Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 042

BORI CE: 09-042-001

वैशंपायन उवाच
सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता
तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत्

MN DUTT: 06-139-001

वैशम्पायन उवाच सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता
तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत्

M. N. Dutt: Vaishampayana said "Cursed by the intelligent Vishvamitra in anger, Sarasvati, in that sacred and best of tirthas, flowed in bloody current.

BORI CE: 09-042-002

अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते

MN DUTT: 06-139-002

अथाजग्मुस्ततो राजन् राक्षसास्तत्र भारत
तत्र ते शोणितं सर्वे पिबन्तः सुखमासते

M. N. Dutt: Then, O king, many Rakshasas come and lived happily there, drinking the blood that flowed.

BORI CE: 09-042-003

तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा

MN DUTT: 06-139-003

तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः
नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा

M. N. Dutt: Highly pleased with that blood, cheerfully and without anxiety of any kind, they danced and laughed there like persons that have (by virtue) attained to heaven.

BORI CE: 09-042-004

कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते

MN DUTT: 06-139-004

कस्यचित् त्वथ कालस्य ऋषयः सुतपोधनाः
तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते

M. N. Dutt: After some time had passed away, some Rishis, having asceticism for their wealth, came to the Sarasvati, O king, on pilgrimage.

BORI CE: 09-042-005

तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुंगवाः
प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः
प्रययुर्हि ततो राजन्येन तीर्थं हि तत्तथा

MN DUTT: 06-139-005

तेषु सर्वेषु तीर्थेषु स्वाप्लुत्य मुनिपुङ्गवाः
प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः
प्रययुर्हि ततो राजन् तेन तीर्थमसृग्वहम्
अथागम्य महाभागास्ततं तीर्थं दारुणं तदा

M. N. Dutt: Those foremost of ascetics, having bathed in all the tirthas and obtained great delight, became desirous of acquiring more merit. Those learned sages at last came. O king, to that tirtha where the Sarasvati flowed in a bloody current. Those highly blessed Rishis, arriving at that frightful tirtha.

BORI CE: 09-042-006

अथागम्य महाभागास्तत्तीर्थं दारुणं तदा
दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम्
पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम

MN DUTT: 06-139-006

दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम्
पीतमानं च रक्षोभिर्बहुभिर्नृपसत्तम

M. N. Dutt: Beheld the water of the Sarasvati mixed with blood and numberless Rakshasas, O king, drinking it.

BORI CE: 09-042-007

तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे

MN DUTT: 06-139-007

तान् दृष्ट्वा राक्षसान् राजन् मुनयः संशितव्रताः
परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे

M. N. Dutt: Seeing those Rakshasas, O king, those ascetics of rigid vows tried much for rescuing the Sarasvati from that condition.

BORI CE: 09-042-008

ते तु सर्वे महाभागाः समागम्य महाव्रताः
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन्

BORI CE: 09-042-009

कारणं ब्रूहि कल्याणि किमर्थं ते ह्रदो ह्ययम्
एवमाकुलतां यातः श्रुत्वा पास्यामहे वयम्

MN DUTT: 06-139-008

ते तु सर्वे महाभागाः समागम्य महाव्रताः
आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन्
कारणं ब्रूहि कल्याणि किमर्थं ते हृदो ह्ययम्
एवमाकुलतां यातः श्रुत्वा ध्यास्यामहे वयम्

M. N. Dutt: Arriving there, those Rishis invoked that foremost of rivers and said to her-"Tell us the reason, O auspicious lady, why this lake in you has been distressed with such a plight. Hearing it, we shall use our efforts to restore its pristine condition.

