Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 023

BORI CE: 06-023-001

धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
मामकाः पाण्डवाश्चैव किमकुर्वत संजय

MN DUTT: 04-026-001

धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
मामकाः पाण्डवाश्चैव किमकुर्वत संजय

M. N. Dutt: Dhritarashtra said What did my sons and the Pandava do, o Sanjaya, when desirous of battle they all assembled on the holy field of Kurukshetra?

BORI CE: 06-023-002

संजय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा
आचार्यमुपसंगम्य राजा वचनमब्रवीत्

MN DUTT: 04-026-002

संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा
आचार्यमुपसंगम्य राजा वचनमब्रवीत्

M. N. Dutt: Sanjaya said Seeing the Pandava army in battle array,

BORI CE: 06-023-003

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता

MN DUTT: 04-026-003

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्
व्यूढां दुपदपुत्रेण तव शिष्येण धीमता

M. N. Dutt: “Behold, O Preceptor, the grand army of the Pandavas, drawn up in battle array by your intelligent pupil the son of Drupada.

BORI CE: 06-023-004

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि
युयुधानो विराटश्च द्रुपदश्च महारथः

MN DUTT: 04-026-004

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि
युयुधानो विराटश्च दुपदश्च महारथः

M. N. Dutt: There are in it mighty bowmen, equals of Bhima and Arjuna in battle. There are Yudhishthira, Virata and the great car-warrior Drupada.

BORI CE: 06-023-005

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः

MN DUTT: 04-026-005

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्
पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः

M. N. Dutt: There are Dhrishtaketu, Chekitan and valiant king of Kashi, Purujit, Kuntibhoja and that kings of men, Shaivya.

BORI CE: 06-023-006

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः

MN DUTT: 04-026-006

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः

M. N. Dutt: There are mighty Yudhamanyu, heroic Uttamaujas, Subhadra's son and sons of Draupadi, all great car-warriors.

BORI CE: 06-023-007

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते

MN DUTT: 04-026-007

अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते

M. N. Dutt: O best of Brahmanas, learn, I shall tell you also for your information who are the most distinguished amongst us, and who are the leaders of my army.

BORI CE: 06-023-008

भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च

MN DUTT: 04-026-008

भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च

M. N. Dutt: Yourself, and Bhishma, and Karna, and ever-victorious Kripa, Ashvatthama, Vikarna and the son of Somadatta.

BORI CE: 06-023-009

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः

MN DUTT: 04-026-009

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः

M. N. Dutt: There are (besides these) many warriors, all well-skilled in the art of war and (all) armed with various weapons, ready to die for me.

BORI CE: 06-023-010

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्

MN DUTT: 04-026-010

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्

M. N. Dutt: Our army protected by Bhishma is unlimited (more then sufficient) their army protected by Bhima is limited, (may be sufficient).

BORI CE: 06-023-011

अयनेषु च सर्वेषु यथाभागमवस्थिताः
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि

MN DUTT: 04-026-011

अयनेषु च सर्वेषु यथाभागमवस्थिताः
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि

M. N. Dutt: Therefore all of you, place yourselves at the head of your respective phalanx, and protect (and support) Bhishma only".

BORI CE: 06-023-012

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्

MN DUTT: 04-026-012

तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः
सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान्

M. N. Dutt: Then the older of the Kurus, the mighty Grandsire Bhishma, roaring like a lion, blew his conch, thus affording him (Duryodhana) great delight.

BORI CE: 06-023-013

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्

MN DUTT: 04-026-013

ततः शङ्खच भेर्यश्च पणवानकगोमुखाः
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्

M. N. Dutt: And then conchs, drums, trumpets and cymbals were all at once sounded, and there rose a great uproar (from all sides).

BORI CE: 06-023-014

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः

MN DUTT: 04-026-014

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः

M. N. Dutt: Then Madhava (Srikrishna) and the son of Pandu (Arjuna), seated in a great car yoked with white steeds, blew their celestial conchs.

BORI CE: 06-023-015

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः

MN DUTT: 04-026-015

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः
पौण्ड्रं दध्मौ महाशङ्ख भीमकर्मा वृकोदरः

M. N. Dutt: Hrishikesha blew the Panchajanya, Dhananjaya, Devadatta, and the doer of fearful deeds, Bhima his great conch Paundra.

BORI CE: 06-023-016

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ

MN DUTT: 04-026-016

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ

M. N. Dutt: The son of Kunti, king Yudhishthira, Ananta Vijaya and Nakula and Sahadeva Sughosha and Mani Pushpaka respectively.

