Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 007

BORI CE: 06-007-001

धृतराष्ट्र उवाच
उक्तो द्वीपस्य संक्षेपो विस्तरं ब्रूहि संजय
यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम्

MN DUTT: 04-006-002

यावान् भूम्यवकाशोऽयं दृश्यते शशलक्षणे
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम्

M. N. Dutt: Tell us now of the dimension of that portion of the land that looks like a hare. You may then describe the portion that looks like the pipal tree.

Corresponding verse not found in BORI CE

MN DUTT: 04-006-003

वैशम्पायन उवाच एवं राज्ञा स पृष्टस्तु संजयो वाक्यमब्रवीत्

M. N. Dutt: Having thus said by the king, Sanjaya spoke these words:

BORI CE: 06-007-002

वैशंपायन उवाच
एवमुक्तः स राज्ञा तु संजयो वाक्यमब्रवीत्
प्रागायता महाराज षडेते रत्नपर्वताः
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ

MN DUTT: 04-006-004

संजय उवाच प्रागायता महाराज षडेते वर्षपर्वताः
अवगाढा [भयतः समुद्रौ पूर्वपश्चिमौ

M. N. Dutt: Sanjaya said Stretching from east to west, there are six mountains that are all equal and that extend from the eastern to the western sea.

Corresponding verse not found in BORI CE

MN DUTT: 04-006-005

हिमवान् हेमकूटश्च निषधश्च नगोत्तमः
नीलश्च वैदूर्यमयः श्वेतश्च शशिसंनिभः

M. N. Dutt: They are named Himavat, Hemakut that foremost of mountains Nishadha, Nila that abounds in Vaidurya gems, Shveta, as white as the moon,

BORI CE: 06-007-003

हिमवान्हेमकूटश्च निषधश्च नगोत्तमः
नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः
सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः

BORI CE: 06-007-004

एते वै पर्वता राजन्सिद्धचारणसेविताः
तेषामन्तरविष्कम्भो योजनानि सहस्रशः

BORI CE: 06-007-005

तत्र पुण्या जनपदास्तानि वर्षाणि भारत
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः

BORI CE: 06-007-006

इदं तु भारतं वर्षं ततो हैमवतं परम्
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते

BORI CE: 06-007-007

दक्षिणेन तु नीलस्य निषधस्योत्तरेण च
प्रागायतो महाराज माल्यवान्नाम पर्वतः

BORI CE: 06-007-008

ततः परं माल्यवतः पर्वतो गन्धमादनः
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः

BORI CE: 06-007-009

आदित्यतरुणाभासो विधूम इव पावकः
योजनानां सहस्राणि षोडशाधः किल स्मृतः

BORI CE: 06-007-010

उच्चैश्च चतुराशीतिर्योजनानां महीपते
ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति

MN DUTT: 04-006-005

हिमवान् हेमकूटश्च निषधश्च नगोत्तमः
नीलश्च वैदूर्यमयः श्वेतश्च शशिसंनिभः

MN DUTT: 04-006-006

सर्वधातुविचित्रश्च शृङ्गवान् नाम पर्वतः
एते वै पर्वता राजन् सिद्धचारणसेविताः

MN DUTT: 04-006-007

एषामन्तरविष्कम्भो योजनानि सहस्रशः
तत्र पुण्या जनपदास्तानि वर्षाणि भारत

MN DUTT: 04-006-008

वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः
इदं तु भारतं वर्षं ततो हैमवतं परम्

MN DUTT: 04-006-009

हेमकूटात् परं चैव हरिवर्षं प्रचक्षते
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु

MN DUTT: 04-006-010

प्रागायतो महाभाग माल्यवान् नाम पर्वतः
ततः परं माल्यवतः पर्वतो गन्धमादनः

MN DUTT: 04-006-011

परिमण्डलयोर्मध्ये मेरुः कनकपर्वतः
आदित्यतरुणाभासो विधूम इव पावकः

MN DUTT: 04-006-012

योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः
अधस्ताच्चतुरशीतिर्योजनानां महीपते

MN DUTT: 04-006-013

ऊर्ध्वमधश्च तिर्यक् च लोकानावृत्य तिष्ठति
तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता विभो