BORI CE: 09-042-010

ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती
दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः

MN DUTT: 06-139-009

ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती
दुःखितामथ तां दृष्ट्वा ऊचुस्ते वै तपोधनाः

M. N. Dutt: Thus accosted, Sarasvati, trembling as she spoke, informed them of everything that had taken place. Seeing her thus woe-begone, those ascetics told her-

BORI CE: 09-042-011

कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे
करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः

MN DUTT: 06-139-010

कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे
करिष्यन्ति तु यत् प्राप्तं सर्वं एव तपोधनाः

M. N. Dutt: "We have heard of your curse, O sinless lady! All of us shall try."

BORI CE: 09-042-012

एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम्
विमोचयामहे सर्वे शापादेतां सरस्वतीम्

MN DUTT: 06-139-011

एवंमुक्त्वा सरिच्छ्रेष्टामूचुस्तेऽथ परस्परम्
विमोचयामहे सर्वे शापादेतां सरस्वतीम्

M. N. Dutt: Having said so to that foremost of rivers, they then consulted with one another-"All of us shall release Sarasvati from her curse."

BORI CE: 09-042-013

तेषां तु वचनादेव प्रकृतिस्था सरस्वती
प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि
विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा

MN DUTT: 06-139-012

ते सर्वे ब्राह्मणा राजस्तपोभिर्नियमैस्तथा
उपवासैश्च विविधैर्यमैः कष्टव्रतैस्तथा
आराध्य पशुभर्तारं महादेवं जगत्पतिम्
तां देवीं मोक्षयामासुः सरिच्छ्रेष्ठां सरस्वतीम्
तेषां तु सा प्रभावेण प्रकृतिस्था सरस्वती
प्रसन्नसलिला जज्ञे यथापूर्वं तथैव हि
निर्मुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा

M. N. Dutt: O king, adoring Mahadeva, that Lord of the universe and protector of all creatures, with penances, vows, fasts, abstinences and painful observances, all those Brahmanas emancipated that foremost of rivers, viz., the divine Sarasvati.

BORI CE: 09-042-014

दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम्
कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधयार्दिताः
ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनः पुनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-139-013

दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम्
तानेव शरणं जम्मू राक्षसाः क्षुधितास्तथा

M. N. Dutt: Beholding the water of Sarasvati purified by those ascetics, the Rakshasas (that lived there), stricken with hunger, sought the protection of those ascetics themselves.

BORI CE: 09-042-015

वयं हि क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात्
न च नः कामकारोऽयं यद्वयं पापकारिणः

MN DUTT: 06-139-014

कृत्वाञ्जलिं ततो राजन् राक्षसाः क्षुधयाऽर्दिताः
ऊचुस्तान् वै मुनीन् सर्वान् कृपायुक्तान् पुनः पुनः
वयं च क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात्
न च नः कामकारोऽयं यद् वयं पापकारिणः

M. N. Dutt: Stricken with hunger, the Rakshasas, with clasped hands, repeatedly said to those ascetics filled with compassion viz.-"All of us are hungry? We have deviated from the path of virtue! That we are sinful is not of our own free will!'

BORI CE: 09-042-016

युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा
पक्षोऽयं वर्धतेऽस्माकं यतः स्म ब्रह्मराक्षसाः

BORI CE: 09-042-017

एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च
ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः

MN DUTT: 06-139-015

युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा
यत् पापं वर्धतेऽस्माकं ततः स्मो ब्रह्मराक्षसाः
योषितां चैव पापेन योनिदोषकृतेन च
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च
ये ब्राह्मणान् प्रद्विषन्ति ते भवन्तीह राक्षसाः
आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा
प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः

M. N. Dutt: Through the want of your grace and our own evil deeds, as also for the sexual sins of our women, our sins multiply and we have become Brahma-Rakshasas! So amongst Vaishyas and Shudras and Kshatriyas, those that hate and injure Brahmanas became Rakshasas.'

