Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 092

BORI CE: 07-092-001

संजय उवाच
ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः
त्वरमाणा महाराज युयुधानमयोधयन्

MN DUTT: 05-116-001

संजय उवाच ते किरन्तः शरवातान् सर्वे यत्ताः प्रहारिणः
त्वरमाणा महाराज युयुधानमयोधयन्

M. N. Dutt: Sanjaya said Then, O mighty monarch, all those warriors accomplished in smiting down the foe and united together, began to fight with Yuyudhana quickly discharging numerous arrows.

BORI CE: 07-092-002

तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः

MN DUTT: 05-116-002

तं द्रोणः सप्त सप्तत्या जघान निशितैः शरैः
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः

M. N. Dutt: Then Drona pierced Satyaki with seven and seventy shafts of great sharpness; Durmursana pierced him with twelve and Dussaha with ten shafts.

BORI CE: 07-092-003

विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः
विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा

MN DUTT: 05-116-003

विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः
विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा

M. N. Dutt: Vikarna pierced Satyaki with thirty whetted shafts furnished with wings of Kanka feather, on his lift side and on the centre of his chest.

BORI CE: 07-092-004

दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष

MN DUTT: 05-116-004

दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः
चित्रसेनश्च शैनेय द्वाभ्यां विव्याध मारिष

M. N. Dutt: o sire, Durmukha then pierced Sini's grandson with ten shafts, Dushasana pierced him with eight and Chitrasena with a couple of arrows.

BORI CE: 07-092-005

दुर्योधनश्च महता शरवर्षेण माधवम्
अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः

MN DUTT: 05-116-005

दुर्योधनश्च महता शरवर्षेण माधवम्
अपीडयद्रणे राजशूराश्चान्ये महारथाः

M. N. Dutt: Then with a mighty shower of arrows Duryodhana, O king, afflicted that mighty carwarrior the descendant of Madhu's race. O king, other heroic warriors followed his example.

BORI CE: 07-092-006

सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः
तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः

MN DUTT: 05-116-006

सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः
तान् प्रत्यविध्यद्वाष्णैयः पृथक् पृथगजिह्मगैः

M. N. Dutt: Thus opposed on all sides by your sons, all mighty car-warriors, he of the Vrishni race began to pierce them all in return with distinct groups of straight-going shafts.

BORI CE: 07-092-007

भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः

MN DUTT: 05-116-007

भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिः शरैः
विकर्णे पञ्चविंशत्या चित्रसेनं च सप्तभिः

M. N. Dutt: Satyaki pierced the son of Bharadvaja with three arrows, Dussaha with nine, Vikarna with twenty-five, Chitrasena with seven.

BORI CE: 07-092-008

दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम्
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः

MN DUTT: 05-116-008

दुर्मर्षणं द्वादशभिरष्टाभिश्च विविंशातेम
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः

M. N. Dutt: Durmarsena with twelve, Vivinsati with eight, Satyavrata with nine and Vijaya with ten shafts.

BORI CE: 07-092-009

ततो रुक्माङ्गदं चापं विधुन्वानो महारथः
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम्

MN DUTT: 05-116-009

ततो रुक्मांगदं चारं विधुन्वानो महारथः
अभ्ययात् सात्यकिस्तूर्णं पुत्रं तव महारथम्

M. N. Dutt: Then that mighty car-warrior Satyaki, having pierced Rukmangada, stretching his bow quickly assailed your son Duryodhana who also was a mighty car-warrior.

BORI CE: 07-092-010

राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम्
शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः

MN DUTT: 05-116-010

राजानं सर्वलोकस्य सर्वलोकमहारथम्
शरैरभ्याहनगढं ततो युद्धमभूत्तयोः

M. N. Dutt: Then with his arrows Satyaki deeply pierced the king of all creatures who is regarded as he best car-warrior in all the worlds. Thereupon a battle commenced between them.

BORI CE: 07-092-011

विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान्
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ

MN DUTT: 05-116-011

विमुञ्चन्तौ शरांस्तीक्ष्णान् संदधानौ च सायकान्
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ

M. N. Dutt: Then those two mighty car-warriors discharging sharp arrows and placing other arrows on the bow-string, rendered each other invisible in battle.

BORI CE: 07-092-012

सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा

MN DUTT: 05-116-012

सात्यकिः कुरुराजने निर्विद्धो बह्वशोभत
अस्रवदुधिरं भूरि स्वरसं चन्दनो यथा

M. N. Dutt: Satyaki then pierced sore by the king of the Kurus, appeared highly beautiful. He shed blood copiously like a sandal tree discharging its sap.

