Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 177

BORI CE: 12-177-001

भरद्वाज उवाच
एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा
आवृता यैरिमे लोका महाभूताभिसंज्ञितैः

BORI CE: 12-177-002

यदासृजत्सहस्राणि भूतानां स महामतिः
पञ्चानामेव भूतत्वं कथं समुपपद्यते

MN DUTT: 08-011-001

भरद्वाज उवाच त एते धातवः पञ्च ब्रह्मा यानसृजत् पुरा
आवृता यैरिमे लोका महाभूताभिसंज्ञिताः
यदासृजत सहस्राणि भूतानां स महामतिः
पञ्चानामेव भूतत्वं कथं समुपपद्यते

M. N. Dutt: When the great Brahman has created thousands of creatures why is it that only these five elements which he created first, which permeate the entire universe and which are great creatures.

BORI CE: 12-177-003

भृगुरुवाच
अमितानां महाशब्दो यान्ति भूतानि संभवम्
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते

MN DUTT: 08-011-002

भृगुरुवाच अमितानां महाशब्दो यान्ति भूतानि सम्भवम्
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते

M. N. Dutt: Bhrigu said All things which belong to the Infinite or the Vast are known by the name of Great. Therefore these five clements are called Great creatures.

BORI CE: 12-177-004

चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्

MN DUTT: 08-011-003

चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्

M. N. Dutt: Activity is wind. The sound is space. The heat that lives within it is fire. The liquid juices cc:itained in it are water. The solidified matter, viz., flesh and bones from the Earth. The bodies are thus made of the five elements.

BORI CE: 12-177-005

इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम्
श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः

MN DUTT: 08-011-004

इत्येतैः पञ्चमिर्भूतैर्युक्तं स्थावरजङ्गमम्
श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः

M. N. Dutt: All mobile and immobile objects are formed of these five elements. The five senses also made of the give clements. The car is formed of the properties of space. The nose of earth; the tongue of water; touch of wind; and eyes of tire.

BORI CE: 12-177-006

भरद्वाज उवाच
पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः

MN DUTT: 08-011-005

भरद्वाज उवाच पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः

M. N. Dutt: Bharadwaja said If all mobile and immobile objects be made of these five elements, why is it that in all immobile objects those elements are not seen.

BORI CE: 12-177-007

अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः

MN DUTT: 08-011-006

अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः

M. N. Dutt: Trees do not appear to have possessed any heat. They appear to have no motion. They are again formed of thick particles. The five elements are not seen in them.

BORI CE: 12-177-008

न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः
न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः

MN DUTT: 08-011-007

न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः
न च स्पर्श विजानन्ति ते कथं पाञ्चभौतिकाः

M. N. Dutt: Trees do not hear; they do not sec; they cannot smell or taste. They cannot touch. How then can they be regarded as formed of the five elements.

BORI CE: 12-177-009

अद्रवत्वादनग्नित्वादभौमत्वादवायुतः
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम्

MN DUTT: 08-011-008

अद्रवत्वादनग्नित्वादभूमित्वादवायुतः
आकाशस्याप्रमेयत्वाद् वृक्षाणां नास्ति भौतिकम्

M. N. Dutt: It appears to me that for the absence of any liquid matter in them, of any heat, of any earth, of any wind, and of any empty space, trees cannot be considered as compounds of the five primary elements.

BORI CE: 12-177-010

भृगुरुवाच
घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः
तेषां पुष्पफले व्यक्तिर्नित्यं समुपलभ्यते

MN DUTT: 08-011-009

भृगुरुवाच घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः
तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते

M. N. Dutt: Bhrigu said Forsooth, though possessed of density, trees have space within them. They always bear flowers and fruits.

BORI CE: 12-177-011

ऊष्मतो ग्लानपर्णानां त्वक्फलं पुष्पमेव च
म्लायते चैव शीते न स्पर्शस्तेनात्र विद्यते

MN DUTT: 08-011-010

उष्मतो म्लायते पण त्वक् फलं पुष्पमेव च
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते

M. N. Dutt: They have heat within them for which leaf, bark, fruit, and flower are seen to fall off. They sicken and dry up. This indicates that they have perception of touch.