BORI CE: 09-042-018

आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा
प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः
योषितां चैव पापानां योनिदोषेण वर्धते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-042-019

तत्कुरुध्वमिहास्माकं कारुण्यं द्विजसत्तमाः
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे

MN DUTT: 06-139-016

तत् कुरुध्वमिहास्माकं तारणं द्विजसत्तमाः
शक्ता भवन्तः सर्वेषां लोकानामपि तारणे

M. N. Dutt: O best of Brahmanas, arrange then for our relief. You are capable of saving all the worlds!'

BORI CE: 09-042-020

तेषां ते मुनयः श्रुत्वा तुष्टुवुस्तां महानदीम्
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः

MN DUTT: 06-139-017

तेषां वचनं श्रुत्वा तुष्टुवुस्तां महानदीम्
मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः
क्षुतं कीटावपन्नं च यचोच्छिष्टाचितं भवेत्
सुकेशमवधूतं च रुदितोपहतं च यत्

M. N. Dutt: Hearing these words of theirs, those ascetics lauded the great river. For the rescue of those Rakshasas, with contracted minds those ascetics said-"The food over which one will sneeze, that in which there are worms and insects, that which may be mixed with refuges of food, that which is mixed with hair, that which is trampled. That which is mixed with tears shall make up the food of these Rakshasas!'

BORI CE: 09-042-021

क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत्
केशावपन्नमाधूतमारुग्णमपि यद्भवेत्
श्वभिः संस्पृष्टमन्नं च भागोऽसौ रक्षसामिह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-042-022

तस्माज्ज्ञात्वा सदा विद्वानेतान्यन्नानि वर्जयेत्
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम्

MN DUTT: 06-139-018

एभिः संसृष्टमन्नं च भागोऽसौ रक्षसामिह
तस्माज्ज्ञात्वा सदा विद्वानेतान् यत्नाद् विवर्जयेत्
राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम्

M. N. Dutt: Knowing all this, the learned man shall carefully avoid these kinds of food. He that shall take such food shall be considered as partaking of the food of Rakshasas.'

BORI CE: 09-042-023

शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन्

MN DUTT: 06-139-019

तु शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः
मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन्

M. N. Dutt: Having thus purified the tirtha, those ascetics thus prayed to that river for the relief of those Rakshasas.

BORI CE: 09-042-024

महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा
अरुणामानयामास स्वां तनुं पुरुषर्षभ

MN DUTT: 06-139-020

महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा
अरुणामानयामास स्वां तनूं पुरुषर्षभ

M. N. Dutt: Understanding the wishes of those great Rishis, that best of rivers caused her body, O foremost of men, to assume a new forn called Arjuna.

BORI CE: 09-042-025

तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः
अरुणायां महाराज ब्रह्महत्यापहा हि सा

MN DUTT: 06-139-021

तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः
अरुणायां महाराज ब्रह्मवध्यापहा हि सा

M. N. Dutt: Bathing in that new river the Rakshasas renounced their bodies and went to heaven.

BORI CE: 09-042-026

एतमर्थमभिज्ञाय देवराजः शतक्रतुः
तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल

MN DUTT: 06-139-022

एतमर्थमभिज्ञाय देवराजः शतक्रतुः,
तस्मिंस्तीर्थे वीरे स्नात्वा विमुक्तः पाप्मना किल

M. N. Dutt: Ascertaining all this, the king of the celestials, viz., Indra, of a hundred sacrifices, bathed in that best of tirthas and was freed of a grievous sin."

BORI CE: 09-042-027

जनमेजय उवाच
किमर्थं भगवाञ्शक्रो ब्रह्महत्यामवाप्तवान्
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत्

MN DUTT: 06-139-023

जनमेजय उवाच किमर्थं भगवान् शक्रो ब्रह्मवध्यामवाप्तवान्
कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत्

M. N. Dutt: Janamejaya said "Why was Indra affected with the sin of Brahmanicide! How also did he become freed by bathing in that tirtha?''

BORI CE: 09-042-028

वैशंपायन उवाच
शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर
यथा बिभेद समयं नमुचेर्वासवः पुरा

MN DUTT: 06-139-024

वैश्मपायन उवाच शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर
यथा बिभेद समयं नमुचेर्वासवः पुरा

M. N. Dutt: Vaishampayana said "Listen to that history, O king, listen to those events as they took place. Hear how Indra formerly broke his treaty with Namuchi.

