Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 005

BORI CE: 05-005-001

वासुदेव उवाच
उपपन्नमिदं वाक्यं सोमकानां धुरंधरे
अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः

MN DUTT: 03-077-001

वासुदेव उवाच उपपन्नमिदं वाक्यं सोमकानां धुरंधरे
अर्थसिद्धिकरं राज्ञः पाण्डवस्यामितौजसः

M. N. Dutt: Vasudeva said These words befit the chief of the king of the Pandu race, who is unequaled in prowess.

BORI CE: 05-005-002

एतच्च पूर्वकार्यं नः सुनीतमभिकाङ्क्षताम्
अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः

MN DUTT: 03-077-002

एतच्च पूर्वं कार्यं नः सुनीतमभिकाङ्क्षताम्
अन्यथा ह्याचरन् कर्म पुरुषः स्यात् सुबालिशः

M. N. Dutt: It ought to be done first of all by us, who desire to act on the principles of politics and the man who acts otherwise is a fool.

BORI CE: 05-005-003

किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु
यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च

MN DUTT: 03-077-003

किं तु संभन्धकं तुल्यमस्माकं कुरुपाण्डुषु
यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च

M. N. Dutt: But our relations, are the same with the sons of Kuru and Pandu, whatever at this present moment might be those amongst themselves.

BORI CE: 05-005-004

ते विवाहार्थमानीता वयं सर्वे यथा भवान्
कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति

MN DUTT: 03-077-004

ते विवाहार्थमानीता वयं सर्वे तथा भवान्
कृते विवाहे मुदिता गमिष्यामो गृहान् प्रति

M. N. Dutt: We all have been invited here and you as well for the wedding and the ceremony being over we shall go well pleased homeward bound.

BORI CE: 05-005-005

भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च
शिष्यवत्ते वयं सर्वे भवामेह न संशयः

MN DUTT: 03-077-005

भवान् वृद्धतमो राज्ञां वयसा च श्रुतेन च
शिष्यवत् ते वयं सर्वे भवामेह न संशयः

M. N. Dutt: You are the oldest among kings both in age and in learning and we doubtless are like your pupils.

BORI CE: 05-005-006

भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते
आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च

MN DUTT: 03-077-006

भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते
आचार्ययोः : सखा चासि द्रोणस्य च कृपस्य च

M. N. Dutt: Dhritarashtra too always reveres you much and are the friend of the preceptors Drona and Kripa.

BORI CE: 05-005-007

स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः
सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान्

MN DUTT: 03-077-007

स भवान् प्रेषयत्वद्य पाण्डवार्थकरं वचः
सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद् भवान्

M. N. Dutt: This day, therefore, tutor us in what is to the interests of the Pandavas. None of us shall question what you say.

BORI CE: 05-005-008

यदि तावच्छमं कुर्यान्न्यायेन कुरुपुंगवः
न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः

MN DUTT: 03-077-008

यदि तावच्छमं कुर्यान्यायेन कुरुपुङ्गवः
न भवेत् कुरुपाण्डूनां सौभ्रात्रेण महान् क्षयः

M. N. Dutt: If the chief among the Kurus seek peace on equal terms, there will be no injury done to the brotherly feeling between the Kauravas and the Pandavas.

BORI CE: 05-005-009

अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः
अन्येषां प्रेषयित्वा च पश्चादस्मान्समाह्वयेः

MN DUTT: 03-077-009

अथ दर्यान्वितो मोहान्न कुर्याद् धृतराष्ट्रजः
अन्येषां प्रेषयित्वा च पश्चादस्मान् समाह्वये

M. N. Dutt: If the son of Dhritarashtra dose not thus seek peace owing to the ignorance mixed with vanity, summon us after sending word to others.

BORI CE: 05-005-010

ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः
निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि

MN DUTT: 03-077-010

ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः
निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि

M. N. Dutt: Then the bad man Duryodhana along with his ministers and friends will meet his fate at the hands of him who uses the Gandiva as his bow and who will be fired with wrath.

BORI CE: 05-005-011

वैशंपायन उवाच
ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः
गृहान्प्रस्थापयामास सगणं सहबान्धवम्

MN DUTT: 03-077-011

वैशम्पायन उवाच ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः
गृहान् प्रस्थापयामास सगणं सहबान्धवम्

M. N. Dutt: Vaishampayana said Then the lord of the earth Virata, having treated the descendant of Vrishni with due honours, sent him home along with his men and his friends.

BORI CE: 05-005-012

द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः
चक्रुः सांग्रामिकं सर्वं विराटश्च महीपतिः

MN DUTT: 03-077-012

द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः
चक्रुः सांग्रामिकं सर्वं विराटश्च महीपतिः

M. N. Dutt: Krishna having gone to Dwarka the followers of Yudhishthira and also the king Virata made all preparations for the war.

BORI CE: 05-005-013

ततः संप्रेषयामास विराटः सह बान्धवैः
सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः

MN DUTT: 03-077-013

ततः सम्प्रेषयामास विराट: सह बान्धवैः
सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः

M. N. Dutt: Then did Virata and his friends and also the king Drupada send word to all the rulers.

BORI CE: 05-005-014

वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते
समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः

MN DUTT: 03-077-014

वचनात् कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते
समाजग्मुर्महीपालाः सम्प्रहृष्टा महाबलाः

M. N. Dutt: At the request of those lions among the Kauravas of the rulers of the Matsya and Panchala, came there cheerfully kings with large arinies.

BORI CE: 05-005-015

तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम्
धृतराष्ट्रसुतश्चापि समानिन्ये महीपतीन्

MN DUTT: 03-077-015

तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महबलम्
धृतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन्

M. N. Dutt: Having heard that a large army was being collected for the sons of Pandu, Dhritarashtra's too brought together many rulers.

BORI CE: 05-005-016

समाकुला मही राजन्कुरुपाण्डवकारणात्
तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम्

MN DUTT: 03-077-016

समाकुला मही राजन् कुरुपाण्डवकारणात्
तदा समभवत् कृत्स्ना सम्प्रयाणे महीक्षिताम्

M. N. Dutt: At that time, o king the earth became crowded with the throng of kings who had come either for the Kauravas or for the Pandavas.

BORI CE: 05-005-017

बलानि तेषां वीराणामागच्छन्ति ततस्ततः
चालयन्तीव गां देवीं सपर्वतवनामिमाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-077-017

संकुला च तदा भूमिश्चतुरङ्गबलान्विता
बलानि तेषां वीराणामागच्छन्ति ततस्ततः

M. N. Dutt: And the earth at time became thronged with the four elements of the army. The armies of those heroes began to pour from all quarters.

BORI CE: 05-005-018

ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम्
कुरुभ्यः प्रेषयामास युधिष्ठिरमते तदा

MN DUTT: 03-077-018

चालयन्तीव गां देवीं सपर्वतवनामिमाम्
ततः प्रज्ञावयोवृद्ध पाञ्चाल्यः स्वपुरोहितम्
कुरुभ्यः प्रेषयामास युधिष्ठिरमते स्थितः

M. N. Dutt: And the goddess earth, with her mountains and forest seemed as if trembling. And the king of the Panchałas, who was of the same opinion with; Yudhishthira, sent to the Kauravas his own priest who was old both in wisdom and in age.

Home | About | Back to Book 05 Contents | ← Chapter 4 | Chapter 6 →