BORI CE: 12-177-012

वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः

MN DUTT: 08-011-011

वाय्वग्न्यशनिनिर्घोषैः फलं पुष्पं विशीर्यते
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः

M. N. Dutt: By sound of wind and fire and thunder, their fruits and flowers fall down. Sound is perceived through the ear. Trees have, therefore, ears and do hear.

BORI CE: 12-177-013

वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः

MN DUTT: 08-011-012

वल्ली वेश्यते वृक्षं सर्वतश्चैव गच्छति
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात् पश्यन्ति पादपाः

M. N. Dutt: A creeper entwines a tree all around. A blind thing cannot see its way. Therefore it is evident that trees have vision.

BORI CE: 12-177-014

पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः

MN DUTT: 08-011-013

पुण्यापुण्यैस्तथा गन्धैर्दू पैश्च विविधैरपि
अरोगाः पुष्पिता: सन्ति तस्माज्जिघ्रन्ति पादपाः

M. N. Dutt: Again trees regain vigour and put forth flowers for good and bad smell, of the sacred incense of all sorts. It is evident that trees have scent.

BORI CE: 12-177-015

पादैः सलिलपानं च व्याधीनामपि दर्शनम्
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे

MN DUTT: 08-011-014

पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात्
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं दुमे

M. N. Dutt: They draw water by their roots. They catch all sorts of diseases. Those diseases again are cured by various operations. From this it is clear that trees have perception of taste.

BORI CE: 12-177-016

वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्
तथा पवनसंयुक्तः पादैः पिबति पादपः

MN DUTT: 08-011-015

वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्
तथा पवनसंयुक्तः पादैः पिबति पादपः

M. N. Dutt: As one can draw water through the hole of a lotus-stalk, trees also, with the help of wind, drink through their roots.

BORI CE: 12-177-017

ग्रहणात्सुखदुःखस्य छिन्नस्य च विरोहणात्
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते

MN DUTT: 08-011-016

सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात्
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते

M. N. Dutt: They are subject to pleasure and pain, and grow when cut or lopped off. These facts clearly prove that trees have life. They are not manimate.

BORI CE: 12-177-018

तेन तज्जलमादत्तं जरयत्यग्निमारुतौ
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते

MN DUTT: 08-011-017

तेन तज्जलमादत्तं जरयत्यग्निमारुतौ
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते

M. N. Dutt: Fire and wind cause the water thus drawn up to be digested. The tree grows and becomes humid proportionate to the quantity of the water taken up.

BORI CE: 12-177-019

जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते

MN DUTT: 08-011-018

जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते

M. N. Dutt: In the bodies of all mobile things the five elements reside. The proportions are different in each. Mobile objects can move for these five elements.

BORI CE: 12-177-020

त्वक्च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम्
इत्येतदिह संख्यातं शरीरे पृथिवीमयम्

MN DUTT: 08-011-019

त्वद् च मांसं तथास्थीनि मज्जा स्नायुश्च पञ्चमम्
इत्येतदिह संघातं शरीरे पृथिवीमयम्

M. N. Dutt: Skin, fresh, bones, marrow, and arteries and veins, that exist together in the body are formed of earth.

BORI CE: 12-177-021

तेजोऽग्निश्च तथा क्रोधश्चक्षुरूष्मा तथैव च
अग्निर्जरयते चापि पञ्चाग्नेयाः शरीरिणः

MN DUTT: 08-011-020

तेजो ह्यग्निस्तथा क्रोधश्चक्षुरूष्मा तथैव च
अग्निर्जस्यते यश्च पञ्चाग्नेयाः शरीरिणः

M. N. Dutt: Energy, anger, eyes, internal heat, and the heat which digests the good taken, these five, form the fire that exists in all embodied creatures.

BORI CE: 12-177-022

श्रोत्रं घ्राणमथास्यं च हृदयं कोष्ठमेव च
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः

MN DUTT: 08-011-021

श्रोत्रं घ्राणं तथाऽऽस्यं च हृदयं कोष्ठमेव च
आकाशात् प्राणिनामेते शरीरे पञ्च धातवः

M. N. Dutt: The cars, nostrils, mouth, heart, and Stomach, these five, form the element of space that exists in the bodies of living creatures.

