Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 056

BORI CE: 05-056-001

धृतराष्ट्र उवाच
कांस्तत्र संजयापश्यः प्रत्यर्थेन समागतान्
ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम्

MN DUTT: 03-129-001

धृतराष्ट्र उवाच कांस्तत्र संजयापश्यः प्रीत्यर्थेन समागतान्
ये योत्स्यन्ते पाण्डवार्थं पुत्रस्य मम वाहिनीम्

M. N. Dutt: Dhritarashtra said Whom have you, O Sanjaya, seen there coming out of love and who will fight with the army of my sons on behalf of the sons of Pandu?

BORI CE: 05-056-002

संजय उवाच
मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम्
चेकितानं च तत्रैव युयुधानं च सात्यकिम्

MN DUTT: 03-129-002

संजय उवाच मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम्
चेकितान् च तत्रैव युयुधानं च सात्यकिम्

M. N. Dutt: Sanjaya said The chief of the Andhakas and Vrishnis, Krishna have I seen come there; as also Chekitana, Yuyudhana and Satyaki.

BORI CE: 05-056-003

पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ
महारथौ समाख्यातावुभौ पुरुषमानिनौ

MN DUTT: 03-129-003

पृथगक्षौहिणीभ्यां तु पाण्डवानभिसंश्रितौ
महारथौ समाख्यातावुभौ पुरुषमानिनौ

M. N. Dutt: The two famous and great car-warriors, proud among men, each with a separate Akshauhini of soldiers, have gone to the side of the Pandavas.

BORI CE: 05-056-004

अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः
सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः

MN DUTT: 03-129-004

अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः
सत्यजित्प्रमुखैवीरैधृष्टद्युम्नपुरोगमैः

M. N. Dutt: And the king of the Panchalas Drupada, surrounded by his ten heroic sons, headed by Dhrishtadyumna, with an Akshauhini.

BORI CE: 05-056-005

द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः
उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः

MN DUTT: 03-129-005

दुपदो वर्धयन् मानं शिखण्डिपरिपालितः
उपायात् सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः

M. N. Dutt: And protected by Shikhandin has joined them after well protecting the limbs of his soldiers, enhancing the honour of the Pandavas.

BORI CE: 05-056-006

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च
सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः

BORI CE: 05-056-007

सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा
अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः

MN DUTT: 03-129-006

विराटः सह पुत्राभ्यां शङ्खनैवोत्तरेण च
सूर्यदत्तादिभिर्वीरैर्मदिराक्षपुरोगमैः
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा
अक्षौहिण्यैव सैन्यानां वृतः पार्थं समाश्रितः

M. N. Dutt: Virata, too, with his two sons Shankha and Uttara and with the heroes Suryadatta and others headed by Madiraksha and with his brother and sons, surrounded by an Akshauhini of troops, has joined the son of Pritha.

BORI CE: 05-056-008

जारासंधिर्मागधश्च धृष्टकेतुश्च चेदिराट्
पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ

MN DUTT: 03-129-007

जारासंधिर्मागधश्च धृष्टकेतुश्च चेदिराट्
पृथक् पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ

M. N. Dutt: The king of Magadha, the of Jarasandha, too and Dhrishtaketu, the king of the Chedis-these two have come separately each surrounded by an Akshauhini.

BORI CE: 05-056-009

केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः
अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः

MN DUTT: 03-129-008

केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः
अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः

M. N. Dutt: The five brothers of Kaikeya, all having red flags, surrounded by an Akshauhini, have joined the sons of Pandu.

BORI CE: 05-056-010

एतानेतावतस्तत्र यानपश्यं समागतान्
ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम्

MN DUTT: 03-129-009

एतानेतावतस्तत्र तानपश्यं समागतान्
ये पाण्डवार्थं योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम्

M. N. Dutt: These parties and of their respective numbers have I seen come there, who will fight with the army of Dhritarashtra, on behalf of the sons of Pandu. son

BORI CE: 05-056-011

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्
स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः

MN DUTT: 03-129-010

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्
स तत्र सेनाप्रमुखे धृष्टद्युम्नो महारथः

M. N. Dutt: He, who is acquainted with the human system of fight, is celestial and is followed by the Gandharvas and by the Asuras that great car-warrior, Dhrishtadyumna, is at the head of that army.