M. N. Dutt: They are named Himavat, Hemakut that foremost of mountains Nishadha, Nila that abounds in Vaidurya gems, Shveta, as white as the moon, And Shringavat which is made of all kinds of metals. O king, these are the six mountains ever frequented by the Siddhas and the Charanas. The space between them extends cne thousand Yojanas. There are many delightful kingdoms thereon. O descendant of Bharata, these divisions are called Varshas. In all these kingdoms live creatures of various kinds. This is the Varsha called after Bharata, Next to it the Varsha called after Himavat. The land that is beyond Hemakuta is called Harivarsha; south of the Nila mountain and the north of the Nishadha. Is a mountain, O king, called Malyavat that extends from east to west. Beyond Malyavat is the mountain called the Gandhamadana. Between these two (mountains) is a round mountain called Meru which is made of gold. It is as effulgent as the morning sun; it is like fire without smoke. It is eighty-four thousand Yojanas high. O king, its depth is eighty-four thousand Yojanas. It stands carrying the worlds above, below and transversely. O lord, by the side of Meru are situated four islands.

BORI CE: 06-007-011

तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः

MN DUTT: 04-006-014

भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः

M. N. Dutt: Namely Bhadrashva, Ketumala, Jambudvipa also called Bharata, and Uttara Kuru which is the abode of the pious.

BORI CE: 06-007-012

विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल
स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान्

MN DUTT: 04-006-015

विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल
स वै विचिन्तयामास सौवर्णान् वीक्ष्य वायसान्

M. N. Dutt: The bird Sumukha, the son of Suparna (Garuda), seeing that all the birds on the Meru were of golden plumage, reflected.

BORI CE: 06-007-013

मेरुरुत्तममध्यानामधमानां च पक्षिणाम्
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम्

MN DUTT: 04-006-016

मेरुरुत्तममध्यानामधमानां च पक्षिणाम्
अविशेषकरो यस्मात् तस्मादेनं त्यजाम्यहम्

M. N. Dutt: "I shall go away from this mountain, because there is no difference there between good, indifferent and bad birds".

BORI CE: 06-007-014

तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम्

MN DUTT: 04-006-017

तमादित्योऽनुपर्येति सततं ज्योतिषां वरः
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः

M. N. Dutt: That foremost of luminaries, the sun, always goes round the Meru, so does the moon with his attendant constellations so does also Vayu.

BORI CE: 06-007-015

स पर्वतो महाराज दिव्यपुष्पफलान्वितः
भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः

MN DUTT: 04-006-018

स पर्वतो महाराज दिव्यपुष्पफलान्वितः
भवनैरावृतः सर्वैर्जाम्बूनदपरिष्कृतैः

M. N. Dutt: O king, that mountain possesses celestial fruits and flowers; it is covered all over with houses made of burnished gold.

BORI CE: 06-007-016

तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः

MN DUTT: 04-006-019

तत्र देवगणा राजन् गन्धर्वासुरराक्षसाः
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा

M. N. Dutt: O king, there on that mountain the celestial, the Gandharvas, the Asuras and the Rakshasas with the Apasaras always come to sport.

BORI CE: 06-007-017

तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः

MN DUTT: 04-006-020

तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः

M. N. Dutt: There Brahma, Rudra, and Shakra the lord of the celestial, meet together and perform various kinds of sacrifices with large Dakshinas.

BORI CE: 06-007-018

तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः
अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो

MN DUTT: 04-006-021

तुम्बुरु रदश्चैव विश्वावसुर्हहा हुहूः
अभिगम्यामरश्रेष्ठांस्तुष्टुवुर्विविधैः स्तवैः

M. N. Dutt: Tamburu, and Narada, Vishvavasu and the Hahas and the Huhus went there and adored the foremost of the celestial with various hymns.

BORI CE: 06-007-019

सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि

MN DUTT: 04-006-022

सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि

M. N. Dutt: The illustrious seven Rishis and Kashyapa, the lord of creatures, go there on every Parva day.

BORI CE: 06-007-020

तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते
तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः

MN DUTT: 04-006-023

तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते
इमानि तस्य रत्नानि तस्येमे रत्नपर्वताः

M. N. Dutt: On the summit of that mountain, Ushanas, otherwise called the Poet, sports with the Dailyas. The jewels and gems and all precious stones belong to Meru.

BORI CE: 06-007-021

तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति

MN DUTT: 04-006-024

तस्मात् कुबेरो भगवांश्चतुर्थं भागमश्नुते
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति

M. N. Dutt: A fourth part of them is enjoyed by Kubera. Only a sixteenth part he gives away to men to be enjoyed by them.

