Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 047

BORI CE: 06-047-001

संजय उवाच
क्रौञ्चं ततो महाव्यूहमभेद्यं तनयस्तव
व्यूढं दृष्ट्वा महाघोरं पार्थेनामिततेजसा

BORI CE: 06-047-002

आचार्यमुपसंगम्य कृपं शल्यं च मारिष
सौमदत्तिं विकर्णं च अश्वत्थामानमेव च

BORI CE: 06-047-003

दुःशासनादीन्भ्रातॄंश्च स सर्वानेव भारत
अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान्

BORI CE: 06-047-004

प्राहेदं वचनं काले हर्षयंस्तनयस्तव
नानाशस्त्रप्रहरणाः सर्वे शस्त्रास्त्रवेदिनः

BORI CE: 06-047-005

एकैकशः समर्था हि यूयं सर्वे महारथाः
पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः

BORI CE: 06-047-006

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः

MN DUTT: 04-052-001

संजय उवाच क्रौञ्चं दृष्ट्वा ततो व्यूहमभेद्यं तनयस्तव
रक्ष्यमाणं महाघोरं पार्थेनामिततेजसा
शा आचार्यमुपसंगम्य कृपं शल्यं च पार्थिव
सौमदत्तिं विकर्णं च सोऽश्वत्थामानमेव च
दुःशासनादीन् भ्रातृ॑श्च सर्वानेव च भारत
अन्यांश्च सुबहूशूरान् युद्धाय समुपागतान्
प्राहेदं वचनं काले हर्षयंस्तनयस्तव
नानाशस्त्रप्रहरणाः सर्वै युद्धविशारदाः
एकैकशः समर्था हि यूयं सर्वे महारथाः

MN DUTT: 04-052-002

पाण्डुपुत्रान् रणे हन्तुं ससैन्यान् किमु संहताः
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तमिदमेतेषां बलं भीमाभिरक्षितम्

M. N. Dutt: Sanjaya said O Sire, O descendant of Bharata, seeing that great and fearful Vyuha, formed by the immeasurably powerful Pandava, your son (Duryodhana) came to the preceptor, Kripa, Shalya, Somadatta's son, Vikarna, Ashvathama and all his brothers headed by Dushasana, and also all other mighty heroes, assembled there for battle, spoke these words giving great pleasures to all, “You are armed with various kinds of weapons, you are learned in the Shastras. O great car-warriors, each of you singly is capable of destroying the Pandavas with all their troops. How easy it is for you then (to destroy them) when you are united. Our army protected by Bhishma is unlimited and their army protected by Bhima is limited.

BORI CE: 06-047-007

संस्थानाः शूरसेनाश्च वेणिकाः कुकुरास्तथा
आरेवकास्त्रिगर्ताश्च मद्रका यवनास्तथा

BORI CE: 06-047-008

शत्रुंजयेन सहितास्तथा दुःशासनेन च
विकर्णेन च वीरेण तथा नन्दोपनन्दकैः

BORI CE: 06-047-009

चित्रसेनेन सहिताः सहिताः पाणिभद्रकैः
भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः

MN DUTT: 04-052-003

संस्थानाः शूरसेनाश्च वेत्रिकाः कुकुरास्तथा
आरोचकास्त्रिगर्ताश्च मद्रका यवनास्तथा
शत्रुजयेन सहितास्तथा दुःशासनेन च
विकर्णेन च वीरेण तथा नन्दोपनन्दकैः
चित्रसेनेन सहिताः सहिताः पारिभद्रकैः
भीष्ममेवाभिरक्षन्तु सहसैन्यपुरस्कृताः

M. N. Dutt: Let the Samsthanas, the Shurasenas, the Vetarikas, the Kukuras, the Rechakas, the Trigartas, the Madrakas, the Yavanas, with Shatrunjaya and Dushasana, and with also that great hero Vikarna, Nanda, Upananda, and Chitrasena, with the Paribhadrakas protect Bhishma with their respective troops”.