BORI CE: 05-056-012

भीष्मः शांतनवो राजन्भागः कॢप्तः शिखण्डिनः
तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः

MN DUTT: 03-129-011

भीष्मः शान्तनवो राजन् भागः क्लृप्तः शिखण्डिनः
तं विराटोऽनुसंयाता सार्धं मत्स्यैः प्रहारिभिः

M. N. Dutt: Bhishma, the son of Shantanu, O king, has been reserved as the share of Shikhandin. Virata will help him (the latter) along with the soldiers from Matsya.

BORI CE: 05-056-013

ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली
तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति

MN DUTT: 03-129-012

ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली
तौ तु तत्राब्रुवन् केचिद् विषमौ नो मताविति

M. N. Dutt: The ruler of the Madras, endued with strength, has been reserved as the share of the eldest son of Pandu, through somebody in their party said that he was of opinion that the two did match very well.

BORI CE: 05-056-014

दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च
प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः

MN DUTT: 03-129-013

दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च
प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः

M. N. Dutt: Duryodhana with his son and his hundred brothers and the soldiers coming from the castern and southern countries have fallen to the share of Bhimasena.

BORI CE: 05-056-015

अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः
अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः

MN DUTT: 03-129-014

अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः
अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः

M. N. Dutt: Arjuna has for his share Karna the son of Vikartana, Ashvathaman, Vikarna and the king of Sindhu Jayadratha.

BORI CE: 05-056-016

अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः
सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः

MN DUTT: 03-129-015

अशक्याश्चैव ये केचिद् पृथिव्यां शूरमानिनः
सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः

M. N. Dutt: Whoever there is in this world who boasts that he is invincible. Arjuna, the son Pritha, has accepted all of them also as his share.

BORI CE: 05-056-017

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः
केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे

MN DUTT: 03-129-016

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः
केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे

M. N. Dutt: The great bowmen, the five Kaikeya princes, brothers to one another, taking the Kaikeya warriors (on the Kurus side) for his share, will fight in the battle. same sons

BORI CE: 05-056-018

तेषामेव कृतो भागो मालवाः शाल्वकेकयाः
त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति

MN DUTT: 03-129-017

तेषामेव कृतो भागो मालवाः शाल्वकास्तथा
त्रिगर्तानां चैव मुख्यौ यौ तौ संशप्तकाविति

M. N. Dutt: In their share have also fallen the Malavas, the Shalvakas and the two foremost of the Trigartas, who have resolved to win or to die.

BORI CE: 05-056-019

दुर्योधनसुताः सर्वे तथा दुःशासनस्य च
सौभद्रेण कृतो भागो राजा चैव बृहद्बलः

MN DUTT: 03-129-018

दुर्योधनसुताः सर्वे तथा दुःशासनस्य च
सौभद्रेण कृतो भागो राजा चैव बृहद्बलः

M. N. Dutt: In the way all the sons of Duryodhana and Dushasana have been accepted by the son of Subhadra as his share, as also the king Brihadbala.

BORI CE: 05-056-020

द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः
धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत

MN DUTT: 03-129-019

द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः
धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत

M. N. Dutt: The mighty bowmen, the of Draupadi, having their flag ornamented with gold, with Dhrishtadyumna at their head, will fight with Drona, O Bharata.

BORI CE: 05-056-021

चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति
भोजं तु कृतवर्माणं युयुधानो युयुत्सति

MN DUTT: 03-129-020

चेकितान: सोमदत्तं द्वैरथे योद्धमिच्छति
भोजं तु कृतवर्माणं युयुधानो युयुत्सति

M. N. Dutt: Chekitana desires to fight with Somadatta in single combat, each seated on his own car; and Yuyudhana is desirous of fighting against Kritavarma of the Bhoja tribe.