BORI CE: 06-007-022

पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम्
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम्

MN DUTT: 04-006-025

पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमैश्चितम्
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम्

M. N. Dutt: On the northern side of Meru there is a charming and beautiful forest of Karnikaras. It is ever covered with the flowers of every season. It occupies a range of hills.

BORI CE: 06-007-023

तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः
उमासहायो भगवान्रमते भूतभावनः

MN DUTT: 04-006-026

तत्र साक्षात् पशुपतिर्दिव्यैर्भूतैः समावृतः
उमासहायो भगवान् रमते भूतभावनः

M. N. Dutt: There sports the illustrious Pashupati, the creator of all things, surrounded by his celestial attendants and accompanied by Uma.

BORI CE: 06-007-024

कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम्
त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः

MN DUTT: 04-006-027

कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम्
त्रिभित्रैः कृतोद्योतस्त्रिभिः सूर्यैरिवोदितैः

M. N. Dutt: He wears a garland of Karnikars flowers round his neck which reaches down his feet and which blazes with radiance with his three eyes resembling three suns.

BORI CE: 06-007-025

तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः
पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः

MN DUTT: 04-006-028

तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः
पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः

M. N. Dutt: The Siddhas who are truthful, who are of excellent vows and austere asceticism can see him. Maheshvara is incapable of being seen by men of bad conduct.

BORI CE: 06-007-026

तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर
त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना

BORI CE: 06-007-027

पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा
पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः

BORI CE: 06-007-028

तां धारयामास पुरा दुर्धरां पर्वतैरपि
शतं वर्षसहस्राणां शिरसा वै महेश्वरः

BORI CE: 06-007-029

मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते
जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः

BORI CE: 06-007-030

आयुर्दश सहस्राणि वर्षाणां तत्र भारत
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः

BORI CE: 06-007-031

अनामया वीतशोका नित्यं मुदितमानसाः
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः

BORI CE: 06-007-032

गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः
संवृतोऽप्सरसां संघैर्मोदते गुह्यकाधिपः

MN DUTT: 04-006-029

तस्य शैलस्य शिखरात् क्षीरधारा नरेश्वर
विश्वरूपापरिमिता भीमनिर्घातनि:स्वनः
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा
प्लवन्तीव प्रवेगेन ह्रदे चन्द्रमसः शुभे

MN DUTT: 04-006-030

तया ह्युत्पादित: पुण्यः स ह्रदः सागरोपमः
तां धारयामास तदा दुर्धरा पर्वतैरपि
शतं वर्षसहस्राणां शिरसैव पिनाकधूक्
मरोस्तु पश्चिमे भागे केतुमालो महीपते

MN DUTT: 04-006-031

जम्बूखण्डस्तु तत्रैव सुमहान् नन्दनोयमः
आयुर्दश सहस्राणि वर्षाणां तत्र भारत

MN DUTT: 04-006-032

सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः
अनामया वीतशोका नित्यं मुदितमानसाः

MN DUTT: 04-006-033

जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः
गन्धमादनशृङ्गेयु कुबेरः सह राक्षसैः
संवृतोऽप्सरसा सङ्घर्मोदते गुह्यकाधिपः
गन्धमादनपादेषु परेष्वपरगण्डिकाः

M. N. Dutt: O king, from the summit of that mountain issues forth like a stream of milk the sacred and immeasurable Ganga of universal form resorted to by the pious. She falls with great force and fearful noise in the charming lake of Chandramas. That sacred lake like an ocean has been formed by Ganga herself. Ganga, incapable of being held by even the mountains, was held for one thousand years by the wilder of Pinaka on his head. O king, on the western side of the Meru is Ketumala. Here is also Jambukhanda, O king, which is greatly populated. O descendant of Bharata, the length of human life there is ten thousand years. The men are of golden complexion. Women are all like Apsaras. All the persons are without sickness, and grief, and are always cheerful. The men born there possess effulgence like that of the melted gold. On the Gandhamadana the lord of Guhyakas, Kubera, with many Rakshasas and Apsaras passes his time in happiness. By the sides of the Gandhamadana there are many smaller mountains and hills.