BORI CE: 07-092-013

सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः

MN DUTT: 05-116-013

सात्वतेन च बाणौधैर्निर्विद्धस्तनयस्तव
शातकुंभमयापीडो बभौ यूप इवोच्छ्रितः

M. N. Dutt: r'ierced with myriads of shafts by him of the Satvata race, your son appeared beautiful like a golden stake set up at a sacrifice.

BORI CE: 07-092-014

माधवस्तु रणे राजन्कुरुराजस्य धन्विनः
धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव
अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत्

MN DUTT: 05-116-014

माधवस्तु रणे राजन् कुरुराजस्य धन्विनः
धनुश्चिच्छेद समरे क्षुरप्रेण हसन्निव

M. N. Dutt: Thereafter, Oking, that descendant of Madhu's race, with a razor-headed shaft, cutoff in battle the bow of the Kuru king that best wielder of the bow, smiling all the while.

Corresponding verse not found in BORI CE

MN DUTT: 05-116-015

अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत्
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा

M. N. Dutt: Then he pierced the king whose bow had been severed, with numerous shafts. Thereat mangled with the arrows of his light-handed enemy.

BORI CE: 07-092-015

निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम्

BORI CE: 07-092-016

अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम्
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह

BORI CE: 07-092-017

सोऽतिविद्धो बलवता पुत्रेण तव धन्विना
अमर्षवशमापन्नस्तव पुत्रमपीडयत्

BORI CE: 07-092-018

पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः
सात्वतं शरवर्षेण छादयामासुरञ्जसा

BORI CE: 07-092-019

स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः

BORI CE: 07-092-020

दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः
प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम्

MN DUTT: 05-116-015

अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत्
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा

MN DUTT: 05-116-016

नामृष्यत रणे राजा शत्रोविजयलक्षणम्
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम्

MN DUTT: 05-116-017

विव्याध सात्यकिं तूर्णे सायकानां शतेन ह
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना

MN DUTT: 05-116-018

अमर्षवशमापन्नस्तव पुत्रमपीडयत्
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः

MN DUTT: 05-116-019

सात्यकि शरवर्षेण छादयामासुरोजसा
स च्छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः

MN DUTT: 05-116-020

एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः

MN DUTT: 05-116-021

प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम्
नागं मणिमयं चैव शरैर्ध्वजमपातयत्

M. N. Dutt: Then he pierced the king whose bow had been severed, with numerous shafts. Thereat mangled with the arrows of his light-handed enemy. m In that battle, he could not bear this sign of the success of his enemy. Then taking up another bow of great toughness and golden staff. He pierced Satyaki quickly with a group of hundred arrows. Pierced deeply by that great bowman endued with might, viz., your son, Satyaki. Under the influence of wrath began to afflict your son severely. Beholding the king thus afflicted, your other sons all mighty carwarriors. Covered Satyaki with a shower of mighty arrows. Thus covered by your sons, all mighty car-warriors. Satyaki piercing each with five arrows, again pierced each with seven shafts. He then quickly pierced Duryodhana with eight swiftcoursing arrows. Then smiling he cut-off Duryodhana's bow that used to inspire terror into the hearts of the enemy. Then with his arrows, he cut down the latter's standard and the elephant of pearls embossed thereon.

BORI CE: 07-092-021

नागं मणिमयं चैव शरैर्ध्वजमपातयत्
हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः
सारथिं पातयामास क्षुरप्रेण महायशाः

MN DUTT: 05-116-022

हत्वा तु चतुरो वाहांश्चतुर्भिनिशितैः शरैः
सारथिं पातयामास क्षुरप्रेण महायशाः

M. N. Dutt: Then slaying with four sharp arrows the four horses of Duryodhana, that illusirious warrior felled the charioteer of the latter with a razor-headed arrow.

BORI CE: 07-092-022

एतस्मिन्नन्तरे चैव कुरुराजं महारथम्
अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः

MN DUTT: 05-116-023

एतस्मिन्नन्तरे चैव कुरुराजं महारथम्
अवाकिरच्छरैर्हष्टो बहुभिर्मर्मभेदिभिः

M. N. Dutt: After this, filled with delight he began to cover the king of the Kurus, that mighty carwarrior, with numerous arrows, all capable of penetrating to the very vitals.

BORI CE: 07-092-023

स वध्यमानः समरे शैनेयस्य शरोत्तमैः
प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः

MN DUTT: 05-116-024

स वध्यमानः समरे शैनेयस्य शरोत्तमैः
प्राद्रवत् सहसा राजन् पुत्रो दुर्योधनस्तव

M. N. Dutt: Thus pierced by the excellent shafts of the grandson of Sini, Oking, your son Duryodhana suddenly fled away from the field of battle.