BORI CE: 12-177-023

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा

MN DUTT: 08-011-022

श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा

M. N. Dutt: Phlegm, bile, sweat, fat, blood are the five kinds of water that exist in inobile bodies.

BORI CE: 12-177-024

प्राणात्प्रणीयते प्राणी व्यानाद्व्यायच्छते तथा
गच्छत्यपानोऽवाक्चैव समानो हृद्यवस्थितः

MN DUTT: 08-011-023

प्राणात् प्रणीयते प्राणी व्यानाद् व्यायच्छतेतथा
गच्छत्यपानोऽधश्चैव समानो हृद्यवस्थितः

M. N. Dutt: Through the vital breath called Prana, a living creature is capable of moving about. Through that called Vyana they act. That called Apana goes downward. That called Samana lives within the heart.

BORI CE: 12-177-025

उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम्

MN DUTT: 08-011-024

उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते
इत्येते वायवः पञ्च चेश्यन्तीह देहिनम्

M. N. Dutt: Through that called Udana one passes exertion and is enabled to speak by virtue of its going through (the lungs, the throat, and the mouth). These are the five sorts of vital airs that cause an embodied creature to live and Imove.

BORI CE: 12-177-026

भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान्
ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना

MN DUTT: 08-011-025

भूमेर्गन्धगुणान् वेत्ति रसं चाभ्यः शरीरवान्
ज्योतिषा चक्षुषा रूपं स्पर्श वेत्ति च वाहिना

M. N. Dutt: Through the earth-element an embodied creature perceives the properties of scent. From the water-element he perceives taste. From the fire-element as represented by the eyes, he perceives forms, and from the wind-element he perceives touch.

Corresponding verse not found in BORI CE

MN DUTT: 08-011-026

गन्धः स्पृशो रसो रूपं शब्दश्चात्र गुणाः स्मृताः
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान् गुणान्

M. N. Dutt: Scent, touch, taste, vision and sound, are considered as the common properties of all mobile and immobile objects. I shall first describe the several sorts of scent.

BORI CE: 12-177-027

तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान्
इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च

BORI CE: 12-177-028

निर्हारी संहतः स्निग्धो रूक्षो विशद एव च
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः

MN DUTT: 08-011-026

गन्धः स्पृशो रसो रूपं शब्दश्चात्र गुणाः स्मृताः
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान् गुणान्

MN DUTT: 08-011-027

इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च

MN DUTT: 08-011-028

एवं नवविधो ज्ञेयः पार्थिवे गन्धविस्तरः
ज्योतिः पश्यति चक्षुर्त्या स्पर्श वेत्ति च वायुना

M. N. Dutt: Scent, touch, taste, vision and sound, are considered as the common properties of all mobile and immobile objects. I shall first describe the several sorts of scent. They are pleasant, unpleasant, sweet, pungent, far-reaching, varied, dry, indifferent. Scent which is formed of the earth element, consists of these nine sorts. Light is seen by the eyes, and touch through the wind-clement.

BORI CE: 12-177-029

शब्दः स्पर्शश्च रूपं च रसश्चापां गुणाः स्मृताः
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु

MN DUTT: 08-011-029

शब्दः स्पर्शश्च रूपं च रसञ्चापि गुणा: स्मृताः
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृण

M. N. Dutt: Sound, touch, vision and taste are the properties of water. I shall describe fully that now the perception of taste. Listen to me.

BORI CE: 12-177-030

रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा
एष षड्विधविस्तारो रसो वारिमयः स्मृतः

MN DUTT: 08-011-030

रसो बहुविधः प्रोक्त ऋषिभिः प्रथितात्मभिः
मधुरो लवणास्तिक्तः कषायोऽम्लः कटुस्तथा

M. N. Dutt: Great Rishis have mentioned various sorts of taste. They are sweet, saltish, bitter, astringent, sour, and pungent.

Corresponding verse not found in BORI CE

MN DUTT: 08-011-031

एष पड्विधविस्तारो रसो वारिमयः स्मृतः
शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते

M. N. Dutt: These are the six sorts of taste belonging to the water-element. The light is the combind result of sound, touch and forin

BORI CE: 12-177-031

शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते
ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्

MN DUTT: 08-011-031

एष पड्विधविस्तारो रसो वारिमयः स्मृतः
शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते

MN DUTT: 08-011-032

ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽनृवृत्तवान्
शुक्ल: कृष्णस्तथा रक्तः पीतो नीलारुणस्तथा
कठिनश्चिक्कणः श्लक्ष्ण: पिच्छिलो मृदुदारुणः

M. N. Dutt: These are the six sorts of taste belonging to the water-element. The light is the combind result of sound, touch and forin Through light one perceives forins. Form is of various kinds, Short, tall, thick square, round, white, black, red, blue, yellow, reddish, hard, bright, smooth, oily, soft and terrible.