BORI CE: 06-007-033

गन्धमादनपादेषु परेष्वपरगण्डिकाः
एकादश सहस्राणि वर्षाणां परमायुषः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-007-034

तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः
स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः

MN DUTT: 04-006-034

तत्र हृष्टा नरा राजंस्तेजोयुक्ता महाबलाः
स्त्रियश्चोत्पलवर्णाभाः सर्वाः सुप्रियदर्शनाः

M. N. Dutt: The length of human life there is eleven thousand years. O king, the men there are cheerful, and possess great energy and great strength. The women are all of the complexion of the lotus. They are exceedingly beautiful.

BORI CE: 06-007-035

नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम्
वर्षमैरावतं नाम ततः शृङ्गवतः परम्

MN DUTT: 04-006-035

नीलात् परतरं श्वेतं श्वेताद्धैरण्यकं परम्
वर्षमैरावतं राजन् नानाजनपदावृतम्

M. N. Dutt: Beyond the Nila (mountain) is Shveta; beyond Shveta is Hiranyaka, beyond Hiranyaka is Airavata abounding in many countries.

BORI CE: 06-007-036

धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे
इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह

MN DUTT: 04-006-036

धनु:संस्थे महाराज द्वे वर्षे दक्षिणोत्तरे
इलावृतं मध्यमं तु पञ्च वर्षाणि चैव हि

M. N. Dutt: O king, the last Varsha in the north and Bharata Varsha in the south are both of the form of a bow. Ilavrita is situated in the very middle of the five Varshas.

BORI CE: 06-007-037

उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः
आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः

MN DUTT: 04-006-037

उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः
आयुःप्रमाणमारोग्यं धर्मतः कामतोऽर्थतः

M. N. Dutt: Amongst these seven Varshas, the one that is furthest north excels the one immediate south to it as regards its many features such as the length of life, stature, wealth, piety, pleasure and profit.

BORI CE: 06-007-038

समन्वितानि भूतानि तेषु वर्षेषु भारत
एवमेषा महाराज पर्वतैः पृथिवी चिता

MN DUTT: 04-006-038

समन्वितानि भूतानि तेषु वर्षेषु भारत
एवमेषा महाराज पर्वतैः पृथिवी चिता

M. N. Dutt: O descendant of Bharata, in these Varshas, creatures all live together. O king, the earth is thus covered with mountains.

BORI CE: 06-007-039

हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः
यत्र वैश्रवणो राजा गुह्यकैः सह मोदते

MN DUTT: 04-006-039

हेमकूटस्तु सुमहान् कैलासो नाम पर्वतः
यत्र वैश्रवणो राजन् गुह्यकैः सह मोदते

M. N. Dutt: The great mountain of Hemakuta is also called Kailasa where, ( king, Vaishravana delightedly sports with his Guhyakas.

BORI CE: 06-007-040

अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति
हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः

MN DUTT: 04-006-040

अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति
हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः

M. N. Dutt: Immediately north of Kailasa and near the mountain Mainaka, there is a great and beautiful mountain called Manimeya which possesses golden peaks.

BORI CE: 06-007-041

तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम्
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः

MN DUTT: 04-006-041

तस्य पार्श्वे महद् दिव्यं शुभं काञ्चनवालुकम्
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथ
द्रष्टुं भागीरथीं गङ्गामुवास बहुलाः समाः
यूपा मणिमयास्तत्र चैत्याचापि हिरण्मयाः

M. N. Dutt: Near this mountain there is a large, celestial and delightful lake called Bindusara with golden sands. There king Bhagiratha, seeing Ganga who is called after his name, lived for many years. There are innumerable sacrificial stakes made of gems and Chaitya trees made of gold.

BORI CE: 06-007-042

यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-006-042

तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः
स्रष्टा भूतपतिर्यत्र सर्वलोकैः सनातनः

M. N. Dutt: It was there that of greatly renowned Indra obtained success by performing sacrifices. There the lord of all creatures, the eternal creator of all the worlds.

BORI CE: 06-007-043

सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः
उपास्यते तिग्मतेजा वृतो भूतैः समागतैः
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः

MN DUTT: 04-006-043

उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः

M. N. Dutt: Endued with supreme energy, surrounded by his ghostly attendants, is adored. There Nara and Narayana and Brahma and Manu and Sthanu are ever present.