Corresponding verse not found in BORI CE

MN DUTT: 05-116-025

आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः
हाहाभूतं जगश्चासीद् दृष्ट्वा राजानमाहवे

M. N. Dutt: He then ascended the car of Chitrasena that great bowman. Then cries of Alas and Oh were uttered by your troops as they beheld the king in that battle.

BORI CE: 07-092-024

हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे
ग्रस्यमानं सात्यकिना खे सोममिव राहुणा

BORI CE: 07-092-025

तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः
अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः

BORI CE: 07-092-026

विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः
भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः

BORI CE: 07-092-027

तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम्
युयुधानो महाराज यन्तारमिदमब्रवीत्

BORI CE: 07-092-028

कृतवर्मा रथेनैष द्रुतमापतते शरी
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम्

BORI CE: 07-092-029

ततः प्रजविताश्वेन विधिवत्कल्पितेन च
आससाद रणे भोजं प्रतिमानं धनुष्मताम्

BORI CE: 07-092-030

ततः परमसंक्रुद्धौ ज्वलन्ताविव पावकौ
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ

BORI CE: 07-092-031

कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत्
निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः

BORI CE: 07-092-032

चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः
अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह

BORI CE: 07-092-033

रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम्
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत्

BORI CE: 07-092-034

ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे
प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनंजयम्

BORI CE: 07-092-035

सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः
समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः

BORI CE: 07-092-036

त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः
विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः

BORI CE: 07-092-037

सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः
व्यसृजत्तं महाज्वालं संक्रुद्धमिव पन्नगम्

MN DUTT: 05-116-025

आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः
हाहाभूतं जगश्चासीद् दृष्ट्वा राजानमाहवे

MN DUTT: 05-116-026

ग्रस्यमानं सात्यकिना खे सोममिव राहुणा
तं तु शब्दमथ श्रुत्वा कृतवर्मा महारथः

MN DUTT: 05-116-027

अभ्ययात् सहसा तत्र यत्रास्ते माधवः प्रभुः
विधुन्वानो धनुः श्रेष्ठं चोदयंश्चैव वाजिनः

MN DUTT: 05-116-028

भर्त्सयन् सारथिं चाग्रे याहि याहीति सत्वरं
तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम्

MN DUTT: 05-116-029

युयुधानो महाराज यन्तारमिदमब्रवीत्
कृतवर्मा रथेनैष द्रुतमापतते शरी

MN DUTT: 05-116-030

प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम्
ततः प्रजविताश्वेन विधिवत् कल्पितेन च

MN DUTT: 05-116-031

आससाद रणे भोज प्रतिमानं धनुष्मताम्
ततः परमसंक्रुद्धौ ज्वलिताविव पावकौ

MN DUTT: 05-116-032

समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ
कृतवर्मा तु शैनेयं षड्विशत्या समार्पमत्

MN DUTT: 05-116-033

निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य पञ्चभिः
चतुरश्चतुरो वाहांश्चतुर्भिः परमेषुभिः
अविध्यत् साधुदान्तान् वै सैन्धवान् सात्वतस्य हि
रुक्मध्वजो रुक्मपृष्ठं महद् विस्फार्य कार्मुकम्

MN DUTT: 05-116-034

रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खरवारयत्
ततोऽशीतिं शिनेः पौत्रः सायकान् कृतवर्मणे
प्राहिणोत् त्वरया युक्तो द्रष्टकामो धनंजयम्
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः

MN DUTT: 05-116-035

समकम्पत दुर्घर्षः क्षितिकम्पे यथाचलः
त्रिषष्ट्या चतुरोऽस्याश्वान् सप्तभिः सारथिं तथा
विव्याध निशितैस्तूर्णं सात्यकिः सत्यविक्रमः
सुवर्णपुङ्ख विशिखं समाधाय च सात्यकिः

