Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 07 – Chapter 162

BORI CE: 07-162-001

संजय उवाच
ते तथैव महाराज दंशिता रणमूर्धनि
संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे

MN DUTT: 05-188-001

संजय उवाच ते तथैव महाराज दंशिता रणमूर्धनि
संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे

M. N. Dutt: Sanjaya said The warriors then, O monarch, clad as they were in coats of mail, worshipped the sun of thousand rays as he made its appearance on the morning sky.

BORI CE: 07-162-002

उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत

MN DUTT: 05-188-002

उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे
प्रकाशितेषु लोकेषु पुनयुद्धमवर्तत

M. N. Dutt: Upon the rise of the thousand-rayed sun of the effulgence of heated gold and upon the illumination of the world, battle raged anew.

BORI CE: 07-162-003

द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात्
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत

MN DUTT: 05-188-003

द्वन्द्वानि तत्र यान्यासन् संसक्तानि पुरोदयात्
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत

M. N. Dutt: The same soldiers, that were engaged with one another before sun rise, once more fought with each other, OBharata, after the sun rise.

BORI CE: 07-162-004

रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः
हया हयैः समाजग्मुः पादाताश्च पदातिभिः
संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे

MN DUTT: 05-188-004

स्थैर्हया हयैर्नागाः पादातैश्चापि कुञ्जराः
हयैर्हयाः समाजग्मुः पादाताश्च पदातिभिः

M. N. Dutt: Horsemen fought with car-warriors and elephants with horsemen and foot-soldier with elephants and horsemen with horsemen and infantry with infantry.

Corresponding verse not found in BORI CE

MN DUTT: 05-188-005

रथा रथैरिभैर्नागास्तथैव भरतर्षभ
संसक्ताश्च वियुक्ताक्ष योधाः संन्यपतन् रणे

M. N. Dutt: Car-warriors with car-warriors elephants with elephants, horsemen with horse men O foremost of the Bharatas, Sometimes, in a body and sometimes individually, the warriors assailed one another in battle.

BORI CE: 07-162-005

ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा
क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन्

MN DUTT: 05-188-006

ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा
क्षत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन्

M. N. Dutt: Having fought hard during the previous night many combatants, worn out with toil and weak with hunger and thirst, lost their senses in a swoon.

BORI CE: 07-162-006

शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम्
विस्फारितविकृष्टानां कार्मुकाणां च कूजताम्

BORI CE: 07-162-007

शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ
द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम्

MN DUTT: 05-188-007

शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम्
विस्फारितविकृष्टानां कार्मुकाणां च कूजताम्
शब्दः समभवद् राजन् दिविस्पृग् भरतर्षभ
द्रवतां च पदातीनां शस्त्राणां पततामपि

M. N. Dutt: The noise, O foremost of the Bharata race, created by the blowing of conchs, the bear of drums, the roar of elephants and the twang of bows stretched with force, reached the very heavens, O monarch. The tumult, made also by running foot-soldiers and falling weapons.

BORI CE: 07-162-008

हयानां हेषतां चैव रथानां च निवर्तताम्
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत्

MN DUTT: 05-188-008

हयानां द्वेषतां चापि रथानां च निवर्तताम्
क्रोशतां गर्जतां चैव तदाऽऽसीत् तुमुलं महत्

M. N. Dutt: And neighing steeds and rattling chariots and shouting and challenging warriors, became tremendous.

BORI CE: 07-162-009

विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः

BORI CE: 07-162-010

भूमावश्रूयत महांस्तदासीत्कृपणं महत्
पततां पतितानां च पत्त्यश्वरथहस्तिनाम्

MN DUTT: 05-188-009

विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महांस्तदा
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः
भूमावश्रूयत महांस्तदाऽऽसीत् कृपणं महत्
पततां पात्यमानानां पत्त्यश्वरथदन्तिनाम्

M. N. Dutt: That tremendous din, momentarily increasing, touched the very heavens. The moans and groans of pain, uttered by falling and fallen foot-soldiers and car-warriors and elephants, became exceedingly loud and pitiable as they were heard on the field.

BORI CE: 07-162-011

तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे

MN DUTT: 05-188-010

तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः
स्वे परे स्वांश्च स्वान् परेषां परे परान्

M. N. Dutt: When the divisions were inter-mingled and confused, both sides slew each other and also their own men.

BORI CE: 07-162-012

वीरबाहुविसृष्टाश्च योधेषु च गजेषु च
असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव

MN DUTT: 05-188-011

वीरबाहुविमृष्टाश्च योधेषु च गजेषु च
राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव

M. N. Dutt: Swords, hurled by the hands of heroic warriors upon combatants and elephants, in large heaps, were seen on the field, like cloths on the washing ground.