BORI CE: 12-177-032

ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणु वृत्तवान्
शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा
एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-177-033

शब्दस्पर्शौ तु विज्ञेयौ द्विगुणो वायुरुच्यते
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः

MN DUTT: 08-011-033

एवं पोडशविस्तारो ज्योतीरूपगुणः स्मृतः
शब्दस्पर्शी च विज्ञेयौ द्विगुणो वायुरित्युत
वायव्यस्तु गुणः स्पर्श: स्पर्शश्च बहुधा स्मृतः
उष्णः शीत: सुखो दुःखः स्निग्धो विशद एव च

M. N. Dutt: These are the sixteen sorts of forin which forms the property of light or vision. The property of the wind element is touch. Touch is of various sorts; warm, cold, agreeable and disagrecable, indifferent, burning, mild, soft, light and heavy.

BORI CE: 12-177-034

कठिनश्चिक्कणः श्लक्ष्णः पिच्छलो मृदुदारुणः
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च
एवं द्वादशविस्तारो वायव्यो गुण उच्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 08-011-034

तथा खरो मृदु रूक्षो लघुर्गुरुतरोऽपि च
एवं द्वादशधा स्पर्शो वायव्यो गुण उच्यते

M. N. Dutt: Both sound and touch form the two properties of the wind-element. These are the eleven properties which belong to the wind.

BORI CE: 12-177-035

तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्

MN DUTT: 08-011-035

तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्

M. N. Dutt: Space has only one property, namely sound. I shall now describe to you the different sorts of sound.

BORI CE: 12-177-036

षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस्तथा
धैवतश्चापि विज्ञेयस्तथा चापि निषादकः

MN DUTT: 08-011-036

षड्ज ऋषभगान्धारौ मध्यमो धैवतस्तथा
पञ्चमश्चापि विज्ञेयस्तथा चापि निषादवान्

M. N. Dutt: They are the seven original notes called Shadaja, Rishabha, Gandhara, Maddhyaina, Dhaivata, Panchama, and Nishada.

BORI CE: 12-177-037

एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः
त्रैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु

MN DUTT: 08-011-037

एष सप्तविधः प्रोक्तो गुण आकाशसम्भवः
ऐश्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु

M. N. Dutt: These are the seven sorts of the property which belongs to space. Sound pervades like the Supreme Being the entire space though attached especially to drums drums and other instruments.

Corresponding verse not found in BORI CE

MN DUTT: 08-011-038

मृदङ्गभेरीशङ्खानां स्तनयित्नो रथस्य च
यः कश्चिच्छ्रयते शब्दः प्राणिनोऽप्राणिनोऽपि वा
एतेषामेव सर्वेषां विषये सम्प्रकीर्तितः

M. N. Dutt: Whatever sound is heard from small and large drums and conch-shells, and cloucis, and cars, and animate and inanimates creatures, are all contained in these seven sorts of sound already mentioned.

BORI CE: 12-177-038

आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह
अव्याहतैश्चेतयते न वेत्ति विषमागतैः

BORI CE: 12-177-039

आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः
आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु

MN DUTT: 08-011-039

एवं बहुविधाकारः शब्द आकाशसम्भवः
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह
अव्याहतैश्चेतयते न वेत्ति विषमस्थितैः
आप्याय्यन्ते च ते नित्यं धातवस्तैस्तु धातुभिः

MN DUTT: 08-011-040

आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु
मूलमेते शरीरस्य व्याप्य प्राणानिह स्थिताः

M. N. Dutt: Thus sound, which is the property of space, is of various sorts. The learned have described sound to be born of space. When created by the various kinds of touch, which is the property of the wind, it may be heard. It cannot, however, be heard, when the different kinds of touch are not used. Mixed with their counter parts in the body, the elements increase and grow. Water, fire, wind, always live in the bodies of living creatures. They form the roots of the body. Pervading the five vital airs they live in the body.

Home | About | Back to Book 12 Contents | ← Chapter 176 | Chapter 178 →