BORI CE: 06-023-017

काश्यश्च परमेष्वासः शिखण्डी च महारथः
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः

MN DUTT: 04-026-017

काश्यश्च परमेष्वासः शिखण्डी च महारथः
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः

M. N. Dutt: The great bowman the king of Kashi the mighty car warrior Shikhandin, Dhrishtadyumna, Virata, and ever-victorious Satyaki.

BORI CE: 06-023-018

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्

MN DUTT: 04-026-018

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते
सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्

M. N. Dutt: Drupada, and the sons of Draupadi and the mighty armed son of Subhadra, O king of all the world, each blew his conch separately.

BORI CE: 06-023-019

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्

MN DUTT: 04-026-019

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्

M. N. Dutt: Echoing heaven and earth, the tumultous din rent the hearts of Dhritarashtra's people.

BORI CE: 06-023-020

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः

MN DUTT: 04-026-020

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः
हृषीकेशं तदा वाक्यमिदमाह महीपते

M. N. Dutt: O king of the world, the ape standard son of Pandu secing Dhritarashtra's people marshalled in battle bent, and missiles having been just began to be discharged, raised up his bow, and spoke thus to Hrishikesh :

BORI CE: 06-023-021

हृषीकेशं तदा वाक्यमिदमाह महीपते
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-023-022

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान्
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे

MN DUTT: 04-026-021

अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत
यावदेतान् निरीक्षेऽहं योद्धकामानवस्थितान्
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे

M. N. Dutt: "O undeteriorating one, place my car between the two armies. While I see those who stand here desirous of battle, and with whom I shall have to fight in this war-struggle.

BORI CE: 06-023-023

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः

MN DUTT: 04-026-022

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः
धार्तराष्ट्रस्य दुर्बुद्धेयुद्धे प्रियचिकीर्षवः

M. N. Dutt: I shall see those who have assembled here to fight, wishing to do good to the evil-minded son of Dhritarashtra.

BORI CE: 06-023-024

एवमुक्तो हृषीकेशो गुडाकेशेन भारत
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्

MN DUTT: 04-026-023

संजय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्

M. N. Dutt: Sanjaya said O Bharata, thus addressed by Gudakesha (Arjuna), Hrishikesh, placing the excellent car between the two armies.

BORI CE: 06-023-025

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति

MN DUTT: 04-026-024

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति

M. N. Dutt: In front of Bhishma, Drona and all the kings of the earth, said, “Behold Partha, the assembled Kaurava".

BORI CE: 06-023-026

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा

MN DUTT: 04-026-025

तत्रापश्यत् स्थितान् पार्थः पितृनथ पितामहान्
आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखींस्तथा

M. N. Dutt: Partha saw in the two armies fathers, grandfathers, preceptors, maternal uncles, brothers, sons, grandsons, friends, fathers-in-law, and well-wishers.

BORI CE: 06-023-027

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्

MN DUTT: 04-026-026

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान्
कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्

M. N. Dutt: Seeing in the two armies all friends and Kinsmen (present), the son of Kunti was ency said.

BORI CE: 06-023-028

कृपया परयाविष्टो विषीदन्निदमब्रवीत्
दृष्ट्वेमान्स्वजनान्कृष्ण युयुत्सून्समवस्थितान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-026-027

अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सु समुपस्थितम्
सीदन्ति मम गात्राणि मुखं च परिशुष्यति

M. N. Dutt: "Seeing, O Hrishikesh, these kinsmen present here with the desire to do battle my limbs are languid, my mouth is dried up.

BORI CE: 06-023-029

सीदन्ति मम गात्राणि मुखं च परिशुष्यति
वेपथुश्च शरीरे मे रोमहर्षश्च जायते

BORI CE: 06-023-030

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः

BORI CE: 06-023-031

निमित्तानि च पश्यामि विपरीतानि केशव
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे

BORI CE: 06-023-032

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा

BORI CE: 06-023-033

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च

BORI CE: 06-023-034

आचार्याः पितरः पुत्रास्तथैव च पितामहाः
मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा

BORI CE: 06-023-035

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते

MN DUTT: 04-026-027

अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सु समुपस्थितम्
सीदन्ति मम गात्राणि मुखं च परिशुष्यति

MN DUTT: 04-026-028

वेपथुश्च शरीरे मे रोमहर्षश्च जायते
गाण्डीवं स्रंसते हस्तांत् त्वक् चैव परिदह्यते

MN DUTT: 04-026-029

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः
निमित्तानि च पश्यामि विपरीतानि केशव

MN DUTT: 04-026-030

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे
न काक्षे विजयं कृष्ण न च राज्यं सुखानि च

MN DUTT: 04-026-031

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा
येषामर्थे काक्षितं नो राज्यं भोगाः सुखानि च