BORI CE: 06-007-044

तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते

BORI CE: 06-007-045

वस्वोकसारा नलिनी पावना च सरस्वती
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी

MN DUTT: 04-006-044

तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते
वस्वोकसारा नलिनी पावनी च सरस्वती
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी

M. N. Dutt: There the celestial river Ganga, of three currents, issues out of the region of Brahima. There she first appeared. Then dividing herself into seven streams she became Vasvokasara, Nalini, the sin-cleansing Sarasvati, Jambunadi, Sita, Ganga and Sindhu.

BORI CE: 06-007-046

अचिन्त्या दिव्यसंकल्पा प्रभोरेषैव संविधिः
उपासते यत्र सत्रं सहस्रयुगपर्यये

MN DUTT: 04-006-045

अचिन्त्या दिव्यसंकाशा प्रभोरेषैव संविधिः
उपासते यत्र सत्रं सहस्रयुगपर्यये

M. N. Dutt: The supreme lord has himself made all the arrangements as regards this inconceivable and celestial river. It is there that sacrifices have been performed on thousand of occasions at the revolution of the Yugas.

BORI CE: 06-007-047

दृश्यादृश्या च भवति तत्र तत्र सरस्वती
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः

MN DUTT: 04-006-046

दृश्यादृश्या च भवति तत्र तत्र सरस्वती
एता दिव्याः सप्तगङ्गास्त्रिषु लोकेषु विश्रुताः

M. N. Dutt: As regards the Sarasvati, in some parts she becomes visible and in some parts she disappears. This celestial seven Gangas is known all over the three worlds.

BORI CE: 06-007-048

रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः
सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः

MN DUTT: 04-006-047

रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः
सर्प नागाश्च निषधे गोकर्णं च तपोवनम्

M. N. Dutt: The Rakshasas live on the Himavat, the Guhyakas on Hemakuta and the Nagas on the Nishadha and the ascetics on the Gokarna.

BORI CE: 06-007-049

देवासुराणां च गृहं श्वेतः पर्वत उच्यते
गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप
शृङ्गवांस्तु महाराज पितॄणां प्रतिसंचरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-006-048

देवासुराणां सर्वेषां श्वेतपर्वत उच्यते
गन्धर्वा निषधे नित्यं नीले ब्रह्मपर्यस्तथा

M. N. Dutt: The Shveta mountain is said to be the abode of the celestial and celestial and the Asuras. The Gandharvas live on the Nishadha and the Brahmana Rishis on the Nila.

Corresponding verse not found in BORI CE

MN DUTT: 04-006-049

शृङ्गवांस्तु महाराज देवानां प्रतिसंचरः
इत्येतानि महाराज सप्त वर्षाणि भागशः

M. N. Dutt: The mountain of Shringavat is considered to be the resort of the celestial. O king of kings, these are the seven Varshas of the world as they are divided.

BORI CE: 06-007-050

इत्येतानि महाराज सप्त वर्षाणि भागशः
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च

BORI CE: 06-007-051

तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी
अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता

BORI CE: 06-007-052

यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम्
पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे
कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च

BORI CE: 06-007-053

ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम्

MN DUTT: 04-006-049

शृङ्गवांस्तु महाराज देवानां प्रतिसंचरः
इत्येतानि महाराज सप्त वर्षाणि भागशः

MN DUTT: 04-006-050

भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी

MN DUTT: 04-006-051

अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता
यां तु पृच्छसि मां राजन् दिव्यामेतां शशाकृतिम्

MN DUTT: 04-006-052

पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे
कर्णौ तु नागद्वीपश्च काश्यपद्वीप एव च
ताम्रपर्णः शिरो राजञ्छीमान् मलयपर्वतः
एतद् द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम्

M. N. Dutt: The mountain of Shringavat is considered to be the resort of the celestial. O king of kings, these are the seven Varshas of the world as they are divided. Various mobile and immobile creatures are all placed in them. Various sorts of prosperity, both providential and human are noticeable in them. They cannot be counted. Those that are desirous of their own welfare believe in all this. I have now narrated to you the delightful region that is in the form of a hare which you asked me. At the end of the region are the two Varshas, namely one on the north and the other on the south. Then again the two islands Nagadvipa and Kashyapadvipa are the two cars of this region of the form of a hare. O king, the beautiful mountain of Malaya, with stones like plates of copper, forms the second part of Jambudvipa. This makes it look like a hare.

Home | About | Back to Book 06 Contents | ← Chapter 6 | Chapter 8 →