BORI CE: 07-162-013

उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः
स एव शब्दस्तद्रूपो वाससां निज्यतामिव

MN DUTT: 05-188-012

उद्यतप्रतिपिष्टानां खङ्गानां वीरबाहुभिः
स एव शब्दस्तद्रूपो वाससां निज्यतामिव

M. N. Dutt: The whizz, of lifted and descending swords, wielded by the arms of heroes, resembled that of clothes thrashed for wash.

BORI CE: 07-162-014

अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम्

MN DUTT: 05-188-013

अर्धासिभिस्तथा खड्नेस्तोमरैः सपरश्वधैः
निकृष्टयुद्धं संसक्तं महदासीत् सुदारुणम्

M. N. Dutt: Then that general engagement, in which the warriors encountered one another with swords and scimitars and lances and battle, axes, became extremely terrible.

BORI CE: 07-162-015

गजाश्वकायप्रभवां नरदेहप्रवाहिनीम्
शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम्

BORI CE: 07-162-016

आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम्
नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम्

MN DUTT: 05-188-014

गजाश्वकायप्रभवां नरदेहप्रवाहिनीम्
शस्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम्
आर्तनादस्वनवतीं पताकाशस्रफेनिलाम्
नदीं प्रावर्तयन् वीराः परलोकौघगामिनीम्

M. N. Dutt: The brave warriors then caused a river to flow there towards the region of the departed; the blood of elephants and steeds and human beings constituted its currents. Weapons constituted the large number of blood and flesh. Wails of grief and pain constituted its murmuring sound. Banners and cloths constituted its foam.

BORI CE: 07-162-017

शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः
संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः

MN DUTT: 05-188-015

शरशक्त्यर्दिताः कान्ता रात्रिमूढाल्पचेतसः
विष्टभ्य सर्वगात्राणि व्यतिष्ठन् गजवाजिनः

M. N. Dutt: Afflicted with shafts and arrows, tired with fatigue, worn out with exertion of the previous night and robbed of their strength, elephants and horses, stood on the field utterly incapable of moving their limbs.

Corresponding verse not found in BORI CE

MN DUTT: 05-188-016

बाहुभिः कवचैश्चिवैः शिरोभिश्चारुकुण्डलैः
युद्धोपकरणैश्चान्यैस्तत्र तत्र चकाशिरे

M. N. Dutt: Heroes, with pale countenances and with head graced with charming ear-rings and armed with the implements of war, appeared extremely resplendent.

BORI CE: 07-162-018

युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः
क्रव्यादसंघैराकीर्णं मृतैरर्धमृतैरपि
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति

MN DUTT: 05-188-017

क्रव्यादसङ्घराकीर्णं मृतैरर्धमृतैरपि
नासीद् रथपथस्तत्र सर्वमायोधनं प्रति

M. N. Dutt: On the field infested with carnivorous animals and obstructed with the dead and the dying there was no space for the cars to move.

BORI CE: 07-162-019

मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः
कथंचिदवहञ्श्रान्ता वेपमानाः शरार्दिताः
कुलसत्त्वबलोपेता वाजिनो वारणोपमाः

MN DUTT: 05-188-018

मज्जत्सु चक्रेषु रथान् सत्त्वमास्थाय वाजिनः
कथंचिदवहश्रान्ता वेपमानाः शरार्दिताः

M. N. Dutt: The wheels of cars being thus entangled, the steeds, yoked thereto, with great effort dragged them although they were tired and trembling and afflicted with arrows.