BORI CE: 05-056-022

सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि
स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम्

MN DUTT: 03-129-021

सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि
स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम्

M. N. Dutt: The son of Madri, the hero Sahadeva, who makes loud roars in battle, has accepted as his own share your brother the son of Subala.

BORI CE: 05-056-023

उलूकं चापि कैतव्यं ये च सारस्वता गणाः
नकुलः कल्पयामास भागं माद्रवतीसुतः

MN DUTT: 03-129-022

उलूकं चैव कैतव्यं ये च सारस्वता गणाः
नकुलः कल्पयामास भागं माद्रवतीसुतः

M. N. Dutt: Uluka, the deceitful one and hordes of Sarasvata tribes have been accepted by Nakula, the son of Madravati; as his own share.

BORI CE: 05-056-024

ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे
समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन्

MN DUTT: 03-129-023

ये चान्ये पार्थिवा राजन् प्रत्युद्यास्यन्ति सङ्गरे
समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन्

M. N. Dutt: The other rulers, too, Oking, who will fight in the battle, have been assigned to the share of some one on their side by the sons of Pandu.

BORI CE: 05-056-025

एवमेषामनीकानि प्रविभक्तानि भागशः
यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम्

MN DUTT: 03-129-024

एवमेषामनीकानि प्रविभक्तानि भागशः
यते ते कार्य सपुत्रस्य क्रियतां तदकालिकम्

M. N. Dutt: In this way has this army been divided into batches. Do whatever is to be done by you, along with your son, speedily.

BORI CE: 05-056-026

धृतराष्ट्र उवाच
न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः
येषां युद्धं बलवता भीमेन रणमूर्धनि

MN DUTT: 03-129-025

धृतराष्ट्र उवाच न सन्ति सर्वे पुत्रा मे मूढा दु तदेविनः
येषां युद्धं बलवता भीमेन रणमूर्धनि

M. N. Dutt: Dhritarashtra said All my foolish sons, those addicted to the wicked dice who have taken it in their hand to fight with the powerful Bhima, have ceased to exist already.

BORI CE: 05-056-027

राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा
गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम्

MN DUTT: 03-129-026

राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा
गाण्डीवाग्नि प्रवेक्ष्यन्ति पतङ्गा इव पावकम्

M. N. Dutt: The kings and the rulers, too, all consecrated by the king of death himself shall enter the Gandiva bow as moths fall on fire.

BORI CE: 05-056-028

विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः
तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि

MN DUTT: 03-129-027

विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः
तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि

M. N. Dutt: I see in my mind my army already routed by these large minded ones, whom I converted into enemies, who will follow them to battle, who have been routed by the Pandavas in fight.

BORI CE: 05-056-029

सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः
सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः

MN DUTT: 03-129-028

सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः
सूर्यपावकयोस्तुल्यास्तेजसा समितिञ्जयाः

M. N. Dutt: All of them are extremely good carwarriors, heroes, famous and powerful having might like that of the sun or fire and victorious in battle.

BORI CE: 05-056-030

येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः
योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ

BORI CE: 05-056-031

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः
सात्यकिर्द्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः

BORI CE: 05-056-032

उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः
शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः

BORI CE: 05-056-033

काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः
विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः

BORI CE: 05-056-034

येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम्
वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि

BORI CE: 05-056-035

तान्सर्वान्गुणसंपन्नानमनुष्यप्रतापिनः
क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति संजय

MN DUTT: 03-129-029

येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः
योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः
सात्यकिर्दुपदश्चैव धृष्टकेतुश्च सानुजः
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः
शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः
काशयश्चेदयश्चैव मत्स्याः सर्वे च सुंजयाः
विराटपुत्रो बभ्रुश्च पञ्चालाश्च प्रभद्रकाः
येषामिन्द्रोऽप्यकामानां न हरेत् पृथिवीमिमाम्
वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि
तान् सर्वगुणसम्पन्नानमनुष्यप्रतापिनः
क्रोशतो मम दुष्पुत्रो योद्भुमिच्छति संजय