BORI CE: 09-042-029

नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत्
तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत्

BORI CE: 09-042-030

नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि
वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे

MN DUTT: 06-139-025

नमुचिर्वासवाद् भीत: सूर्यरश्मि समाविशत्
तेनेन्द्रः सख्यमकरोत् समयं चेदमब्रवीत्
न चाद्रेण न शुष्केण न रात्रौ नापि चाहनि
वधिष्याप्यसुरश्रेष्ठ सखे सत्येन ते शपे

M. N. Dutt: The Asura Namuchi, from fear of Vasava, had entered into a ray of the Sun. Indra then made friends with Namuchi and made a contract with him, saying-"O king, of Asuras, I shall not kill you, O friend, with anything that is wet or dry. I shall not kill you in the night or in the day! Forsooth I swear this to you.'

BORI CE: 09-042-031

एवं स कृत्वा समयं सृष्ट्वा नीहारमीश्वरः
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः

MN DUTT: 06-139-026

एवं स कृत्वा समयं दृष्ट्वा नीहारमीश्वरः
चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः

M. N. Dutt: Having made this understanding, the lord Indra one day behold a fog. He then, O king, sundered Namuchi's head, using the foam of water as his weapon.

BORI CE: 09-042-032

तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वयात्
हे मित्रहन्पाप इति ब्रुवाणं शक्रमन्तिकात्

MN DUTT: 06-139-027

तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वियात्
भो भो मित्रघ्न पापेति ब्रुवाणां शक्रमन्तिकात्

M. N. Dutt: The severed head of Namuchi thereupon pursued Indra from behind, saying repeatedly from a near place-"O killer of a friend, O wretch!'

BORI CE: 09-042-033

एवं स शिरसा तेन चोद्यमानः पुनः पुनः
पितामहाय संतप्त एवमर्थं न्यवेदयत्

MN DUTT: 06-139-028

एवं स शिरसा तेन चोद्यमानः पुनः पुनः
पितामहाय संतप्त एतमर्थं न्यवेदयत्

M. N. Dutt: Thus addressed repeatedly by that head; Indra went to grandfather and informed him, sorrowfully of what had taken place.

BORI CE: 09-042-034

तमब्रवील्लोकगुरुररुणायां यथाविधि
इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा

MN DUTT: 06-139-029

तमब्रवील्लोकगुरुररुणायां यथाविधि
इष्ट्वोपस्पृश देवेन्द्र तीर्थे पापभयापहे

M. N. Dutt: The supreme lord of the universe said to him-"Performing a sacrifice, bathe duly, O king of gods, in Aruna, the tirtha which saves all from the fear of sin!

Corresponding verse not found in BORI CE

MN DUTT: 06-139-030

एषा पुण्यजला शक्र कृता मुनिभिरेव तु
निगूढमस्यागमनमिहासीत् पूर्वमेव तु

M. N. Dutt: The water of that river, O Shakra, has been sanctified by the ascetics! Formerly the river lay there concealed.

Corresponding verse not found in BORI CE

MN DUTT: 06-139-031

ततोऽभ्येत्यारुणां देवीं प्लावयामास वारिणा
सरस्वत्यारुणायाश्च पुण्योऽयं संगमो महान्

M. N. Dutt: The divine Sarasvati, repaired to the Aruna and overflowed it with her waters. This confluence of Sarasvati and Aruna is highly sacred!

Corresponding verse not found in BORI CE

MN DUTT: 06-139-032

इह त्वं यज देवेन्द्र दद दानान्यनेकशः
अत्राप्लुत्य सुघोरात् त्वं पातकाद् विप्रमोक्ष्यसे

M. N. Dutt: There, O king of gods, perform a sacrifice. Distribute enough of presents. Performing thy ablutions there, you shall be freed off of your sin.'

