Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 051

BORI CE: 04-051-001

वैशंपायन उवाच
तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम्
संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः

MN DUTT: 03-056-001

वैशम्पायन उवाच तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम्
संसर्पन्ते यथा मेघा धर्मान्ते मन्दमारुताः

M. N. Dutt: Vaishampayana said The infantry of those dreadful Kuru bowmen looked like the clouds in the rains moving about before the gentle wind.

BORI CE: 04-051-002

अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः
भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः

BORI CE: 04-051-003

ततः शक्रः सुरगणैः समारुह्य सुदर्शनम्
सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः

BORI CE: 04-051-004

तद्देवयक्षगन्धर्वमहोरगसमाकुलम्
शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम्

BORI CE: 04-051-005

अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम्
तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे

MN DUTT: 03-056-002

अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिणः
भीमरूपाश्च मातङ्गास्तोमराङ्कुशनोदिताः
महामात्रैः समारूढा विचित्रकवचोज्ज्वलाः
ततः शक्रः सुरगणैः समारुह्य सुदर्शनम्
सहोपायात् तदा राजन् विश्वाश्चिमरुतां गणैः
तद् देवयक्षगन्धर्वमहोरगसमाकुलम्
शुशुभेऽभ्रविनिर्मुक्तं ग्रहाणामिव मण्डलम्
अस्त्राणां च बलं तेषां मानुषेषु प्रयुञ्जताम्
तच्च भीमं महद् युद्धं कृपार्जुनसमागमे
द्रष्टुमभ्यागता देवाः स्वविमानैः पृथक् पृथक्

M. N. Dutt: And near them stood the enemy's cavalry managed by warriors. There were also terrible looking elephants bedecked with beautiful armours governed by clever heroes and urged by Tomaras and gaudas. There came on a beautiful car Shakra accompanied by the celestials, Vishvas and Maruts, O king. Filled with the celestials, Yakshas, Gandharvas, and Nagas the sky looked resplendent as it does when freed from cloud sand crested with stars. The celestials came there in their respective cars to witness the efficacy of their weapons in a human battle as well as the dreadful and great fight between Kripa and Arjuna.

BORI CE: 04-051-006

शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः
मणिरत्नमयाश्चान्याः प्रासादमुपधारयन्

BORI CE: 04-051-007

तत्र कामगमं दिव्यं सर्वरत्नविभूषितम्
विमानं देवराजस्य शुशुभे खेचरं तदा

MN DUTT: 03-056-003

शतं शतसहस्राणां यत्र स्थूणा हिरण्मयी
मणिरत्नमयी चान्या प्रासादं तदधारयत्
ततः कामगमं दिव्यं सर्वरलविभूषितम्
विमानं देवराजस्य शुशुभे खेचरं तदा

M. N. Dutt: The celestial car of the king of the celestials coursing at will, crested with pearls and jewels and the roof of which was upheld by hundreds and thousands of golden pillars and the one which was made of pearls and jewels, shone in the clear sky.

BORI CE: 04-051-008

तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः
गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः

MN DUTT: 03-056-004

तत्र देवास्त्रयस्त्रिंशत् तिष्ठन्ति सहवासवाः
गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः

M. N. Dutt: There were the thirty three deities headed by Vasava and with Gandharvas, Rakshasas, Nagas, Pitris and the great Rishis.

BORI CE: 04-051-009

तथा राजा वसुमना बलाक्षः सुप्रतर्दनः
अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः

BORI CE: 04-051-010

मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः
विमाने देवराजस्य समदृश्यन्त सुप्रभाः

MN DUTT: 03-056-005

तथा राजा वसुमना बलाक्षः सुप्रतर्दनः
अष्टकश्च शिविश्चैव ययातिर्नहुषो गयः
मनुः पूरू रघुर्भानुः कृशाश्वः सगरो नलः
विमाने देवराजस्य समदृश्यन्त सुप्रभाः

M. N. Dutt: There shone on the car of the king of the celestials the king Vasumanas, Balakshas, Supratardana, Ashtaka, Shibi, Yayati, Nahusha, Gaya, Manu, Puru, Raghu, Bhanu, Krishashva, Sagara and Nala.

BORI CE: 04-051-011

अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः
तथा धातुर्विधातुश्च कुबेरस्य यमस्य च

BORI CE: 04-051-012

अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः
यथाभागं यथोद्देशं विमानानि चकाशिरे

MN DUTT: 03-056-006

अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः
तथा धातुर्विधातुश्च कुबेरस्य यमस्य च
अलम्बुषोग्रसेनानां गन्धर्वस्य च तुम्बुरोः
यथामानं यथोद्देशं विमानानि चकाशिरे

M. N. Dutt: There appeared also in a beautiful array the chariots of Agni, Isha, Soma, Varuna, Prajapati, Dhatri, Vidhatri, Kubera, Yama, Alambusha, Ugrasena and others and of the Gandharva Tumvuru.

BORI CE: 04-051-013

सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः
अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः

MN DUTT: 03-056-007

सर्वदेवनिकायाच सिद्धाश्च परमर्षयः
अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः

M. N. Dutt: All the deities, the Siddhas and the great Rishis came there to witness the fight between Arjuna and the Kurus.

BORI CE: 04-051-014

दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः
प्रससार वसन्ताग्रे वनानामिव पुष्पताम्

MN DUTT: 03-056-008

दिव्यानां सर्वमाल्यानां गन्धः पुण्योऽथ सर्वशः
प्रससार वसन्ताग्रे वनानामिव भारत

M. N. Dutt: The holy fragrance of the celestial garlands spread all over like the odour of the blossoming trees in the beginning of the spring.

BORI CE: 04-051-015

रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम्
आतपत्राणि वासांसि स्रजश्च व्यजनानि च

MN DUTT: 03-056-009

तत्र रत्नानि देवानां समदृश्यन्त तिष्ठताम्
आतपत्राणि वासांसि सजश्च व्यजनानि च

M. N. Dutt: The umbrellas, clothes, flags, fans, and the jewels of the deities shone there when they came.

BORI CE: 04-051-016

उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः
दिव्यान्गन्धानुपादाय वायुर्योधानसेवत

MN DUTT: 03-056-010

उपाशाम्यद् रजो भौमं सर्वं व्याप्तं मरीचिभिः
दिव्यगन्धानुपादाय वायुर्योधानसेवत

M. N. Dutt: The dust of the earth was removed and every where was permeated by the lustre. And carrying the divine odour the wind gratified the warriors.

BORI CE: 04-051-017

प्रभासितमिवाकाशं चित्ररूपमलंकृतम्
संपतद्भिः स्थितैश्चैव नानारत्नावभासितैः
विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः

MN DUTT: 03-056-011

प्रभासितमिवाकाशं चित्ररूपमलंकृतम्
सम्पतद्धिः स्थितैश्चापि नानारत्नविभासितैः
विमानैर्विविधैश्चित्ररुपानीतैः सुरोत्तमैः
वज्रभृच्छुशुभे तत्र विमानस्थैः सुरैर्वृतः
बिभ्रन्मालां महातेजाः पद्मोत्पलसमायुताम्
विप्रेक्ष्यमाणो बहुभिर्नातृप्यत् सुमहाहवम्

M. N. Dutt: The sky appeared as if ablaze and beautiful, being decked with already arrived and coming cars lighted with various gems and of diverse make, led by the leading celestials. Encircled by the deities, and wearing garland of lotuses and lillies, the mighty holder of thunder appeared exceedingly beautiful on his car. And although he looked continually at his son he was not satiated therewith.

Home | About | Back to Book 04 Contents | ← Chapter 50 | Chapter 52 →