M. N. Dutt: son Those whose leader is Yudhishthira and whose protector is the slayer of Madhu and whose warriors are the heroic sons of Pandu, Savyasachin and Vrikodara and Nakula, Sahadeva, Dhrishtadyumna, the of Prishata, Satyki, Drupada, with his brother and the king of the Panchalas, endued with excellent prowess and the invincible Yudhamanyu and Shikhandin and Kshatradeva and Uttra and the son Virata and the Kashis, the Chedis, the Matsyas and all the Srinjayas, the son of Virata, Babhru, the Panchalas and the Prabhadrakas. From these even Indra himself cannot wrest this Earth, if they are not so willing-the heroes, who are cool and composed in battle and who are capable even of breaking the mountains, my wicked son desires to fight, O Sanjaya-these endued with all the virtues and endued with superhuman strength, disregard me me who am loudly protesting.

BORI CE: 05-056-036

दुर्योधन उवाच
उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ
अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम्

MN DUTT: 03-129-030

दुर्योधन उवाच उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ
अथ कस्मात् पाण्डवानामेकतो मन्यसे जयम्

M. N. Dutt: Duryodhana said Both the parties are of the same race and both roam about on the earth; why then do you regard victory as coming solely to the Pandavas.

BORI CE: 05-056-037

पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम्
जयद्रथं सोमदत्तमश्वत्थामानमेव च

BORI CE: 05-056-038

सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः
अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः

MN DUTT: 03-129-031

पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम्
जयद्रथं सोमदत्तमश्वत्थामानमेव च
सुतेजसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः
अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः

M. N. Dutt: Our grandfather Bhishma, Drona, Kripa and Karna hard to be vanquished, Jayadratha, Somadatta and Ashvathama, Indra even, united with the gods, is incapable of defeating these great bowmen endued with great energy in battle. How can the Pandavas do it, O sire.

BORI CE: 05-056-039

सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान्
आर्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम्

MN DUTT: 03-129-032

सर्वे च पृथिवीपाला मदर्थं तात पाण्डवान्
आर्याः शस्त्रभृतः शूराः समर्थाः प्रतिबाधितुम्

M. N. Dutt: All the rulers of the earth, too, leading honourable lives, the heroes capable of wielding weapons can for my sake, O sire, oppose the Pandavas.

BORI CE: 05-056-040

न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम्
पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे

MN DUTT: 03-129-033

न मामकान् पाण्डवास्ते समर्थाः प्रतिवीक्षितुम्
पराक्रान्तो ह्यहं पाण्डून् सपुत्रान् योद्धमोहवे

M. N. Dutt: These Pandavas are not even able to gaze on my soldiers. I am sufficiently powerful to challenge the Pandus with their sons to fight.

BORI CE: 05-056-041

मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत
ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना

MN DUTT: 03-129-034

मप्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत
ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना

M. N. Dutt: Those rulers of the earth, who wish me well, O Bharata, will get hold of them, as deer are caught by means of a trap.

BORI CE: 05-056-042

महता रथवंशेन शरजालैश्च मामकैः
अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह

MN DUTT: 03-129-035

महता रथवंशेन शरजालैश्च मामकैः
अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह

M. N. Dutt: By means of our large number of cars and our net of arrows, the Panchalas along with the Pandavas will be vanquished.

BORI CE: 05-056-043

धृतराष्ट्र उवाच
उन्मत्त इव मे पुत्रो विलपत्येष संजय
न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम्

MN DUTT: 03-129-036

धृतराष्ट्र उवाच उन्मत्त इव मे पुत्रो विलपत्येष संजय
न हि शक्तो रणे जेतुं धर्मराज युधिष्ठिरम्

M. N. Dutt: Dhritarashtra said My son raves like a maniac, O Sanjaya; he is not capable of defeating in battle Yudhishthira the king of Dharma.

BORI CE: 05-056-044

जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम्
बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम्

MN DUTT: 03-129-037

जानाति हि यथा भीष्मः पाण्डवानां यशस्विनाम्
बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम्

M. N. Dutt: Bhishma knows the truth of the sons of Pandu and their sons of great fame and prowess, conversant with the code of morality and having large minds.

