Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 025

BORI CE: 04-025-001

वैशंपायन उवाच
ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा
चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः

MN DUTT: 03-026-001

वैशम्पायन उवाच ततो दुर्योधनो राजा ज्ञात्वा तेषां वचस्तदा
चिरमन्तर्मना भूत्वा प्रत्युवाच सभासदः

M. N. Dutt: Vaishampayana said Thereupon hearing their words, the king Duryodhana thought in his mind and then said to his courtiers.

BORI CE: 04-025-002

सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः
तस्मात्सर्वे उदीक्षध्वं क्व नु स्युः पाण्डवा गताः

MN DUTT: 03-026-002

सुदुःखा खलु कार्याणां गतिर्विज्ञातुमन्ततः
तस्मात् सर्वे निरीक्षध्वं क्व नु ते पाण्डवा गताः

M. N. Dutt: It is very difficult to ascertain definitely the tide of affairs. Do you all ascertain where the Pandavas have gone.

BORI CE: 04-025-003

अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः
तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे

MN DUTT: 03-026-003

अल्पावशिष्टं कालस्य गतभूयिष्ठमन्ततः
तेषामज्ञातचर्यायामस्मिन् वर्षे त्रयोदशे

M. N. Dutt: Of these thirteen years which they have to pass hidden from us all, the greater portion has well-high elapsed and only a little remains.

BORI CE: 04-025-004

अस्य वर्षस्य शेषं चेद्व्यतीयुरिह पाण्डवाः
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः

MN DUTT: 03-026-004

अस्य वर्षस्य शेषं चेद् व्यतीयुरिह पाण्डवाः
निवृत्तसमयास्ते हि सत्यव्रतपरायणाः

M. N. Dutt: And if they can truly pass the remaining portion of this year hidden from our view in pursuance of their vow they will then have fulfilled their pledge.

BORI CE: 04-025-005

क्षरन्त इव नागेन्द्राः सर्व आशीविषोपमाः
दुःखा भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम्

MN DUTT: 03-026-005

क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः
दुःखा भवेयुः संरब्धाः कौरवान् प्रति ते ध्रुवम्

M. N. Dutt: Forsooth, they, worked up with anger, will torment the Kauravas like the elephants in rut or virulent snakes.

BORI CE: 04-025-006

अर्वाक्कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम्

MN DUTT: 03-026-006

सर्वे कालस्य वेत्तारः कृच्छ्ररूपधराः स्थिताः
प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम्

M. N. Dutt: Let them, with anger controlled, acquainted with all seasons, living in painful disguise, enter the woods again.

BORI CE: 04-025-007

तस्मात्क्षिप्रं बुभुत्सध्वं यथा नोऽत्यन्तमव्ययम्
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत्

MN DUTT: 03-026-007

तस्मात् क्षिप्रं बुभूषध्वं यथा तेऽत्यन्तमव्ययम्
राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत्

M. N. Dutt: Do you all concert measures speedily for this, so that our kingdom may remain without enemies, rivals and diminution.

BORI CE: 04-025-008

अथाब्रवीत्ततः कर्णः क्षिप्रं गच्छन्तु भारत
अन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः

MN DUTT: 03-026-008

अथाब्रवीत् ततः कर्णः क्षिप्रं गच्छन्तु भारत
अन्ये धूर्ता नरा दक्षा निभृताः साधुकारिणः

M. N. Dutt: Thereupon Karna said : “O descendant of Bharata, let other spies, more, cunning, capable and better fitted for this work, proceed in disguise.

BORI CE: 04-025-009

चरन्तु देशान्संवीताः स्फीताञ्जनपदाकुलान्
तत्र गोष्ठीष्वथान्यासु सिद्धप्रव्रजितेषु च

MN DUTT: 03-026-009

चरन्तु देशान् संवीताः स्फीताञ्जानपदाकुलान्
तत्र गोष्ठीषु रम्यासु सिद्धप्रव्रजितेषु च

M. N. Dutt: Let them range all over the country, various provinces over-flowing with population, assemblies of learned men and charming retreats of ascetics.