BORI CE: 07-162-020

विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम्
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ

BORI CE: 07-162-021

तावेवास्तां निलयनं तावार्तायनमेव च
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम्

BORI CE: 07-162-022

आविग्नमभवत्सर्वं कौरवाणां महद्बलम्
पाञ्चालानां च संसक्तं न प्राज्ञायत किंचन

BORI CE: 07-162-023

अन्तकाक्रीडसदृशे भीरूणां भयवर्धने
पृथिव्यां राजवंशानामुत्थिते महति क्षये

BORI CE: 07-162-024

न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम्
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम्

BORI CE: 07-162-025

न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ
न कृपं मद्रराजं वा कृतवर्माणमेव च

BORI CE: 07-162-026

न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा
पश्याम राजन्संसक्तान्सैन्येन रजसावृतान्

BORI CE: 07-162-027

संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते
द्वितीयामिव संप्राप्ताममन्यन्त निशां तदा

BORI CE: 07-162-028

न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः
न दिशो न दिवं नोर्वीं न समं विषमं तथा

BORI CE: 07-162-029

हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान्
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः

BORI CE: 07-162-030

उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च
प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च

BORI CE: 07-162-031

तत्र नागा हया योधा रथिनोऽथ पदातयः
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः

BORI CE: 07-162-032

ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः

BORI CE: 07-162-033

दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः

BORI CE: 07-162-034

तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः
रथर्षभाणामुग्राणां संनिपातममानुषम्

BORI CE: 07-162-035

रथमार्गैर्विचित्रैश्च विचित्ररथसंकुलम्
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम्

BORI CE: 07-162-036

यतमानाः पराक्रान्ताः परस्परजिगीषवः
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन्

BORI CE: 07-162-037

ते रथान्सूर्यसंकाशानास्थिताः पुरुषर्षभाः
अशोभन्त यथा मेघाः शारदाः समुपस्थिताः

MN DUTT: 05-188-019

कुलसत्त्वबलोपेता वाजिनो वारणोपमाः
विह्वलं तूर्णमुद्भरान्तं सभयं भारतातुरम्
बलमासीत् तदा सर्वमृते द्रोणार्जुनावुभौ
तावेवास्तां निलयनं तावार्तायनमेव च

MN DUTT: 05-188-020

तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम्
आविग्नमभवत् सर्वं कौरवाणां महद् बलम्

MN DUTT: 05-188-021

पञ्चालानां च संसक्तं न प्राज्ञायत किंचन
अन्तकाक्रीडसदृशं भीरूणां भयवर्धनम्
पृथिव्यां राजवंश्यानामुत्थिते महति क्षये
न तत्र कर्णं द्रोणं वा नार्जुनं न युधिष्ठिरम्

MN DUTT: 05-188-022

न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम्
न च दुःशासनं द्रौणिं न दुर्योधनसौबलो

MN DUTT: 05-188-023

न कृपं मद्रराजं च कृतवर्माणमेव च
न चान्यान् नैव चात्मानं च क्षितिं न दिशस्तथा

MN DUTT: 05-188-024

पश्याम राजन् संसक्तान् सैन्येन रजसाऽऽवृतान्
सम्भ्रान्ते तुमुले घोरे रजोमेघ समुत्थिते

MN DUTT: 05-188-025

द्वितीयामिव सम्प्राप्ताममन्यन्त निशां तदा
न ज्ञायन्ते कौरवेया न पञ्चाला न पाण्डवाः

MN DUTT: 05-188-026

न दिशो द्यौर्न चोर्वी च न समं विषमं तथा
हस्तसंस्पर्शमापन्नान् परानप्यथवा स्वकान्
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः
उद्भूतत्वात् तु रजसः प्रसेकाच्छोणितस्य च
प्राशाम्यत रजो भौमं शीघ्रत्वादनिलस्य च
तत्र नागा हया योधा रथिनोऽथ पदातयः

MN DUTT: 05-188-027

पारिजातवनानीव व्यरोचन् रुधिरोक्षिताः
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत

MN DUTT: 05-188-028

वृकोदरेण राधेयो भारद्वाजेन चार्जुनः
तद् घोरं महदाश्चर्यं सर्वे प्रेक्षन्त सर्वतः

MN DUTT: 05-188-029

रथर्षभाणामुग्राणां संनिपातममानुषम्
रथमागैर्विचित्रैस्तैर्विचित्ररथसंकुलम्
अपश्यन् रथिनो युद्धं विचित्रं चित्रयोधिनाम्
यतमानाः पराक्रान्ताः परस्परजिगीषवः