MN DUTT: 05-116-036

व्यसृजत् तं महाज्वालं संक्रुद्धमिव पन्नगम्
सोऽविध्यत् कृतवर्माणं यमदण्डोपमः शरः

M. N. Dutt: He then ascended the car of Chitrasena that great bowman. Then cries of Alas and Oh were uttered by your troops as they beheld the king in that battle. Devoured by Satyaki, like Soma in the skies devoured by Rahu. Then hearing that woeful exclamation, the mighty car-warrior Kritavarman. Quickly proceeded to the spot where that mighty-descendant of Madhu's race, was fighting. He came stretching his bow and urging his steeds. And encouraging his charioteer with the words. Proceed in haste, Proceed in haste. Beholding him come like the Destroyer himself with mouth wide open. O mighty Monarch, Yuyudhana addressed his charioteer saying-Yonder is the heroic Kritavarman rushing at me on his chariot. Encounter this foremost all wielder of bow and drive your car before him.” Then urging to the top of their speed those horses duly equipped. The charioteer drove the car towards the king of the Bhojas held in high honor by all bowmen. Then highly excited and looking like two blazing fires. Those two foremost of men encountered one another like two tigers endued with great agility. Then Kritavarman wounded the grandson of Sini with twenty-six. Sharp arrows all well-whetted; and his charioteer with five shafts. With four excellent shafts he pierced the four steeds of the Satvata hero, steeds whose teeth were graceful and that were of the Sindhu breed. Then stretching his mighty-bow of golden back, that one of golden standards. Decked with golden Angadas and clad in a golden mail, covered Satyaki with arrow of golden wings. Thereafter the grandson of Sini quickly sped numerous shafts at Kritavarman, as he was longing to have a sight of Dhananjaya. Pierced deeply by his powerful adversary, that scorcher of foes. Began to tremble like a mountain during an earth-quake. Then Stayaki of prowess incapable of being baffled quickly pierced his four steeds with sixty-three and his charioteer with seven sharp arrows. Then Satyaki placed on his bow string a shaft furnished with golden wings. That emitted great effulgence and looked like an enraged snake; that arrow that resembled the the dart of Death, wounded Kritavarman sorely.

BORI CE: 07-092-038

सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः
जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत्
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः

MN DUTT: 05-116-037

जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत्
अभ्यगाद धरणीमुनो रुधिरेण समुक्षितः

M. N. Dutt: Then that fierce arrow, penetrating through the effulgent and gold-decked armour of Kritavarman, fell down on the ground, steeped completely in blood.

BORI CE: 07-092-039

संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः
प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे

MN DUTT: 05-116-038

संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः
सशरं धनुरुत्सृज्य न्यपतत् स्यन्दनोत्तमात्

M. N. Dutt: Covered all over with blood and afflicted with the arrows of the of the Satvata hero, Kritavarman, throwing aside his bow and arrow, feil upon his niche on the chariot.

BORI CE: 07-092-040

स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः

MN DUTT: 05-116-039

स सिंहदंष्ट्रो जानुभ्यां पतितोऽमितविक्रमः
शरादितः सात्यकिना रथोपस्थे नरर्षभः

M. N. Dutt: That one of infinite prowess and of teeth resembling those of the lion, that foremost of men, then fell on his knees on the terrace of his car, being afflicted by arrows of Satyaki.

BORI CE: 07-092-041

सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम्
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः

MN DUTT: 05-116-040

सहस्रबाहुसदृशमक्षोभ्यमिव सागरम्
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः

M. N. Dutt: Thereafter Satyaki having successfully checked Kritavarman who reseinbled the thousand-armed Arjuna or the unagitable ocean itself, quickly advanced onwards.

BORI CE: 07-092-042

खड्गशक्तिधनुःकीर्णां गजाश्वरथसंकुलाम्
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः

BORI CE: 07-092-043

प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः
अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम्

MN DUTT: 05-116-041

खङ्गशक्तिधनुःकीर्णो गजाश्वरथसंकुलाम्
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः
अभ्यगाद्वाहिनीं हित्वावृत्रहेवासुरींचमूम्

M. N. Dutt: Then passing through the division of Kritavarman, bristling with swords, lances and javelins and teeming with elephants, steeds and cars and shedding blood copiously, before the very eyes of all the troops that foremost of the descendants of Sini moved forwards like the slayer of Vritra passing through the Asura host.

BORI CE: 07-092-044

समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः
तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान्

MN DUTT: 05-116-042

समाश्वस्य च हार्दिक्यो गृह्य चान्यन्महद् धनुः
तस्थौ स तत्र बलवान् वारयन् युधि पाण्डवान्

M. N. Dutt: Meanwhile the son of Hridika regaining his composure and grasping another mighty bow, stood on the field of battle checking the mighty Pandava hosts. cars and shedding blood copiously, before the very eyes of all the troops that foremost of the descendants of Sini moved forwards like the slayer of Vritra passing through the Asura host.

Corresponding verse not found in BORI CE

MN DUTT: 05-116-043

समाश्वस्य च हार्दिक्यो गृह्य चान्यन्महद् धनुः
तस्थौ स तत्र बलवान् वारयन् युधि पाण्डवान्

M. N. Dutt: Meanwhile the son of Hridika regaining his composure and grasping another mighty bow, stood on the field of battle checking the mighty Pandava hosts.

Home | About | Back to Book 07 Contents | ← Chapter 91 | Chapter 93 →