MN DUTT: 04-026-032

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च
आचार्याः पितरः पुत्रास्तथैव च पितामहाः
मातुलाः श्वशुराः पौत्रा: स्याला: सम्बन्धिनस्तथा
एतान् न हन्तुमिच्छामि नतोऽपि मधुसूदन

MN DUTT: 04-026-033

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन

M. N. Dutt: "Seeing, O Hrishikesh, these kinsmen present here with the desire to do battle my limbs are languid, my mouth is dried up. My body trembles, my hairs stand on end, my Gandiva (bow) slips from my hand and my skin burns. I am unable to stand, my mind is whirling and I see, O Keshava, evil omens. I don't see any good by killing kinsmen in this battle. I desire, O Krishna, neither victory nor sovereignty, nor pleasures. What is sovereignty, what is enjoyment, what is even.life to us, O Govinda when those, for whose sake we wish to have sovereignty, enjoyments and pleasures (in this world). Are all present here in this battle, giving up all hopes of life and wealth! Preceptors, fathers, grand-fathers and sons, Maternal uncles, fathers-in-law, grandsons, brothers-inlaw and relatives, I do not desire to kill them. O Madhusudana, even if they kill me. Not even for the sake of the sovereignty over the three worlds, much less for that of this earth! What pleasure will be ours, O Janardana, by killing Dhritarashtra's sons!

BORI CE: 06-023-036

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-023-037

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान्
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव

MN DUTT: 04-026-034

पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः
तस्मानार्दा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव

M. N. Dutt: Even killing these felons, we shall incur sin. Therefore, it is not proper that we shall kill our own kinsmen, these sons of Dhritarashtra. How can we, O Madhava, be happy by killing our own relatives?

BORI CE: 06-023-038

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्

MN DUTT: 04-026-035

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्

M. N. Dutt: If they, blinded by avarice, cannot see the sin they commit by exterminating the (Kuru) race, and playing enmity with friends.

BORI CE: 06-023-039

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन

MN DUTT: 04-026-036

कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितुम्
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन

M. N. Dutt: Why should we not, O Janardana who know that sin is the result of exterminating the race, learn to desist from it?

BORI CE: 06-023-040

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत

MN DUTT: 04-026-037

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत

M. N. Dutt: On the extinction of a family, the old and ever continuing family rites are destroyed), nobody being alive to solemnize them). When religious rites are thus destroyed, sin predominates over all.

BORI CE: 06-023-041

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः

MN DUTT: 04-026-038

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः

M. N. Dutt: From the predominance of sin, O Krishna, women become corrupt, and then O descendant of Vrishni, cross-breeds (mixed-castes) are borm.

BORI CE: 06-023-042

संकरो नरकायैव कुलघ्नानां कुलस्य च
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः

MN DUTT: 04-026-039

संकरो नरकायैव कुलमानां कुलस्य च
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः

M. N. Dutt: Such cross-breeding leads both the exterminator of the race and the race itself to hell. The (deceased) ancestors whose Sraddha ceremonies have ceased, (to whom children have stopped to give food and water), fall (from heaven to hell).

BORI CE: 06-023-043

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः

MN DUTT: 04-026-040

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः

M. N. Dutt: Both the caste and family-rites of the exterminators of the race, (who are) guilty of the sin of cross-breeding, are destroyed.

BORI CE: 06-023-044

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
नरके नियतं वासो भवतीत्यनुशुश्रुम

MN DUTT: 04-026-041

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
नरके नियतं वासो भवतीत्यनुशुश्रुम

M. N. Dutt: We have heard, O Janardana, that those whose family-rites are thus destroyed, live for ever in hell.

BORI CE: 06-023-045

अहो बत महत्पापं कर्तुं व्यवसिता वयम्
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः

MN DUTT: 04-026-042

अहो बत महत्पापं कर्तुं व्यवसिता वयम्
यद् राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः

M. N. Dutt: Alas, we are engaged in committing a great sin. We are to kill our own kinsmen for the greed of the pleasures of sovereignty.

BORI CE: 06-023-046

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्

MN DUTT: 04-026-043

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्

M. N. Dutt: Better would it be if unretaliating and unarmed myself, the armed sons of Dhritarashtra kill in battle".

BORI CE: 06-023-047

एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत्
विसृज्य सशरं चापं शोकसंविग्नमानसः

MN DUTT: 04-026-044

संजय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत्
विसृज्य सशरं चापं शोकसंविग्नमानसः

M. N. Dutt: Sanjaya said Having thus spoken on the field of battle, Arjuna, with a sorrowful heart, sat down on the car, casting aside his bow and arrows.

Home | About | Back to Book 06 Contents | ← Chapter 22 | Chapter 24 →