BORI CE: 06-047-010

ततो द्रोणश्च भीष्मश्च तव पुत्रश्च मारिष
अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधने

MN DUTT: 04-052-004

ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधकम्

M. N. Dutt: O Sire, then Bhishma, Drona and your sons formed a great Vyuha to resist that of the sons of Pritha.

BORI CE: 06-047-011

भीष्मः सैन्येन महता समन्तात्परिवारितः
ययौ प्रकर्षन्महतीं वाहिनीं सुरराडिव

MN DUTT: 04-052-005

भीष्मः सैन्येन महता समन्तात् परिवारितः
ययौ प्रकर्षन् महतीं वाहिनीं सुरराडिव

M. N. Dutt: Then, like the lord of the celestial (Indra), Bhishma surrounded by innumerable troops, advanced at the head of a mighty army,

BORI CE: 06-047-012

तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान्
कुन्तलैश्च दशार्णैश्च मागधैश्च विशां पते

BORI CE: 06-047-013

विदर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि
सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम्

BORI CE: 06-047-014

गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः
शकुनिश्च स्वसैन्येन भारद्वाजमपालयत्

MN DUTT: 04-052-006

तमन्वयान्महेष्वासो भारद्वाजः प्रतापवान्
कुन्तलैश्च दशार्ङ्गश्च मागधैश्च विशाम्पते
विदर्भमैकलैश्चैव कर्णप्रावरणैरपि
सहिताः सर्वसैन्येन भीष्ममाहवशोभिनम्
गान्धाराः सिन्धुसौवीराः शिवयोऽथवसातयः
शकुनिश्च स्वसैन्येन भारद्वाजमपालयत्

M. N. Dutt: O king, that great bowman, that greatly powerful son of Bharadvaja (Drona) followed him with the Kuntalas, the Dasharnas, the Magadhas, the Vidarbhas, the Mekalas, the Karnas, and the Paravarnas, the Gandharvas, the Sindhusauviras, the Shibis, and the Vasati with their all combatants, Shakuni with all his troops protected the son of Bharadvaja.

BORI CE: 06-047-015

ततो दुर्योधनो राजा सहितः सर्वसोदरैः
अश्वातकैर्विकर्णैश्च तथा शर्मिलकोसलैः

BORI CE: 06-047-016

दरदैश्चूचुपैश्चैव तथा क्षुद्रकमालवैः
अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम्

MN DUTT: 04-052-007

ततो दुर्योधनो राजा सहितः सर्वसोदरैः
अश्वातकैविकर्णैश्च तथा चाम्बष्ठकोसलैः
दरदैश्च शकैश्चैव तथा क्षुद्रकमालवैः
अभ्यरक्षत संहष्टः सौबलेयस्य वाहिनीम्

M. N. Dutt: Then king Duryodhana with all his brothers accompanied by the Ashvatakas, the Vikarnas, the Ambashta, the Kosalas, the Daradas, the Shaka, the Kshudrakas and the Malavas, Cheerfully advanced against the Pandava army.

BORI CE: 06-047-017

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष
विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन्

MN DUTT: 04-052-008

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिषः
विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन्

M. N. Dutt: O sire, Bhurishrava, Shala and Shalya, Bhagadatta, Vinda and Anuvinda of Avanti protected the left wing.

BORI CE: 06-047-018

सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः
शतायुश्च श्रुतायुश्च दक्षिणं पार्श्वमास्थिताः

MN DUTT: 04-052-009

सौमदत्तिः सुशर्मा च काम्बोजश्च सुदक्षिणः
श्रुतायुश्चाच्युतायुश्च दक्षिणं पक्षमास्थिताः

M. N. Dutt: Somadatta, Susharma, the ruler of Kambojas, Sudakshina, Shrutayus and Achyutayu protected the right wing.

BORI CE: 06-047-019

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
महत्या सेनया सार्धं सेनापृष्ठे व्यवस्थिताः

