Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 14 – Chapter 027

BORI CE: 14-027-001

ब्राह्मण उवाच
संकल्पदंशमशकं शोकहर्षहिमातपम्
मोहान्धकारतिमिरं लोभव्यालसरीसृपम्

BORI CE: 14-027-002

विषयैकात्ययाध्वानं कामक्रोधविरोधकम्
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम्

MN DUTT: 09-195-001

ब्राह्मण उवाच संकल्पदंशमशकं शोकहर्षहिमातपम्
मोहान्धकारतिमिरं लोभव्याधिसरीसृपम्
विषयैकात्ययाध्वानं कामक्रोधविरोधकम्
तदतीत्य महादुर्ग प्रविष्टोऽस्मि महद् वनम्

M. N. Dutt: The Brahmana said Having crossed that impassable fortress (of the world) which has purposes for its gadflies and mosquitoes, grief and joy for its cold and heat, heedlessness for its blinding darkness, cupidity and diseases for its reptiles, wealth for its own danger on the road, and lust and anger its robbers. I have entered the extensive forest (of Brahma).

BORI CE: 14-027-003

ब्राह्मण्युवाच
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः
गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम्

MN DUTT: 09-195-002

ब्राह्मण्युवाच क्व तद् वनं महाप्राज्ञ के वृक्षाः सरितश्च काः
गिरयः पर्वताश्चैव कियत्यध्वनि तद् वनम्

M. N. Dutt: The wife of the Brahmana said Where is that foremost, O you of great wisdom? What are its trces? What are its rivers? What its mountains and hills? How far is that forest?

BORI CE: 14-027-004

ब्राह्मण उवाच
न तदस्ति पृथग्भावे किंचिदन्यत्ततः समम्
न तदस्त्यपृथग्भावे किंचिद्दूरतरं ततः

MN DUTT: 09-195-003

ब्राह्मण उवाच नैतदस्ति पृथग्भाव: किंचिदन्यत् ततः सुखम्
नैतदस्त्यपृथग्भावः किंचिद् दुःखतरं ततः

M. N. Dutt: The Brahmana said There exists nothing that is separate from it. There is nothing more delightful than it. There is nothing that is un-separated from it. There is nothing more afflicting than it.

BORI CE: 14-027-005

तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम्
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम्

MN DUTT: 09-195-004

तस्माद्धस्वतरं नास्ति न ततोऽस्ति महत्तरम्
नास्ति तस्मात् सूक्ष्मतरं नास्त्यन्यत् तत्समं सुखम्

M. N. Dutt: There is nothing smaller than that. There is nothing huger than that. There is nothing minuter than that. There is no happiness that can resemble it.

BORI CE: 14-027-006

न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः
न च बिभ्यति केषांचित्तेभ्यो बिभ्यति के च न

MN DUTT: 09-195-005

न तत्राविश्य शोचन्ति न प्रहष्यन्ति च द्विजाः
न च बिभ्यति केषांचित् तेभ्यो बिभ्यति केचन

M. N. Dutt: Twice-born persons. entering into it, at once get over both joy and sorrow. They (then) never stand in fear of any creature, nor does any creature stand in fear of them.

BORI CE: 14-027-007

तस्मिन्वने सप्त महाद्रुमाश्च; फलानि सप्तातिथयश्च सप्त
सप्ताश्रमाः सप्त समाधयश्च; दीक्षाश्च सप्तैतदरण्यरूपम्

MN DUTT: 09-195-006

तस्मिन् वने सप्त यहादुमाश्च फलानि सप्तातिथयश्च सप्त
सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम्

M. N. Dutt: In that forest are seven large trees, seven fruits, and seven guests. There are seven hermitages, (forms of) Yoga concentration, and seven (forms) of initiation. This is a description of that forest.

BORI CE: 14-027-008

पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्

MN DUTT: 09-195-007

पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्

M. N. Dutt: The trees which stand filling that forest yield excellent flowers and fruits of five colours. seven

BORI CE: 14-027-009

सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्

MN DUTT: 09-195-007

पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्

M. N. Dutt: The trees which stand filling that forest yield excellent flowers and fruits of five colours. seven

BORI CE: 14-027-010

चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्

MN DUTT: 09-195-007

पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्

M. N. Dutt: The trees which stand filling that forest yield excellent flowers and fruits of five colours. seven

BORI CE: 14-027-011

शंकराणि त्रिवर्णानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्

MN DUTT: 09-195-007

पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्

M. N. Dutt: The trees which stand filling that forest yield excellent flowers and fruits of five colours. seven

BORI CE: 14-027-012

सुरभीण्येकवर्णानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्

MN DUTT: 09-195-007

पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्

M. N. Dutt: The trees which stand filling that forest yield excellent flowers and fruits of five colours. seven

Corresponding verse not found in BORI CE

MN DUTT: 09-195-008

सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्

M. N. Dutt: The trees which stand there filling that forest, yield flowers and fruits which are of excellent colours and which are, besides of two kinds.

Corresponding verse not found in BORI CE

MN DUTT: 09-195-009

सुरभीणि द्विवर्णानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्

M. N. Dutt: The trees which stand there filling that forest, yield flowers and fruits of two colours.

Corresponding verse not found in BORI CE

MN DUTT: 09-195-010

सुरभीण्येकवर्णानि पुष्पाणि च फलानि च
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद् वनम्

M. N. Dutt: The trees which stand there filling that forest, yield fragrant flowers and fruits of one colour.

BORI CE: 14-027-013

बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः

MN DUTT: 09-195-011

बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च
विसृजन्तौ महावृक्षौ तद् वनं व्याप्य तिष्ठतः

M. N. Dutt: The two trces which stand filling that forest, produce many flowers and fruits which are of unmanifest colours.