BORI CE: 04-025-010

परिचारेषु तीर्थेषु विविधेष्वाकरेषु च
विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया

MN DUTT: 03-026-010

परिचारेषु तीर्थेषु विविधेष्वाकरेषु च
विज्ञातव्या मनुष्यैस्तैस्तर्कया सुविनीतया

M. N. Dutt: In inner apartments, places of pilgrimage, mines and various other places (they should be searched after) with vigilance and humility.

BORI CE: 04-025-011

विविधैस्तत्परैः सम्यक्तज्ज्ञैर्निपुणसंवृतैः
अन्वेष्टव्याश्च निपुणं पाण्डवाश्छन्नवासिनः

MN DUTT: 03-026-011

विविधैस्तत्परैः सम्यक् तज्जैनिपुणसंवृतैः
अन्वेष्टव्याः सुनिपुणैः पाण्डवाश्छन्नवासिनः

M. N. Dutt: The Pandavas, living in disguise, should be searched after by a number of expert spies, devoted to this work, themselves disguised and well acquainted with the object of search.

BORI CE: 04-025-012

नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च

MN DUTT: 03-026-012

नदीकुट्ठोषु तीर्थेषु ग्रामेषु नगरेषु च
आश्रमेषु च रम्येषु पर्वतेषु गुहासु च

M. N. Dutt: On the banks of the rivers, in sacred shrines, villages, cities, hermitages, charming mountains and caves.

BORI CE: 04-025-013

अथाग्रजानन्तरजः पापभावानुरागिणम्
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत्

MN DUTT: 03-026-013

अथाग्रजानन्तरजः पापभावानुरागवान्
ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत्

M. N. Dutt: Thereupon his younger brother Dushasana, taking delight in sins, said before his elder brother.

Corresponding verse not found in BORI CE

MN DUTT: 03-026-014

येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप
ते यान्तु दत्तदेया वै भूयस्तान् परिमार्गितुम्

M. N. Dutt: O king, O lord of men, let those spies, in whom we have confidence, receive their remuneration in advance and proceed in search of them.

BORI CE: 04-025-014

एतच्च कर्णो यत्प्राह सर्वमीक्षामहे तथा
यथोद्दिष्टं चराः सर्वे मृगयन्तु ततस्ततः
एते चान्ये च भूयांसो देशाद्देशं यथाविधि

MN DUTT: 03-026-015

एतच्च कर्णो यत् प्राह सर्वमीहामहे तथा
यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः

M. N. Dutt: This and what Karna has said have my full approbation. As directed let all those spies search at all those places.

Corresponding verse not found in BORI CE

MN DUTT: 03-026-016

एते चान्ये च भूयांसो देशाद् देशं यथाविधि
न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते

M. N. Dutt: Let those and others make a due search in various countries. My belief is that their movements and whereabouts are not to be known.

BORI CE: 04-025-015

न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते
अत्याहितं वा गूढास्ते पारं वोर्मिमतो गताः

MN DUTT: 03-026-016

एते चान्ये च भूयांसो देशाद् देशं यथाविधि
न तु तेषां गतिर्वासः प्रवृत्तिश्चोपलभ्यते

MN DUTT: 03-026-017

अत्यन्तं वा निगूढास्ते पारं चोर्मिमतो गताः
व्यालैश्चापि महारण्ये भक्षिताः शूरमानिनः

M. N. Dutt: Let those and others make a due search in various countries. My belief is that their movements and whereabouts are not to be known. They are living in very great secrecy; or perhaps they have gone to the other side of the ocean. Those respecters of heroes might have been devoured by wild animals in that huge forest.

BORI CE: 04-025-016

व्यालैर्वापि महारण्ये भक्षिताः शूरमानिनः
अथ वा विषमं प्राप्य विनष्टाः शाश्वतीः समाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-025-017

तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन
कुरु कार्यं यथोत्साहं मन्यसे यन्नराधिप

MN DUTT: 03-026-018

अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः
तस्मान्मानसमव्यग्रं कृत्वा त्वं कुरुनन्दन
कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप

M. N. Dutt: Or overtaken by some dreadful calamity, they have perished for ever. Therefore, O Kuru chief, removing all anxiety from your heart, acquire what you may, working with your energy, O king.

Home | About | Back to Book 04 Contents | ← Chapter 24 | Chapter 26 →