MN DUTT: 05-188-030

जीमूता इव धर्मान्ते शरव(रवाकिरन्
ते रथान् सूर्यसंकाशानास्थिताः पुरुषर्षभाः

MN DUTT: 05-188-031

अशोभन्त यथा मेघाः शारदाश्चलविद्युतः
योधास्ते तु महाराज क्रोधामर्षसमन्विताः

M. N. Dutt: Those steeds moreover were of good breed and were endued with mettle and strength and resembled elephants in seize. Then the Bharata troops, resembling the ocean for its vastness, became affrighted and terrible agitated, save and exert Drona and Arjuna. They both then became the refuge and the protectors of the warriors of their respective sides. Meeting them both their opponents went to regions of Death. Then the mighty host of the Kurus became greatly agitated. And the Panchalas being intermingled with them, none could be distinguished. During the progress of that terrible carnage of the Kshatriyas on that field of battle, enhancing the fear of the cowards and resembling a crematorium, neither Karna, nor Drona, nor Arjuna, nor Yudhishthira. Nor Bhimasena, nor the twins Nakula and Sahadeva, nor the Panchala prince, nor Satyaki nor Dushasana, Drona's son, Duryodhana, nor Subala's son. Nor Kripa nor the ruler of the Madra, nor Kritavarman, nor others, nor my own self, nor the earth, nor the different quarters of heaven. nor nor nor Could be discerned, O king, in consequence of all of them being mingled with troops and covered by ciouds of dust. During the progress of that dreadful and fierce battle, when that dust-cloud arose. Every body thought that night had once more set in. Neither the Kouravas, nor the Panchalas, the Pandavas could be distinguished. Nor the quarters of heaven, nor the welkin, nor the earth, nor the undulations of land. The warriors, impelled by the thought of victory, slew friends and foes indiscriminately, in fact all whom they perceived by their touch. The dust that had arisen was very soon driven away by the winds that began to blow then and it wad quenched by the blood that shed profusely. Elephants, steeds, car-warriors and foot-soldiers. Steeped in blood, appeared beautiful like the celestial forest of the Parijata flowers. Thereafter Duryodhana, Karna, Drona and Dushasana engaged in battle with four Pandava warriors. Duryodhana and his brothers encountered twins (Nakula and Sahadeva). Radha's son encountered Vrikodara and Arjuna engaged with the son of Bharadvaja. All the soldiers then began to look on those marvelous and terrible encountered from all sides. The car-warriors of both sides, beheld that wonderful battle, that super-human engagement between those furious and excellent car-warriors all versed in the different modes of war, mounted on their respective chariots, that moved in various charming motions. Possessed of great prowess, exerting their best and each anxious to defeat the other. They then poured on each other showers of shafts, like clouds pouring rain at the end of summer. Those foremost of men, mounted on their cars of solar effulgence. Appeared beautiful like vast masses of clouds in the autumnal sky. Then those warriors, O mighty-monarch, inspired with rage and thought of rivenge.

BORI CE: 07-162-038

स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः
अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव

MN DUTT: 05-188-032

स्पर्धिनश्च महेष्वासाः कृतयला धनुर्धराः
अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव

M. N. Dutt: All proud and mighty bowmen, putting forth their greatest effort, rushed upon one another, like infuriate leaders of the herds of elephants.

BORI CE: 07-162-039

न नूनं देहभेदोऽस्ति काले तस्मिन्समागते
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः

MN DUTT: 05-188-033

न नूनं देहभेदोऽस्ति काले राजन्ननागते
यत्र सर्वे न युगपद् व्यशीर्यन्त महारथाः

M. N. Dutt: Indeed, O king, corporeal creatures do not forsake their corpus, until the proper hour comes, inasmuch as, O monarch, all those mighty car-warriors, though fighting hard, were not slain all together.

BORI CE: 07-162-040

बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः
कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः

MN DUTT: 05-188-034

बाहुभिश्चरणैच्छिन्नै: शिरोभिश्च सकुण्डलैः
कार्मुकैर्विशिखैः प्रासैः खङ्गैः परशुपट्टिशैः

M. N. Dutt: With lopped-off arms and legs with heads graced with charming ear-rings, with bows and arrows and lances and swords and axes and Pattiscs.

BORI CE: 07-162-041

नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः

MN DUTT: 05-188-035

नालीकैः क्षुद्रनाराचैर्नखरैः शक्तितोमरैः
अन्यैश्च विविधाकारैधौतैः प्रहरणोत्तमैः

M. N. Dutt: With Nalikas, Ksharvas, Narachas, nails, darts and Tomaras, with diverse other kinds of excellent weapons, of various shapes and well cleansed.

BORI CE: 07-162-042

चित्रैश्च विविधाकारैः शरीरावरणैरपि
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः

MN DUTT: 05-188-036

विचित्रविविधकारैः शरीरावरणैरपि
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः

M. N. Dutt: With wonderful cuirasses of different shapes, with charming chariots shattered, with slain horses and elephants.