MN DUTT: 04-052-010

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
महत्या सेनया साधु सेनापृष्ठे व्यवस्थिताः

M. N. Dutt: Ashvathama, Kripa, the Satvata hero Kritvarma, with large number of troops protected the rear.

BORI CE: 06-047-020

पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः
केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः

MN DUTT: 04-052-011

पृष्ठगोपास्तु तस्यासन् नानादेश्या जनेश्वराः
केतुमान् वसुदानश्च पुत्रः काश्यस्य चाभिभूः

M. N. Dutt: Behind them stood many chiefs, Ketumata, Vasudana and the powerful prince of Kashi.

BORI CE: 06-047-021

ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत
दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांश्च नादयन्

MN DUTT: 04-052-012

ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत
दध्मुः शङ्खान् मुदा युक्ताः सिंहनादांस्तथोन्नदन्

M. N. Dutt: O descendant of Bharata, then all your troops, when they were cheerfully waiting for like roars.

BORI CE: 06-047-022

तेषां श्रुत्वा तु हृष्टानां कुरुवृद्धः पितामहः
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्

MN DUTT: 04-052-013

तेषां श्रुत्वा तु हृष्टानां वृद्धः कुरुपितामहः
सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान्

M. N. Dutt: Hearing these shouts, the greatly powerful and the venerable Kuru grandsire uttered a lion-like roar and then blew his conch in great delight.

BORI CE: 06-047-023

ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः
आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्

MN DUTT: 04-052-014

ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परे
आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्

M. N. Dutt: Their conchs, drums, Peshis and cymbals were sounded by all, which created a fearful din all over the field of battle.

BORI CE: 06-047-024

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ

MN DUTT: 04-052-015

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ

M. N. Dutt: Krishna and Arjuna riding on the same car yoked with (four) white horses, blew their excellent conchs adorned with gold and jewel.

BORI CE: 06-047-025

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः

MN DUTT: 04-052-016

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः
पौण्ड्रं दध्मौ महाशङ्ख भीमकर्मा वृकोदरः

M. N. Dutt: Hrishikesha (Krishna) blew the conch called Panchajanya and Dhananjaya Devadatta. That doer of fearful deeds, Vrikodara (Bhima) blew his huge conch, called Paundra.

BORI CE: 06-047-026

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ

MN DUTT: 04-052-017

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ

M. N. Dutt: The son of Kunti, Yudhishthira, blew the conch called Anantavijaya, Nakula and Sahadeva blew Sughosha and Manipushpaka.

BORI CE: 06-047-027

काशिराजश्च शैब्यश्च शिखण्डी च महारथः
धृष्टद्युम्नो विराटश्च सात्यकिश्च महायशाः

BORI CE: 06-047-028

पाञ्चाल्यश्च महेष्वासो द्रौपद्याः पञ्च चात्मजाः
सर्वे दध्मुर्महाशङ्खान्सिंहनादांश्च नेदिरे

MN DUTT: 04-052-018

काशिराजश्च शैब्यश्च शिखण्डी च महारथः
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः
पाञ्चाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः
सर्वे दध्मुर्महाशङ्खान् सिंहनादांश्च नेदिरे

M. N. Dutt: The king of Kashi, and Shaivya and Shikhandin, the great car-warrior Dhrishtadyumna and Virata and the great carwarrior Satyaki and the great bowman the Panchala king, and also the five sons of Draupadi, all blew their large conches and sent forth lion-like roars.

BORI CE: 06-047-029

स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत्

BORI CE: 06-047-030

एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः
पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम्

MN DUTT: 04-052-019

स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयत्
एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः
पुनयुद्धाय संजग्मुस्तापयानाः परस्परम्

M. N. Dutt: That great uproar, thus uttered by those heroes resounded through the sky. O great king, thus again the Kurus and the Pandavas advanced against each other with the intention of fighting a great battle. hinTrn-0

Home | About | Back to Book 06 Contents | ← Chapter 46 | Chapter 48 →