BORI CE: 09-042-035

इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय
इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत्

BORI CE: 09-042-036

स मुक्तः पाप्मना तेन ब्रह्महत्याकृतेन ह
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः

MN DUTT: 06-139-033

इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय
इष्ट्वा यथावद् बलभिदरुणायामुपस्पृशत्
स मुक्तः पाप्मना तेन ब्रह्मवध्याकृतेन च
जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः

M. N. Dutt: Thus Addressed, Indra, at these words of Brahman, O Janamejaya, performed in that abode of Sarasvati various sacrifices. Distributing many presents and bathing in that tirtha, he of a hundred sacrifices, the destroyer of Vala, duly performed certain sacrifices and then bathed in the Aruna. He became freed from the sin caused by Brahmanicide. The king of the celestial region, then returned to heaven with a joyful heart.

BORI CE: 09-042-037

शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत
लोकान्कामदुघान्प्राप्तमक्षयान्राजसत्तम

MN DUTT: 06-139-034

शिरस्तचापि नमुचेस्तत्रैवाप्लुत्य भारत
लोकान् कामदुघान् प्राप्तमक्षयान् राजसत्तम

M. N. Dutt: The head of Namuchi also dropped into that stream O Bharata and Asura gained many blessed regions, O best of kings, that granted ever wish.”

BORI CE: 09-042-038

तत्राप्युपस्पृश्य बलो महात्मा; दत्त्वा च दानानि पृथग्विधानि
अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम्

MN DUTT: 06-139-035

वैशम्पायन उवाच तत्राप्युपस्पृश्य बलो महात्मा दत्त्वा च दानानि पृथग्विधानि
अवाप्य धर्मं परमार्थकर्मा जगाम सोमस्य महत् सुतीर्थम्

M. N. Dutt: Vaishampayana said "The great Baladeva, having bathed in that tirtha and given away many kinds of gifts, acquired great virtue. Of righteous deeds, he then proceeded to the great tirtha of Soma.

BORI CE: 09-042-039

यत्रायजद्राजसूयेन सोमः; साक्षात्पुरा विधिवत्पार्थिवेन्द्र
अत्रिर्धीमान्विप्रमुख्यो बभूव; होता यस्मिन्क्रतुमुख्ये महात्मा

BORI CE: 09-042-040

यस्यान्तेऽभूत्सुमहान्दानवानां; दैतेयानां राक्षसानां च देवैः
स संग्रामस्तारकाख्यः सुतीव्रो; यत्र स्कन्दस्तारकाख्यं जघान

MN DUTT: 06-139-036

यत्रायजद् राजसूयेन सोमः साक्षात् पुरा विधिवत् पार्थिवेन्द्रः
अत्रिीमान् विप्रमुख्यो बभूव होता यस्मिन् ऋतुमुख्ये महात्मा
यस्यान्तेऽभूत् सुमहद् दानवानां दैतेयानां राक्षसानां च देवैः
यस्मिन् युद्धं तारकाख्यं सुतीव्र यत्र स्कन्दस्तारकाख्यं जघान

M. N. Dutt: There, formerly Soma himself, O emperor, had celebrated the Rajasuya sacrifice. The great Atri, that foremost of Brahmanas, endued with great intelligence, became the sacrificial priest in that grand sacrifice. Upon the termination of that sacrifice, a great battle took place between the gods and the Danavas, the Daityas and the Rakshasas. That fierce battle known after the name of the Asura Taraka. In that battle Skanda killed Taraka.

BORI CE: 09-042-041

सेनापत्यं लब्धवान्देवतानां; महासेनो यत्र दैत्यान्तकर्ता
साक्षाच्चात्र न्यवसत्कार्त्तिकेयः; सदा कुमारो यत्र स प्लक्षराजः

MN DUTT: 06-139-037

सैनापत्यं लब्धवान् देवतानां महासेनो यत्र दैत्यान्तकर्ता
साक्षाचैव न्यवसत् कार्तिकेयः सदा कुमारो यत्र स प्लक्षराजः

M. N. Dutt: There, on the occasion, Mahasena, that destroyer of Daityas, became the generalissimo of the celestial forces. In that tirtha is a huge Ashvattha tree. Under its shade, Kartikeya, otherwise called Kumara, always lives in person."

Home | About | Back to Book 09 Contents | ← Chapter 41 | Chapter 43 →