BORI CE: 14-027-014

एको ह्यग्निः सुमना ब्राह्मणोऽत्र; पञ्चेन्द्रियाणि समिधश्चात्र सन्ति
तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा; गुणाः फलान्यतिथयः फलाशाः

MN DUTT: 09-195-012

एको वह्निः सुमना ब्राह्मणोऽत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति
तेभ्यो मोक्षाः सप्त फलन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः

M. N. Dutt: There is one fire here, possessed of a good mind. That is connected with Brahmana. The five senses are the fuel here. The seven forms of Libcration originating from them are the seven forms of Initiation. The qualities are the fruits, and the guests eat those fruits.

BORI CE: 14-027-015

आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम्

MN DUTT: 09-195-013

आतिथ्यं प्रतिगृह्णन्ति तत्र तत्र महर्षयः
अर्चितेषु प्रलीनेषु तेष्वन्यद् रोचते वनम्

M. N. Dutt: There, in various places, the great Rishis accept hospitality. When they, having been adored become annihilated, then another forest shines forth.

BORI CE: 14-027-016

प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम्
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम्

MN DUTT: 09-195-014

प्रज्ञाक्षं मोक्षफलं शान्तिच्छायासमन्वितम्
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम्

M. N. Dutt: In that forest, Intelligence is the tree; Liberation is the fruit. Tranquillity is the shade of which it is possessed. It has knowledge for its resting house, contentment for its water, and the Kshetrajna for its sun.

BORI CE: 14-027-017

येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः
ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते

MN DUTT: 09-195-015

येऽधिगच्छन्ति तं सन्त स्तेषां नास्ति भयं पुनः
ऊर्वे चाधश्च तिर्यक् च तस्य नान्तोऽधिगम्यते

M. N. Dutt: Its end cannot be determined upwards, downwards, or horizontally.

BORI CE: 14-027-018

सप्त स्त्रियस्तत्र वसन्ति सद्यो; अवाङ्मुखा भानुमत्यो जनित्र्यः
ऊर्ध्वं रसानां ददते प्रजाभ्यः; सर्वान्यथा सर्वमनित्यतां च

MN DUTT: 09-195-016

स्त्ववाङ्मुखा भानुमत्यो जनित्र्यः
अर्ध्वं रसानाददते प्रजाभ्यः
सर्वान् यथा सत्यमनित्यता च

M. N. Dutt: Seven females always live there, with faces downwards, endued with effulgence, and the cause of generation. They take up all the different tastes from all creatures, cven as inconstancy sucks up truth.

BORI CE: 14-027-019

तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह

MN DUTT: 09-195-017

तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोपयन्ति च
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखैः सह

M. N. Dutt: In that itself live, and from that emerge, the seven Rishis who are crowned with ascetic success, having Vasishtha for their foremost.

BORI CE: 14-027-020

यशो वर्चो भगश्चैव विजयः सिद्धितेजसी
एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम्

MN DUTT: 09-195-018

यशो वर्थो भगश्चैव विजयः सिद्धतेजसः
एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम्

M. N. Dutt: Glory, effulgence, greatness, enlightenment; victory, perfection, and energy, these seven always follow this same like rays following the sun.

BORI CE: 14-027-021

गिरयः पर्वताश्चैव सन्ति तत्र समासतः
नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसंभवम्

MN DUTT: 09-195-019

गिरयः पर्वताश्चैव सन्ति तत्र समासतः
नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसम्भवम्

M. N. Dutt: Hills and mountains also exist there, in a body; and rivers and steams carrying waters in their course, waters that are born of Brahma.

BORI CE: 14-027-022

नदीनां संगमस्तत्र वैतानः समुपह्वरे
स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम्

MN DUTT: 09-195-020

नदीनां सङ्गमश्चैव वैताने समुपह्वरे
स्वात्मतृप्ता यतो यान्ति साक्षादेव पितामहम्

M. N. Dutt: And there is a confluence also of rivers in the secluded spot for sacrifice. Thence those who are contented with their own souls proceed to the Grandfather.

BORI CE: 14-027-023

कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः
आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते

MN DUTT: 09-195-021

कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषा:
आत्मन्यात्मानमाविश्य ब्रह्माणं समुपासते

M. N. Dutt: They whose wishes have been reduced, whose wishes have been directed to excellent vows, and whose sins have been consumed by penances, merging themselves in their souls, succeed in attain to Brahma.

BORI CE: 14-027-024

ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः
तदरण्यमभिप्रेत्य यथाधीरमजायत

MN DUTT: 09-195-022

शममप्यत्र शंसन्ति विद्यारण्यविदो जनाः
तदारण्यमभिप्रेत्य यथाधीरभिजायत

M. N. Dutt: Tranquillity is lauded by those who are conversant with the forest of knowledge. Keeping that forest in view, they take birth so as not to lose courage.

BORI CE: 14-027-025

एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः
विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम्

MN DUTT: 09-195-023

एतदेवेदृशं पुण्यमरण्यं ब्राह्मणा विदुः
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना

M. N. Dutt: Such is that sacred forest that is understood by Brahmanas, and understanding it, they live as directed by the Kshetrajna.

Home | About | Back to Book 14 Contents | ← Chapter 26 | Chapter 28 →