानुदात्तश्च व्याख्याताः पञ्च वंशजाः
देवान्यज्ञमुषश्चान्यान्सृजन्पञ्चदशोत्तरान्

BORI CE: 03-210-011

अभीममतिभीमं च भीमं भीमबलाबलम्
एतान्यज्ञमुषः पञ्च देवानभ्यसृजत्तपः

BORI CE: 03-210-012

सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम्
मित्रधर्माणमित्येतान्देवानभ्यसृजत्तपः

BORI CE: 03-210-013

सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम्
सुराणामपि हन्तारं पञ्चैतानसृजत्तपः

MN DUTT: 02-220-008

प्राणस्य चानुदात्तस्तु व्याख्याताः पञ्चविंशतिः
देवान् यज्ञमुषश्चान्यान् सृजत् पञ्चदशोत्तरान्
सुभीममतिभीमं च भीमं भीमबलाबलम्
एतान् यज्ञमुषः पञ्च देवानां ह्यसृजत् तपः
सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम्
मित्रधर्माणमित्येतान् देवानभ्यसृजत् तपः
सुरप्रवीरं वीरं च सुरेशं च सुवर्चसम्
सुराणामपि हन्तारं पञ्चैतानसृजत् तपः

M. N. Dutt: Anudatta the son of Prana. These twenty five beings were created by him. Tapa also created fifteen other gods who obstruct sacrifices. (They are) Subhima, Bhima, Atibhima, Bhimabala and Abala, Sumitra, Mitravan, Mitrajna, Mitravardhana, Mitradharman, Surapravira Vira, Suresha, Suvarchas and Surahanta.

BORI CE: 03-210-014

त्रिविधं संस्थिता ह्येते पञ्च पञ्च पृथक्पृथक्
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः

MN DUTT: 02-220-009

त्रिविधं संस्थिता होते पञ्च पञ्च पृथक् पृथक्
मुष्णन्त्यत्र स्थिता ह्येते स्वर्गतो यज्ञयाजिनः

M. N. Dutt: These deities were divided into three classes of five each. Placed here in this world, they destroy the sacrifices in heaven.

BORI CE: 03-210-015

तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्भुवि
स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च

MN DUTT: 02-220-010

तेषामिष्टं हरन्त्येते निघ्नन्ति च महद्धविः
स्पर्धया हव्यवाहानां निघ्नन्त्येते हरन्ति च

M. N. Dutt: They frustrate their objects and spoil their oblations of Ghee; they do this only to spite the sacred fires carrying oblations to the celestials.

BORI CE: 03-210-016

हविर्वेद्यां तदादानं कुशलैः संप्रवर्तितम्
तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत्

MN DUTT: 02-220-011

बहिर्वेद्यां तदादानं कुशलैः सम्प्रवर्तितम्
तदेते नोपसर्पन्ति यत्र चाग्निः स्थितो भवेत्

M. N. Dutt: If the priests are careful, they place the oblation in their honour outside the sacrificial altar; to that particular place where the sacred fire may be placed, they cannot go.

BORI CE: 03-210-017

चितोऽग्निरुद्वहन्यज्ञं पक्षाभ्यां तान्प्रबाधते
मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम्

MN DUTT: 02-220-012

चितोऽग्निरुद्वहन् यज्ञं पक्षाभ्यां तान् प्रबाधते
मन्त्रैः प्रशमिता ह्येते नेष्टं मुष्णन्ति यज्ञियम्

M. N. Dutt: They carry the oblations offered by the votaries by means of wings. When appeased by hymns they do not frustrate the sacrificial rites.

BORI CE: 03-210-018

बृहदुक्थतपस्यैव पुत्रो भूमिमुपाश्रितः
अग्निहोत्रे हूयमाने पृथिव्यां सद्भिरिज्यते

MN DUTT: 02-220-013

बृहदुक्थस्तपस्यैव पुत्रो भूमिमुपाश्रितः
अग्निहोत्रे हूयमाने पृथिव्यां सद्रिरिज्यते

M. N. Dutt: Brihaduktha, another son of Tapa belongs to the earth. He is worshipped in the world by virtuous who perform Agnihotra sacrifices.

BORI CE: 03-210-019

रथंतरश्च तपसः पुत्रोऽग्निः परिपठ्यते
मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः
मुमुदे परमप्रीतः सह पुत्रैर्महायशाः

MN DUTT: 02-220-014

रथन्तरश्च तपसः पुत्रोऽग्निः परिपठ्यते
मित्रविन्दाय वै तस्य हविरध्वर्यवो विदुः
मुमुदे परमप्रीत: सह पुत्रैर्महायशाः

M. N. Dutt: Of the son of Tapa, who is known as Rathantara, it is said by the priests that oblation offered in his honour is offered to Mitravinda. The celebrated Tapa was thus very happy with his sons. men J

Home | About | Back to Book 03 Contents | ← Chapter 209 | Chapter 211 →