BORI CE: 07-162-043

शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः

MN DUTT: 05-188-037

विचित्रैश्च नगराकारैर्हतयोधध्वजै रथैः
अमनुष्यैर्हयैस्रस्तैः कृष्यमाणैस्ततस्ततः

M. N. Dutt: With brave combatants slain, with standless and warriorless chariots looking like large cities, with vehicles dragged hither and thither by affrighted steeds having none to restrain them.

BORI CE: 07-162-044

वातायमानैरसकृद्धतवीरैरलंकृतैः
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः

MN DUTT: 05-188-038

वातायमानैरसकृद्धतवीरैरलङ्कतैः
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः

M. N. Dutt: In speed more then that of the wind, with countless warriors adorned with ornaments, with fans, with coats of mail, with overthrown standards.

BORI CE: 07-162-045

छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः

MN DUTT: 05-188-039

छत्रैराभरणैर्वस्त्रैर्माल्यैश्च ससुगन्धिभिः
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः

M. N. Dutt: With umbrellas, with ornaments, garments and perfumeries with chains and diadems and crowns and headgears and with tinkling bells.

BORI CE: 07-162-046

उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च
आसीदायोधनं तत्र नभस्तारागणैरिव

MN DUTT: 05-188-040

उरस्थैर्मणिभिनिष्कैश्चूडामणिभिरेव च
आसीदायोधनं तत्र नभस्तारागणैरिव

M. N. Dutt: With jewels that had adorned the breast of heroes with Niskhas and with jewels that had decorated the crowns of combatants, the field of battle, strewn over, looked resplendent like the star-bespangled firmament.

BORI CE: 07-162-047

ततो दुर्योधनस्यासीन्नकुलेन समागमः
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च

MN DUTT: 05-188-041

ततो दुर्योधनस्यासीन्नकुलेन समागमः
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च

M. N. Dutt: Thereafter an encounter took place between Duryodhana and Nakula when both were filled with feelings of wrath and revenge.

BORI CE: 07-162-048

अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम्
किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत्

MN DUTT: 05-188-042

अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम्
किरज्छरशतैर्हष्टस्तत्र नादो महानभूत्

M. N. Dutt: Then the son of Madri, delightful shooting hundreds of shafts, kept your son on his right side. At this, loud sounds and applause arose there.

BORI CE: 07-162-049

अपसव्यं कृतः संख्ये भ्रातृव्येनात्यमर्षिणा
सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः

MN DUTT: 05-188-043

अपसव्यं कृतं संख्ये भ्रातृव्येनात्यमर्षिणा
नामृष्यत तमप्याजौ प्रतिचक्रेऽपसव्यतः

M. N. Dutt: Though placed on the right by his enraged cousin, your son, inflamed with rage, began to resist him from even from that disadvantageous position of his.

Corresponding verse not found in BORI CE

MN DUTT: 05-188-044

पुत्रस्तव महाराज राजा दुर्योधनो द्रुतम्
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम्

M. N. Dutt: Your son the king Duryodhana then began to fight wonderfully. O mighty monarch. Then as your son endeavoured to counteract Nakula even from his sight.

BORI CE: 07-162-050

ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम्
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित्

MN DUTT: 05-188-044

पुत्रस्तव महाराज राजा दुर्योधनो द्रुतम्
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम्

MN DUTT: 05-188-045

न्यवारयत तेजस्वी नकुलचित्रमार्गवित्
स सर्वतो निवार्यैनं शरजालेन पीडयन्

M. N. Dutt: Your son the king Duryodhana then began to fight wonderfully. O mighty monarch. Then as your son endeavoured to counteract Nakula even from his sight. The latter (Nakula) endued with energy and versed in the diverse ccurses of a chariot, restrained your son. But your son again, resisting Nakula on all sides and afflicting him, with his arrowy showers.

BORI CE: 07-162-051

सर्वतो विनिवार्यैनं शरजालेन पीडयन्
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 07-162-052

तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च

MN DUTT: 05-188-046

तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितं च तत्

M. N. Dutt: Compelled Nakula to turn back. Your troops then applauded that feat of your son. Then Nakula, keeping alive the memory of the wrongs inflicted on them by your wicked counsel, addressed your son saying-Wait, wait.'

Home | About | Back to Book 07 Contents | ← Chapter 161 | Chapter 163 →