BORI CE: 05-056-045

यतो नारोचयमहं विग्रहं तैर्महात्मभिः
किं तु संजय मे ब्रूहि पुनस्तेषां विचेष्टितम्

MN DUTT: 03-129-038

यतो नारोचयदयं विग्रहं तैर्महात्मभिः
किं तु संजय मे ब्रूहि पुनस्तेषां विचेष्टितम्

M. N. Dutt: Since he does not desire fight with those ones of great soul; but, O Sanjaya, tell me again of their doings.

BORI CE: 05-056-046

कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान्
अर्चिष्मतो महेष्वासान्हविषा पावकानिव

MN DUTT: 03-129-039

कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान्
अर्चिष्मतो महेष्वासान् हविषा पावकानिव

M. N. Dutt: Who among them are endued with activity and who are inciting the Pandavas. These great bowinen are like those pouring clarified butter on fire.

BORI CE: 05-056-047

संजय उवाच
धृष्टद्युम्नः सदैवैतान्संदीपयति भारत
युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः

MN DUTT: 03-129-040

संजय उवाच धृष्टद्युम्नः सदैवैतान् संदीपयति भारत
युद्ध्यध्वमिति मा भैष्ट युद्धाद् भरतसत्तमाः

M. N. Dutt: Sanjaya said Dhritarashtra is ever inciting them, O Bharata, saying, “Fight and do not fear a fight, you best among the race of Bharata.

BORI CE: 05-056-048

ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः
युद्धे समागमिष्यन्ति तुमुले कवचह्रदे

MN DUTT: 03-129-041

ये केचित् पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः
युद्धे समागमिष्यन्ति तुमुले शस्त्रसंकुले

M. N. Dutt: The few rulers of the earth, who are surrounded by the sons of Dhritarashtra, will engage in fierce fight with marks of numberless weapons on their bodies.

BORI CE: 05-056-049

तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान्
अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान्

MN DUTT: 03-129-042

तान् सर्वानाहवे क्रुद्धान् सानुबन्धान् समागतान्
अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकात्

M. N. Dutt: All these wrathful kings who have assembled on the other side, with their friends and followers, I alone will capture like a big fish, seizing small ones from the water.

BORI CE: 05-056-050

भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम्
एतांश्चापि निरोत्स्यामि वेलेव मकरालयम्

MN DUTT: 03-129-043

भीष्मं द्रोणं कृपं कर्णं द्रौणि शल्यं सुयोधनम्
एतांश्चापि निरोत्स्यामि वेलेव मकरालयम्

M. N. Dutt: Bhishma, Drona, Kripa, Karna, the son of Drona, Shalya and Suyodhana-these I will opposed like the shore, resisting the flow of the swelling waters.

BORI CE: 05-056-051

तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः
तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह
सर्वे समधिरूढाः स्म संग्रामान्नः समुद्धर

MN DUTT: 03-129-044

तथा ब्रुवन्तं धर्मात्मा प्राह राजा युधिष्ठिरः
तव धैर्यं च वीर्यं पाञ्चालाः पाण्डवैः सह

M. N. Dutt: King Yudhishthira of a virtuous soul said to him who was thus speaking-'The Panchalas along with the Pandavas all depend on your wisdom and prowess.

BORI CE: 05-056-052

जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम्
समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम्
भवता यद्विधातव्यं तन्नः श्रेयः परंतप

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-129-045

सर्वे समधिरूढाः स्म संग्रामानः समुद्धर
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम्

M. N. Dutt: Rescue us from this fight; I am aware that you, O you with long arms, are established on the virtue of a Kshatriya.

Corresponding verse not found in BORI CE

MN DUTT: 03-129-046

समर्थमेकं पर्याप्तं कौरवाणां विनिग्रहे
पुरस्तादुपयातानां कौरवाणां युयुत्सताम्

M. N. Dutt: Alone you are quite capable of effecting the overthrow of the Kauravas. To meet the Kauravas, desirous of war and standing in front of us.

Corresponding verse not found in BORI CE

MN DUTT: 03-129-047

स त्वं भवता यद् विधातव्यं तन्नः श्रेयः परंतप
संग्रामादपयातानां भग्नानां शरणैषिणाम्

M. N. Dutt: What ever will be decided on by you will conduce to our good, O subduer of foes, why those fly from the field of battle out of the original army and are at our mercy.

BORI CE: 05-056-053

संग्रामादपयातानां भग्नानां शरणैषिणाम्
पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान्
क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम्

MN DUTT: 03-129-048

पौरुषं दर्शयशूरो यस्तिष्ठेदग्रतः पुमान्
क्रीणीयात् तं सहस्रेण इति नीतिमतां मतम्

M. N. Dutt: The hero, who after showing forth his strength himself helps such men (those flying, referred to in the last Sloka), is worth purchasing for a thousand. Such is the opinion of those who are conversant with the code of morality.

BORI CE: 05-056-054

स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ
भयार्तानां परित्राता संयुगेषु न संशयः

MN DUTT: 03-129-049

शूरच वीरश्च विक्रान्तश्च नरर्षभ
भयार्तानां परित्राता संयुगेषु न संशयः

M. N. Dutt: O you bull among men, you are just such a hero, brave and powerful. There is no doubt that in battle you are the rescuer of those struck with fear.

BORI CE: 05-056-055

एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे
धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः

BORI CE: 05-056-056

सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये
सबाह्लीकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः

BORI CE: 05-056-057

सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम्
दुःशासनं विकर्णं च तथा दुर्योधनं नृपम्

MN DUTT: 03-129-050

एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे
धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसम्
सर्वाञ्जनपदान् सूत योधा दुर्योधनस्य ये
सबाह्निकान् कुरून् ब्रूयाः प्रातिपेयाशरद्वतः
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम्
दुःशासनं विकर्णं च तथा दुर्योधनं नृपम्
भीष्मं च ब्रूहि त्वमाशु गच्छ च मा चिरम्

M. N. Dutt: The son of Kunti, Yudhishthira, of virtuous soul having said this Dhrishtadyumna without the least fear said these words to me-O Suta, all the men that have come to fight for Duryodhana, tell them and the Kurus who have descended from the Pratipas with the Bahlika's, son of Sharadvata and Drona with his son, as also Jayadratha with his son and Dushasana and Vikarna and also the king Duryodhana and Bhima-go to them and tell them go just now, without delay.

BORI CE: 05-056-058

भीष्मं चैव ब्रूहि गत्वा त्वमाशु; युधिष्ठिरं साधुनैवाभ्युपेत
मा वो वधीदर्जुनो देवगुप्तः; क्षिप्रं याचध्वं पाण्डवं लोकवीरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-129-051

युधिष्ठिरः साधुनैवाभ्युपेयो मा वो वधीदर्जुनो देवगुप्तः
राज्यं दद्ध्वं धर्मराजस्य तूर्णं याचध्वं वै पाण्डवं लोकवीरम्

M. N. Dutt: Yudhishthira should be approached by an honourable man, let not Arjuna, protected by the gods, kill you and the king of virtue the son of Pandu-that hero among men should be forthwith asked to accept the kingdom surrender to him.

BORI CE: 05-056-059

नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन
यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः

MN DUTT: 03-129-052

नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन
यथाविधः सव्यसाची पाण्डवः सत्यविक्रमः

M. N. Dutt: There is no warrior in this world as the son of Pandu, Savyasachin of true strength.

BORI CE: 05-056-060

देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः
न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि

MN DUTT: 03-129-053

देवैर्हि सम्भृतो दिव्यो रथो गाण्डीवधन्वनः
न स जेयो मनुष्येण मा स्म कृदूध्वं मनो युधि

M. N. Dutt: By the gobs themselves in the heavenly car of the wielder of the Gandiva bow protected; he cannot be defeated by men; do not think in mind even of a fight with him.

Home | About | Back to Book 05 Contents | ← Chapter 55 | Chapter 57 →